समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 201, कुल 726 में से
संदर्भ में पढ़ें१३६ समराङ्गणसूत्रधारे सिद्धार्थादिचतुष्कस्य भवेत्१ स्वस्तिकयोगतः । धनपालधनानन्तधनप्रदधनाह्वयम् ॥ ४२ ॥ भवन्त्येवं राजवेश्मयोगतो विंशतिर्गृहाः । प्राक् चतुर्विंशतिश्चेति चत्वारिंशच्चतुर्युता ॥ ४३ ॥ मृषाव्यूढिवशादेकभद्रादीन्यभिदध्महे । भिँदाभिरेकं(?)२मृषाभिरभद्रं द्वादशैकया ॥ ४४ ॥ द्वाभ्यां षट्षष्टिरुद्दिष्टा विंशे द्वे निस्तृभिः शते३ः(ते) । स्याद् व्यूढाभिश्चतसृभिः पञ्चोनं शतपञ्चकम् ॥ ४५ ॥ शतानि पञ्चभद्राणां सप्त द्वानवतिस्तथा । चतुर्विंशा नवशती षड्भद्राणामुदाहृता ॥ ४६ ॥ जानीयात् सप्तभद्राणि संख्यया पञ्चभद्रवत् । गृहाणामष्टभद्राणां पञ्चोनं शतपञ्चकम् ॥ ४७ ॥ द्वे विंशे नवभद्राणां भवनानां शते विदुः । षट्षष्टिर्दशभद्राणि तथा द्वादशसङ्ख्यया ॥ ४८ ॥ स्युरेकादशभद्राख्यान्येकं द्वादशभद्रकम् । एवं षट्शालगेहानां स्यात् साहस्रचतुष्टयम् ॥ ४९ ॥ षण्णवत्यधिकं ब्रूमः सप्तशालानि साम्प्रतम् । तुल्यं त्रिशालद्वितयमेकशालेन युज्यते ॥ ५० ॥ यदा स्युः सप्तशालानि तदा द्वादशसङ्ख्यया । एकशालं द्विशालं चं४ चतुःशालेन युज्यते ॥ ५१ ॥ यदा तदा सप्तशालमपरं वेश्म जायते । सैकशालं चतुःशालं यमसूर्येण संयुतम् ॥ ५२ ॥ तँदा५ भवेद् विभेदः (?) स्यात् तद्गृहं श्रीप्रदायकम् । वातेन श्रीपदं तद्वद् दण्डेन श्रीप्रदं भवेत् ॥ ५३ ॥ १ द. ख. स्वस्तिकालययोगतः । २ द. ख. तुद्वाभिरेकम् । ३ क. तैः । ४ क. वा । ५ द. ख. यदा । ६ द. ख. प्र.°