समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 217, कुल 726 में से
संदर्भ में पढ़ें१९२ समराङ्गणसूत्रधारे एकाधिकांनभीष्टायाः सङ्ख्यायास्तिर्यगालिखेत् । कोष्ठानेकांच(तांश्च) रूपादींस्तन्मध्ये द्विगुणोत्तरान् ॥ ६९ ॥ एकोनं पृष्ठतस्तेषामेकं द्विगुणमग्रतः । नातिक्रामेत् परां सङ्ख्यां पताकाछन्द उच्यते ॥ ७० ॥ तद्दिनेष्टाद्यगा सङ्ख्येत्येकाद्यैस्तैस्तनो गृहे । न्यस्ताङ्कसङ्ख्याः सङ्ख्याः स्युरलिन्दाद्यैः प्रकल्पिताः ॥ ७१ ॥ एकैकमिष्टस्थानेषु लिखेत् सैकैश्वतः परम् । अन्त्यादं(ह)ते पूर्वपूर्वयुक्तेनायोजयेत् परम् ॥ ७२ ॥ अन्त्यादारभ्य तद्बनावेकाद्येषु(?) च पर्ययात् । अलिन्दादिषु यत्र स्यात् सङ्ख्या सूचीं तु तां विदुः ॥ ७३ ॥ उद्दिष्टे स्थापयेत् सङ्ख्यामुद्दिष्टां सम्भवे(जे)च्च ताम् । दलयेद् रूपयुक्तां तु दलयेन्नाम सम्भवेत्(?) ॥ ७४ ॥ लघुस्वरूपदलने सैकार्थे करणे गुरुः । यावदिष्टपदाप्तिः स्याल्लघवोऽलिन्दकोदयः ॥ ७५ ॥ कृत्वा छन्दः समुद्दिष्टं तदन्ते लघुनि द्विकम् । न्यसेदेकं गुरूणां च द्विगुणं द्विगुणं ततः ॥ ७६ ॥ व्यत्यासाल्लघुनः स्थाने द्विगुणादेककं गुरोः । कुर्यात् तमाद्यस्थानाङ्कसङ्ख्यं नष्टे गृहं भवेत् ॥ ७७ ॥ प्राग्रस्यैकं कोष्ठमेकैकवृद्धया न्यस्येदूर्ध्वं पङ्क्तयो यावदिष्ट्टाः । इष्टानेकादील्लिखेदानुपूर्व्या कर्णेनाधः शून्यरूपे च दद्यात् ॥७८॥ कर्णस्थाङ्कश्लेषतोऽङ्के भवेद् यस्तं विन्यस्येत् कोष्ठकेषु क्रमेण । उद्दिष्टाङ्को भद्रसङ्ख्यानि मध्ये याभ्यः कर्णश्लेषतो मूषिकास्ताः ॥७९॥ एकादिषु द्विगुणितेष्विह यावदिष्टमूषाक्रमैव्युपहितेष्वथ तेषु विद्यात् । उद्दिष्टवेश्मकृतनिर्गममार्गंमूषासत्कङ्कसैकयुतिनिर्मितसङ्ख्यमोकः॥८०॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे आयव्ययनक्षत्रराशिपलतद्योगताराङ्कयोनितच्छन्दोगनिर्णयो नाम षड्विंशोऽध्यायः। १ द. °को° । २ द. ख. °द्वानपूर्व पू° । ३ द. क्रमेत्युपहिं° । ४ द. 'स्तथासत्काकारो ' टिप्यणामिवाभाति ।