समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 218, कुल 726 में से
संदर्भ में पढ़ेंसभाष्टक नाम सप्तविंशोऽध्यायः । १९३ अथ सभाष्टकं नाम सप्तविंशोऽध्यायः । नन्दा भद्रा जया पूर्णा सभा स्याद् भाविता तथा । दक्षा च प्रवरा तद्वद् विदुरा चाष्टमी मता ॥ १ ॥ चतुरश्रीकृते क्षेत्रे ततः षोढा विभाजिते । मध्ये पदचतुष्कं स्यात् सीमालिन्दस्तु भागिकः ॥ २ ॥ तद्बाह्योऽलिन्दकस्तद्वद् भवेत् प्रतिसराभिधः । प्राग्ग्रीवाख्यस्तृतीयश्च बहिः क्षेत्राच्चतुर्दिशम् ॥ ३ ॥ निसृष्टसौर्ध(धे)यैर्वा(?) स्यादेकस्यां वा यदा दिशि । नन्दा भद्रा जया पूर्णा क्रमेण स्युः सभास्तदा ॥ ४ ॥ षड्भागभाजिते क्षेत्रे कर्णभित्तिं निवेशयेत् । सभा स्याद् भाविता नाम सप्राग्ग्रीवात्र पञ्चमी ॥ ५ ॥ स्तम्भान् षट्त्रिंशदेतासु पञ्चस्वपि निवेशयेत् । स्तम्भान् प्राग्ग्रीवसंबद्धान् पृथगेभ्यो विनिर्दिशेत् ॥ ६ ॥ दक्षेति षष्ठी परितस्तृतीयालिन्दवेष्टिता । प्रवरा सप्तमी द्वारैर्युक्तैषा परिकीर्तिता ॥ ७ ॥ प्राग्ग्रीवद्वारसंयुक्ता विदुरेत्यष्टमी सभा । सभानामिदमष्टानां लक्षणं समुदाहृतम् ॥ ८ ॥ इत्यष्टानां लक्ष्म सम्यक् सभाना- मेतत् प्रोक्तं दिग्भवालिन्दभेदात् । तद्वद् द्वारालिन्दसंयोगतश्च ज्ञातेऽत्र स्याद् भूभृतां स्थानयोगः ॥ ९ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे सभाष्टकं नाम सप्तविंशोऽध्यायः ॥ वा, २०