समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 219, कुल 726 में से
संदर्भ में पढ़ें१६४ समराङ्गणसूत्रधारे अथ गृहद्रव्यप्रमाणानि नामाष्टाविंशोऽध्यायः । उपादेयानि यान्यत्र परित्याज्यानि यानि च । गृहद्रव्यप्रमाणानि तानीदानीं प्रचक्ष्महे ॥ १ ॥ द्वारस्य गृहविस्तारैर्हस्ततुल्याङ्गु लैर्भवेत् । उच्छ्रायः सप्तभिर्युक्तैर्विस्तृतिस्तु तदर्धतः ॥ २ ॥ प्रकल्पयेद् गृहद्वारं क्रमेणैव कनीयसा(म्) । त्रैराशिकेन मध्यानां द्वादशांशं परित्यजेत् ॥ ३ ॥ इत्युच्छ्रितिस्तदर्धेन सर्वेषामपि विस्तरः । उच्छ्रायमुत्तमानां तु कुर्यादष्टांशवर्जितम् ॥ ४ ॥ विस्ताराङ्गुलसंयुक्तां(क्तं)कुर्यादनिकनियसाम् । चतुःषष्टिगृहद्वारमुदयेनार्थविस्तृतम् ॥ ५ ॥ विस्तारहस्ततुल्यानि षष्ट्या पञ्चशताथवा । संयुतान्यङ्गुलानि स्यादुच्छ्रायोऽर्धेन विस्तृतिः ॥ ६ ॥ गृहोत्सेधेन वा त्र्यंशहीनेन स्यात् समुच्छ्रितिः । तदर्धेन तु विस्तारो द्वारस्येत्यपरो विधिः ॥ ७ ॥ द्वारोच्छ्रायकरैस्तुल्येष्वङ्गुलेषु विनिक्षिपेत् । चत्वारि पेष्यापिण्डः स्यात् सपादं विदधीत तम् ॥ ८ ॥ सार्धं वा सत्रिभागं वा द्विगुणं चाधिकं न तु । एवं कृते भवेद् द्वारपेय्याया विस्तृतिः स्फुटा ॥ ९ ॥ सार्धेन पेष्यापिण्डेन २पिण्डं स्या(ण्डस्यो)दम्बरो भवेत् । सार्धस्तु पेष्याविस्तारः स्यादुदुम्बरविस्तृतिः ॥ १० ॥ पेष्यापिण्डेन तुल्या स्याच्छाखाया विस्तृतिः शुभा । सार्धया वैनया रूपशाखाया अपि विस्तृतिः ॥ ११ ॥ विस्तारार्धेन पेष्यायाः खल्वशाखा विधीयते । रूपशाखासमा वा स्यात् सार्धा वा बाह्यमण्डला ॥ १२ ॥ १ द. विस्तारतस्ततुल्यानि । २ द. पिण्डमोडुंबगे ।