समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 225, कुल 726 में से
संदर्भ में पढ़ें१६० समराङ्गणसूत्रधारे बाहल्यमुत्पलस्य स्यादुत्तमस्याङ्गुलत्रयम् । अङ्गुलद्वितयं सार्धं मध्यमस्य द्वे कनीयसः ॥ १४ ॥ बाहल्यमीशादण्डस्य कुर्यादुत्पलसम्मितम् । सार्धं सपादं सत्र्यंशं तस्य विस्तारं१मुत्पलात् ॥ १५ ॥ विस्तारार्धेन शय्यायाः सकुक्ष्यस्य विधीयते । तत्पादस्योदयो(या) २मध्यहीनौ ३द्विचतुरुज्झितौ ॥ १६ ॥ अर्धेन मध्यविस्तारान्मध्ये बाहल्यमिष्यते । त्रिभागहीन४मिच्छन्ति पादोन५मपि केचन ॥ १७ ॥ स्थौल्येन पादोऽधः शीर्षादुत्पलेन समो भवेत् । मध्ये सपादः सार्धश्च तले ६वृद्धिः क्रमेण सा ॥ १८ ॥ षड्भागोऽस्याधिको ७यद्वा मध्ये त्र्यंशाधिकस्तले । तत्कुक्ष्यमुत्पलत्र्यंशो मूले तस्यार्धमग्रतः ॥ १९ ॥ उत्सेधतुल्यो विस्तारः कार्यो वा द्व्यङ्गुलाधिकः । सपत्रकलिकापत्रपुटग्रासविभूषितः ॥ २० ॥ कुर्यात् प्रदक्षिणाग्राणि शय्याङ्गानि समन्ततः । ऊर्ध्वाग्रा निखिलाः पादाः स्वामिनो वृद्धिहेतवे ॥ २१ ॥ श्रेष्ठैकद्रव्यजा शय्या मिश्रद्रव्या न शस्यते । एकदारुं प्रशंसन्ति द्विदारुर्भयमावहेत् ॥ २२ ॥ त्रिदारुघटितायां तु स्वामिनो नियतो वधः । शय्यायां जायते यस्मात् तस्मात् तां परिवर्जयेत् ॥ २३ ॥ मूलमग्रेण संयुक्तमपसव्यं विगर्हितम् । मूलं मूलेन वा विद्धमेकाग्रे द्वे च दारुणी ॥ २४ ॥ मध्ये व्रणो मृत्युकरस्त्रिभागे व्याधिकारकः । क्लेशावहश्चतुर्भागे शिरस्थो द्रव्यहानिकृत् ॥ २५ ॥ १ द. °त्र्यंशं शतस्य विस्तरमु° । २ द. °स्योदयो म° । ३ द. °नौ च द्वि° । ४ क. द. °ना° । ५ क. °ना° । ६ द. वृद्धिक्रमेण सा । ७ द. यद्वामोस्या° । ८ द. °का° ।