समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 224, कुल 726 में से
संदर्भ में पढ़ेंशयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः । १९९ मैत्रे १ मुहूर्त्ते पुष्यस्थे शीतरश्मौ शुभेऽहनि । सम्पूज्य देवताः सम्यक् कर्माम्भं समाचरेत् ॥ २ ॥ वृक्षास्तत्र प्रशस्यन्ते चन्दनस्तिनिशोऽर्जुनः । तिन्दुकः सालशाकौ च शिरीषासनधन्वनाः ॥ ३ ॥ हरिद्रुदेवदारुश्च स्यन्दनोकौ सपद्मकौ । श्रीपर्णी दधिपर्णश्च शिंशपान्येऽपि ये शुभाः ॥ ४ ॥ गृहकर्मणि ये नेष्टा वृक्षास्तेऽत्रापि निन्दिताः । हेम्ना रूप्येण चानद्धा गजदन्तेन वा शुभा ॥ ५ ॥ आरकूटेन वा नद्धा शय्या कार्या विचक्षणैः । पूर्वच्छिन्नं यदा दारु शयनासनहेतवे ॥ ६ ॥ आदीयते तदारम्भे निमित्तान्युपलक्षयेत् । दध्यक्षतान् पूर्णकुम्भं रत्नानि कुसुमानि वा ॥ ७ ॥ सुगन्धद्रव्यवस्त्राद्यान् मत्स्याश्वयुगलं तथाँ । मत्तवारणमन्यांश्च शुभान् वीक्ष्यादिशेच्छुभम् ॥ ८ ॥ कर्माङ्गुलं समुद्दिष्टं वितुषैरष्टभिर्यवैः । अष्टोत्तरशतं नेषां शय्या ज्येष्ठा महीभुजाम् ॥ ९ ॥ मर्ध्या महीभुजां शय्या शतं स्याच्चतुरोत्तरम् । शतं कनीयसी प्रोक्ता नृपाणां विजयावहा ॥ १० ॥ नवतितृपपुत्रस्य मन्त्रिणः सा षडुज्झिता । द्वादशोना बलपतेस्त्रिषट्कोना पुरोधसः ॥ ११ ॥ आयामार्धेन विस्तारं सर्वं शय्यासु कल्पयेत् । यद्वा निजाष्टभागेन षड्भागेनाथवाधिकम् ॥ १२ ॥ विप्राणां शस्यते शय्या दैर्घ्येणाङ्गुलसप्ततिः । द्वाभ्यां द्वाभ्यामङ्गुलाभ्यां हीना स्याच्छेषवर्णिनाम् ॥ १३ ॥
१ द. ॰त्र्ये । २ द. ॰रश्मौ स्थितेऽहनि । ३ क. शां । द. सालसाकौव । ४ क. ग. द. ख. ॰भाः । सर्वदन्तमयी शय्या हेमरत्नान्विता शुभा । गृ॰ । ५ द. प्रतौ इयं पंक्तिर्नास्ति । ६ ग. द. ख, ॰ध्यमा नृपतेः शं॰ । ७ द. म्व. ॰ष्ठि॰ ।