समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 223, कुल 726 में से
संदर्भ में पढ़ें१७८ समराङ्गणसूत्रधार भूताख्यं तिलकं तद्वन्मण्डलं कुमुदं तथा । गृहच्छाद्येषु तेषु स्यादुच्छ्रायोऽपि चतुर्विधः ॥ ४९ ॥ क्षेत्रतुर्यांशतः कार्यो दैर्घ्येणच्छाद्यदण्डकः । तदर्धं मुष्टिकायामो दण्डत्र्यंशेन लम्बना ॥ ५० ॥ चतुरश्रं समं कान्तं मधुरं सुदृढं घनम् । वेश्मनां छाद्यकं कार्यं भूतं नाम्ना सुपूजितम् ॥ ५१ ॥ तस्यैवाष्टादशो भागो यदा स्यादुच्छ्रयेऽधिकः । उदयस्तिलको नाम शस्तः स गृहकर्मणि ॥ ५२ ॥ द्वाभ्यामुच्चतरैः पूर्वो मण्डलः कुमुदस्त्रिभिः । अभित्तिस्थे(स्थं) भवेच्छाद्ये(द्यं) चन्द्ररेखाविभूषितम् ॥ ५३ ॥ गुणरागान्विता भित्तिर्यद्वा घनचयात्मिका । तत्रच्छाद्यं भवेच्चान्यदवधारणसंज्ञितम् ॥ ५४ ॥ सिंहकर्णकपोतालीघण्टाकर्णार्धपक्षगाः । ध्वजच्छत्रकुमारांश्च गृहेषु परिवर्जयेत् ॥ ५५ ॥ न पक्षराजिध्वजसिंहकर्णकुमारघण्टाः समरालपल्लीः । न प्रस्खलाँधानि नैचैव पत्राण्यायोजयेद् वेश्मसु मङ्गलार्थी ॥५६॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे गृहद्रव्यप्रमाणानि नामाष्टाविंशोऽध्यायः ।१० अथ शयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः । इदानीमभिधास्यामः शयनासनलक्षणम् । शुभाशुभपरिज्ञानं येन सम्यक् प्रजायते ॥ १ ॥ १ ख. ग. दण्डं । २ ख. ग. ॰स्ममुच्छाँ, द. ॰इमामुँ । ३ द. ख. ग. ॰चरतः° । ४ ख. ग. ॰न्द्रे° । ५ द. ख. ग. अ° । ६ द. ॰कर्महयंशार्ली° । ७ द. ख. ग. राधानि । ८ द. ख. ग. नरेव । ९ द. ॰र्थम् । १० द. ॰प्रमाणाध्यायो नामाष्टाविंशः ॥ छ ॥ ।