समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
१७८ समराङ्गणसूत्रधार भूताख्यं तिलकं तद्वन्मण्डलं कुमुदं तथा । गृहच्छाद्येषु तेषु स्यादुच्छ्रायोऽपि चतुर्विधः ॥ ४९ ॥ क्षेत्रतुर्यांशतः कार्यो दैर्घ्येणच्छाद्यदण्डकः । तदर्धं मुष्टिकायामो दण्डत्र्यंशेन लम्बना ॥ ५० ॥ चतुरश्रं समं कान्तं मधुरं सुदृढं घनम् । वेश्मनां छाद्यकं कार्यं भूतं नाम्ना सुपूजितम् ॥ ५१ ॥ तस्यैवाष्टादशो भागो यदा स्यादुच्छ्रयेऽधिकः । उदयस्तिलको नाम शस्तः स गृहकर्मणि ॥ ५२ ॥ द्वाभ्यामुच्चतरैः पूर्वो मण्डलः कुमुदस्त्रिभिः । अभित्तिस्थे(स्थं) भवेच्छाद्ये(द्यं) चन्द्ररेखाविभूषितम् ॥ ५३ ॥ गुणरागान्विता भित्तिर्यद्वा घनचयात्मिका । तत्रच्छाद्यं भवेच्चान्यदवधारणसंज्ञितम् ॥ ५४ ॥ सिंहकर्णकपोतालीघण्टाकर्णार्धपक्षगाः । ध्वजच्छत्रकुमारांश्च गृहेषु परिवर्जयेत् ॥ ५५ ॥ न पक्षराजिध्वजसिंहकर्णकुमारघण्टाः समरालपल्लीः । न प्रस्खलाँधानि नैचैव पत्राण्यायोजयेद् वेश्मसु मङ्गलार्थी ॥५६॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे गृहद्रव्यप्रमाणानि नामाष्टाविंशोऽध्यायः ।१० अथ शयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः । इदानीमभिधास्यामः शयनासनलक्षणम् । शुभाशुभपरिज्ञानं येन सम्यक् प्रजायते ॥ १ ॥ १ ख. ग. दण्डं । २ ख. ग. ॰स्ममुच्छाँ, द. ॰इमामुँ । ३ द. ख. ग. ॰चरतः° । ४ ख. ग. ॰न्द्रे° । ५ द. ख. ग. अ° । ६ द. ॰कर्महयंशार्ली° । ७ द. ख. ग. राधानि । ८ द. ख. ग. नरेव । ९ द. ॰र्थम् । १० द. ॰प्रमाणाध्यायो नामाष्टाविंशः ॥ छ ॥ ।
शयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः । १९९ मैत्रे १ मुहूर्त्ते पुष्यस्थे शीतरश्मौ शुभेऽहनि । सम्पूज्य देवताः सम्यक् कर्माम्भं समाचरेत् ॥ २ ॥ वृक्षास्तत्र प्रशस्यन्ते चन्दनस्तिनिशोऽर्जुनः । तिन्दुकः सालशाकौ च शिरीषासनधन्वनाः ॥ ३ ॥ हरिद्रुदेवदारुश्च स्यन्दनोकौ सपद्मकौ । श्रीपर्णी दधिपर्णश्च शिंशपान्येऽपि ये शुभाः ॥ ४ ॥ गृहकर्मणि ये नेष्टा वृक्षास्तेऽत्रापि निन्दिताः । हेम्ना रूप्येण चानद्धा गजदन्तेन वा शुभा ॥ ५ ॥ आरकूटेन वा नद्धा शय्या कार्या विचक्षणैः । पूर्वच्छिन्नं यदा दारु शयनासनहेतवे ॥ ६ ॥ आदीयते तदारम्भे निमित्तान्युपलक्षयेत् । दध्यक्षतान् पूर्णकुम्भं रत्नानि कुसुमानि वा ॥ ७ ॥ सुगन्धद्रव्यवस्त्राद्यान् मत्स्याश्वयुगलं तथाँ । मत्तवारणमन्यांश्च शुभान् वीक्ष्यादिशेच्छुभम् ॥ ८ ॥ कर्माङ्गुलं समुद्दिष्टं वितुषैरष्टभिर्यवैः । अष्टोत्तरशतं नेषां शय्या ज्येष्ठा महीभुजाम् ॥ ९ ॥ मर्ध्या महीभुजां शय्या शतं स्याच्चतुरोत्तरम् । शतं कनीयसी प्रोक्ता नृपाणां विजयावहा ॥ १० ॥ नवतितृपपुत्रस्य मन्त्रिणः सा षडुज्झिता । द्वादशोना बलपतेस्त्रिषट्कोना पुरोधसः ॥ ११ ॥ आयामार्धेन विस्तारं सर्वं शय्यासु कल्पयेत् । यद्वा निजाष्टभागेन षड्भागेनाथवाधिकम् ॥ १२ ॥ विप्राणां शस्यते शय्या दैर्घ्येणाङ्गुलसप्ततिः । द्वाभ्यां द्वाभ्यामङ्गुलाभ्यां हीना स्याच्छेषवर्णिनाम् ॥ १३ ॥
१ द. ॰त्र्ये । २ द. ॰रश्मौ स्थितेऽहनि । ३ क. शां । द. सालसाकौव । ४ क. ग. द. ख. ॰भाः । सर्वदन्तमयी शय्या हेमरत्नान्विता शुभा । गृ॰ । ५ द. प्रतौ इयं पंक्तिर्नास्ति । ६ ग. द. ख, ॰ध्यमा नृपतेः शं॰ । ७ द. म्व. ॰ष्ठि॰ ।
१६० समराङ्गणसूत्रधारे बाहल्यमुत्पलस्य स्यादुत्तमस्याङ्गुलत्रयम् । अङ्गुलद्वितयं सार्धं मध्यमस्य द्वे कनीयसः ॥ १४ ॥ बाहल्यमीशादण्डस्य कुर्यादुत्पलसम्मितम् । सार्धं सपादं सत्र्यंशं तस्य विस्तारं१मुत्पलात् ॥ १५ ॥ विस्तारार्धेन शय्यायाः सकुक्ष्यस्य विधीयते । तत्पादस्योदयो(या) २मध्यहीनौ ३द्विचतुरुज्झितौ ॥ १६ ॥ अर्धेन मध्यविस्तारान्मध्ये बाहल्यमिष्यते । त्रिभागहीन४मिच्छन्ति पादोन५मपि केचन ॥ १७ ॥ स्थौल्येन पादोऽधः शीर्षादुत्पलेन समो भवेत् । मध्ये सपादः सार्धश्च तले ६वृद्धिः क्रमेण सा ॥ १८ ॥ षड्भागोऽस्याधिको ७यद्वा मध्ये त्र्यंशाधिकस्तले । तत्कुक्ष्यमुत्पलत्र्यंशो मूले तस्यार्धमग्रतः ॥ १९ ॥ उत्सेधतुल्यो विस्तारः कार्यो वा द्व्यङ्गुलाधिकः । सपत्रकलिकापत्रपुटग्रासविभूषितः ॥ २० ॥ कुर्यात् प्रदक्षिणाग्राणि शय्याङ्गानि समन्ततः । ऊर्ध्वाग्रा निखिलाः पादाः स्वामिनो वृद्धिहेतवे ॥ २१ ॥ श्रेष्ठैकद्रव्यजा शय्या मिश्रद्रव्या न शस्यते । एकदारुं प्रशंसन्ति द्विदारुर्भयमावहेत् ॥ २२ ॥ त्रिदारुघटितायां तु स्वामिनो नियतो वधः । शय्यायां जायते यस्मात् तस्मात् तां परिवर्जयेत् ॥ २३ ॥ मूलमग्रेण संयुक्तमपसव्यं विगर्हितम् । मूलं मूलेन वा विद्धमेकाग्रे द्वे च दारुणी ॥ २४ ॥ मध्ये व्रणो मृत्युकरस्त्रिभागे व्याधिकारकः । क्लेशावहश्चतुर्भागे शिरस्थो द्रव्यहानिकृत् ॥ २५ ॥ १ द. °त्र्यंशं शतस्य विस्तरमु° । २ द. °स्योदयो म° । ३ द. °नौ च द्वि° । ४ क. द. °ना° । ५ क. °ना° । ६ द. वृद्धिक्रमेण सा । ७ द. यद्वामोस्या° । ८ द. °का° ।
शयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः । १६१ निर्दोषगात्रे पर्यङ्के पापस्वप्नो न दृश्यते । ग्रन्थिकोटरवत् कुर्यात् तस्मान्न शयनासनम् ॥ २६ ॥ आसनं शयनीयं च ग्रन्थिकोटरवजितम् । बहुपुत्रकरं प्राहुर्धर्मकामार्थसाधनम् ॥ २७ ॥ आरोहणे प्रचलति शयने कम्पने तथा । विदेशयानकलहौ ते क्रमेण प्रयच्छतः ॥ २८ ॥ सुश्लिष्टां तामतैः कुर्यान्निर्दोषीं वर्णशालिनीम् । दृढां स्थिरां च स्थपतिः पत्युः कामविवृद्धये ॥ २९ ॥ निष्कुटं कोलहक् क्रोडनयनं वत्सनाभकम् । कालकं बन्धकं चेति छिद्रसंक्षेप ईरितः ॥ ३० ॥ घटवत् सुषिरं मध्ये सङ्कटास्यं च निष्कुटम् । कोलाक्षं नीडमिच्छन्ति माषनिष्पावमात्रकम् ॥ ३१ ॥ अध्यर्धपर्वदीर्घं च विवर्णं विषमं तथा । तदिह क्रोडनयनं छिद्रमाहुर्महर्षयः ॥ ३२ ॥ भिन्नं पर्वमितं वामावर्तं स्याद् वत्सनाभकम् । कालकं कृष्णकान्ति स्याद् विनिर्भिन्नं तु बन्धकम् ॥ ३३ ॥ छिद्रं दारुसवर्णं यत् तन्नो शुभकरं तथा । निष्कुटेऽर्थक्षयः कोललोचने कुलविद्रवः ॥ ३४ ॥ शस्त्राद् भीः क्रोडनयने वत्सनाभे रुजो भयम् । कालके बन्धकाख्ये च कीटविद्धे च नो शुभम् ॥ ३५ ॥ सर्वत्र प्रचुरग्रन्थि दारु सर्वमनिष्टदम् । शय्यार्थे कथितैः क्लृप्तं दारुभिः शस्तमासनम् ॥ ३६ ॥ उपवेशसुखं मानं प्रशस्ताय प्रकल्पितम् । पुष्करः सूदहस्तश्च वृत्तोऽङ्गुलचतुष्टयात् ॥ ३७ ॥ १ क. °मा° । २ द. वा । ३ द. ख. °कं° । ४ द. ख. °य्यायां कम्पतेऽथवा । ५ द. °ष्ठानामतः । ६ द. ख. °न्धु° । ७ द. °ख्यं नीलम° । ८ द. °न्धु° । ९ द. °के धुंधु° । १० द. °स्तस्य । वा. २१
१६२ समराङ्गणसूत्रधारे आरभ्य विस्तरात् कार्यस्तावद् यावन्नवाङ्गुलम् । पुष्करव्यासतो दण्डस्तस्य कार्यश्चतुर्गुणः ॥ ३८ ॥ फलकः पुष्करार्धेन तत्तुल्यश्चास्य मूलकः । स्थूलः स्याच्चतुरंशेन दण्डपुष्करविस्तरात् ॥ ३९ ॥ खातं च पुष्करस्यान्तस्तावद् गाम्भीर्यमिष्यते । प्रशस्तसारदारूत्थः कर्तव्योऽस्य प्रयोजनम् (?) ॥ ४० ॥ परिवेषणमन्यच्च पच्यमानानैघट्टकम् (?)। कार्यः कङ्कतकः श्लक्ष्णः प्रशस्तमृदुदारुजः ॥ ४१ ॥ आरभ्य दैर्घ्येणाष्टभ्यः स्याद् यावद् द्वादशाङ्गुलम् । सार्धाङ्गुलं चतुर्भागं विस्तारेण च दैर्घ्यतः ॥ ४२ ॥ मध्ये च तस्य बाहल्यं विस्ताराष्टांशतो भवेत् । एकतः स्थूलविस्तारा भवेयुस्तस्य दन्तकाः ॥ ४३ ॥ अन्यतस्तु घनाः सूक्ष्मास्तीक्ष्णाः कार्यास्तथाग्रतः । मध्ये त्रिभागमुत्सृज्य दन्तका भागयोर्द्वयोः ॥ ४४ ॥ त्रिभिर्भागे हृते तेषां न शेषस्तान् विवर्जयेत् (?)। गजदन्तमयः श्रेष्ठस्तथा शाखोटवृक्षजः ॥ ४५ ॥ मध्यमो दारुभिः शेषैर्जघन्योऽसारदारुजः । रूपकैः स्वस्तिकाद्यैर्वा स मध्ये स्यादलङ्कृतः ॥ ४६ ॥ यूकाद्यपनये केशविवेके चोपयुज्यते । अङ्गुलेनाधिके पादात् कार्ये दैर्घ्येण पादुके ॥ ४७ ॥ कृतायां पञ्चधा तस्यां कुर्याद् भागत्रयं पुरः । पश्चाद् भागद्वयं तत्र सङ्ग्रहोऽस्या विधीयते ॥ ४८ ॥ अङ्गुलत्रयमुत्सेधो विस्तारोऽङ्गुर्य्यनुसारतः । अङ्गुल्यङ्गुष्ठयोर्मध्यैभागे मत्स्याद्यलङ्कृतौ ॥ ४९ ॥ १ द. ख. ॰रः । २ क. ॰स्य यावद् गा० । ३ क. ॰न्नघण्ट० । ४ द. ख. ॰ङ्के० । ५ द. ख. सद्व्यङ्गुलं । ६ ख. ॰ताम् । ७ द. प्रभानस्तु । ८ द. ॰द्युगनये । ९ द. पाण्डुके । १० क. ह्रीं । ११ द. ख. ॰ध्ये० ।
राजगृहं नाम त्रिंशोऽध्यायः । १६३ कर्तव्यौ कीलकौ काष्ठदन्तशृङ्गादिसम्भवौ । गजेन्द्रदन्तः श्रीखण्डश्रीपर्ण्यौ मेषशृङ्गिका ॥ ५० ॥ शस्ताः पादु॒कयोः शाकक्षीरिणीचिरबिल्विकाः। इदमिह शयनानामासनानां च लक्ष्म प्रकटितमनु दर्व्याः³ कङ्कतस्यापि सम्यक् । शुभमथ विपरीतं पादुकानां च विद्वान् सकलमिति विदित्वा पूज्यतामेति लोके ॥ ५१ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे शयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः ॥ अथ राजगृहं नाम त्रिंशोऽध्यायः । अष्टोत्तरशतं ज्येष्ठं मध्यं स्यान्नवतिं⁴ करान् । जघन्यं सप्ततिकरान् राजवेश्म प्रशस्यते ॥ १ ॥ अतो हीनं न कर्तव्यं महतीं श्रियमिच्छता । चतुरश्रीकृते क्षेत्रे दशधा प्रविभाजिते ॥ २ ॥ भागार्थं शस्यते भित्तिरादिकोणसमाश्रिता । चतुष्को⁵ भागिको मध्ये चतुःस्तम्भसमन्वितः ॥ ३ ॥ अलिन्दस्तद्वहिः कार्यः स्तम्भैर्द्वादशभिर्वृतः । विंशत्या स्याद् वरैर्युक्तो द्वितीयोऽलिन्दकस्ततः ॥ ४ ॥ स्यादष्टाविंशतिस्तम्भस्तृतीयश्चाप्यलिन्दकः । षट्त्रिंशता चतुर्थश्च स्तम्भानां परिकीर्तितः ॥ ५ ॥ एवं स्तम्भशतं मध्ये प्रोक्तं पृथ्वौजये बुधैः । द्वाराणि चास्य चत्वारि पञ्चशाखानि जायते(?) ॥ ६ ॥ १ द. ख. ०र्णी । २ द. विल्वकाः । ३ द. दर्पा । ४ द. ॅतिः । ५ क. ष्के । ६ द. ख. आं ।
१६४ समराङ्गणसूत्रधारे चत्वारो निर्गमास्तस्य प्रोक्ताः सर्वे विभागिकाः¹ । दिक्षु सर्वासु कर्तव्यमेवं भद्रनिवेशनम् ॥ ७ ॥ अर्धेन मध्यभित्ते²स्तु भित्तिर्भद्रे³ञ्च(त्र )ये⁴ भवेत् । भद्रे भद्रे⁵ धराणां स्याद् विंशतिश्चाष्टभिर्युता ॥ ८ ॥ मुखभद्रं भवेद् युक्तं वेदिकामत्तवारणैः । क्षेत्रभागोदयाद्या भूराभूमिफलकान्तरम् ॥ ९ ॥ आदिभूम्युदयार्धेन पीठं चास्य प्रकल्पयेत् । भागान् नवोदयं कृत्वा भागेनैकेन कुम्भिका ॥ १० ॥ कर्तव्याष्टांशयुक्तेन स्तम्भो भागचतुष्टये⁸ । पादयुक्तं विधातव्यो भागेनोत्कीलंकं तथा ॥ ११ ॥ हीरग्रहणं कार्यं भागं¹⁰ पादविवर्जितः(तम्)¹¹ । सपादभागिकः पट्टः स्तम्भकेन समन्वितः ॥ १२ ॥ पट्टार्धेन जयन्त्यः स्युर्भूभौभूमावयं क्रमः । क्लृप्तभागोदयादर्धं भूमिश्वन्यासु हीयते ॥ १३ ॥ पञ्चभागप्रमाणं तु सच्छाद्यं नवमं तलम् । वेदिकाया अधश्छोद्यं¹² सार्धभागत्रयोन्मितम् ॥ १४ ॥ कण्ठेन युक्तं कर्तव्यं वेदिका पिहिता यथौ¹⁴ । तस्याः कण्ठे(ण्ठो) विधातव्यस्तन्मध्ये सार्धभागिकः ॥ १५ ॥ वेदिकाविस्तरः कार्यो भागांस्तंर्धसप्तमान्¹⁵ । वेदिकोपरि घण्टा च सार्धभागांश्चतुर्दश ॥ १६ ॥ भागद्वयं सपादं तु कण्ठः पट्टं तु पञ्चभिः । चतुर्भिंश्च द्वितीयं च तृतीयं च त्रिभिस्ततः ॥ १७ ॥ १ द. सर्वेऽपि भागिकाः । २ क. ᵒत्तिᵒ । ३ क. ᵒभᵒ । ४ क. ᵒयो । ५ द. भद्रभद्रे । ६ क. यो । ७ क. ᵒगोᵒ । ८ द. ख. ᵒयं । ९ द. ख. ᵒत्काᵒ १० क. ग । ११ द. ख. भागः पादविवर्जितः । १२ क. स्थाप्यं साᵒ । १३ क. ᵒर्धंᵒ । १४ द. ख. ᵒथा शोभं उदयार्द्धवती । १५ द. ख. भागानत्राᵒ । १६ द. ख. ᵒगंᵒ । १७ द. ᵒस्तु ।
राजगृहं नाम त्रिंशोऽध्यायः । १६५ सद्मशीर्षश्च¹ दातव्यो यथाशोभं यथारुचि । क्षेत्रभागसमः कार्यः कलशश्चूलिकावधेः ॥ १८ ॥ उदयार्धेन भूमेः स्युरन्तराणि तलानि च । यथाशोभं तु कर्तव्यं पीठं तस्य सुशोभितम् ॥ १९ ॥ सार्धभागद्वयं चास्य कार्या खुरघरण्डिका² । जङ्घा भागचतुष्कं च ततश्छाद्यं प्रयोजयेत् ॥ २० ॥ भागद्वयं च पादोनं छाद्यपिण्डः प्रकीर्तितः । निर्गमोऽस्य चतुर्भागो³ हंसाख्यस्तस्य चोपरि ॥ २१ ॥ पादोनभागं कर्तव्यं⁴ ततश्छाद्यं द्वितीयकम् । जङ्घा भूमिचतुष्केण प्रासादस्य प्रकल्पयेत् ॥ २२ ॥ चतुर्थभूमिकामूर्ध्नि ततो मुण्ड⁵(न्) निवेशयेत् । क्षर्ण⁶क्षणप्रवेशेन कार्याः शेषास्तु भूमिकाः ॥ २३ ॥ वेदिका च यथोक्ता स्यात् सघण्टा कलशान्विता । रेखाशुद्ध्या⁷ च कर्तव्या मुण्डाः सर्वे यथायथम् ॥ २४ ॥ अर्घोदयं⁹ त्रिधा कृत्वा तृतीयं दशधा भजेत् । वामनश्चातपत्रश्च कुबेरो भ्रमरावली ॥ २५ ॥ हंसपृष्ठो महाभोगी नारदः शम्बुको जयः । अनन्तो दशमस्तेषां विधायक्वशादमी⁸ ॥ २६ ॥ विधातव्याः स्थपतिभिर्मुण्ड¹⁰रेखाप्रसिद्धये । तमङ्गवेदिकाजालमत्तवारणशोभितम् ॥ २७ ॥ वितर्द्दिनिर्य्यूह¹¹युतं चन्द्रशालाविभूषितम् । कर्माढ्यं बहुचित्रं च कुर्वीत पृथिवीजयम् ॥ २८ ॥ प्रासादाश्च महान्तो ये विधेयास्ते समोदयाः । अर्घोदयेन लघवो ह्यवाको(को)णादयं क्रमः¹² ॥ २९ ॥ १ क. ॰प्त॰ । २ द. ख. खुखरंडिका । ३. द. ख. निर्गमो स्याच्चतु॰ । ४ द. ख. पादोन नाग क॰ । ५ द. ख. मंडा नि॰ । ६ क. ॰णं । ७ द. ख. ॰शुच्या । ८ द. ख. मदाः । ९ द. ख. अर्थो॰ । १० द. ख. ॰र्म॰ । ११ द. ख. ॰र्व्यू॰ । १२ द. ख. घटवो ह्यवाकाणादयं ।
१६६ समराङ्गणसूत्रधारे। भूम्यष्टकादभ्युदयः क्षेत्रविस्तारसम्मितः । यतस्तव वधे प्रोक्तः प्रासादोऽन्यद् विभूषणम् (?) ॥ ३० ॥ बहवो निकरा येषु प्राङ्गणं तेषु दीयते । रेखायां प्रथमायां वा द्वितीयायामथापि वा ॥ ३१ ॥ तृतीयायां वा रेखायां तत्र संवरणाः स्मृताः । अयं भूम्युदयः कार्यः क्षेत्रे दशविभागिके ॥ ३२ ॥ न्यूनाधिकविभक्ते तु कार्यः स्यादनुसारतः । मुक्तकोणस्य लक्ष्माथ प्रक्रमागतमुच्यते ॥ ३३ ॥ चतुरश्रीकृते क्षेत्रे भागद्वादशकाङ्किते । भागश्चतुष्टो(ष्को) मध्येऽस्य चतुर्द्वा(र्ध)रविभूषितः ॥ ३४ ॥ भागेन च ततोऽलिन्दो धरद्वादशकान्वितः । तद्वद् द्वितीयालिन्दोऽपि विंशत्या धारितो धरैः ॥ ३५ ॥ तृतीयश्च धरैरष्टाविंशत्यालिन्दको भवेत् । षट्त्रिंशता धरैर्युक्तः कार्योऽलिन्दश्चतुर्थकः ॥ ३६ ॥ चतुश्चत्वारिंशता स्याद् धरैर्युक्तश्च पञ्चमः । भागार्धं कारयेद् भित्तिं सार्धं भागं विमुच्य तु ॥ ३७ ॥ भागत्रयं ततः कुर्यात् प्राग्ग्रीवं दैर्घ्यविस्तृतौ । विस्तृतौ निर्गमे चैषां भद्रं भागेन कल्पयेत् ॥ ३८ ॥ भागिकं निर्गतं तस्मान्मध्येऽन्यद् भद्रमस्य हि । भागनिर्गमविस्तारं दिक्षु सर्वास्र्वयं विधिः ॥ ३९ ॥ चतुःपञ्चाशता स्तम्भैरेकैकं भद्रमन्वितम् । मध्ये वास्य चतुश्चत्वारिंशं स्तम्भशतं भवेत् ॥ ४० ॥ षोडशाभ्यधिका च स्याद् भद्रस्तम्भशतद्वयी । एवं धराणां सर्वेषां भवेत् षष्ठं शतत्रयम् ॥ ४१ ॥ पृथ्वीजयवदत्रापि शेषनिर्माणमिष्यते । तृतीयभूमिकामूर्ध्नि निर्गमेष्वखिलेष्वपि ॥ ४२ ॥ १ द. ख. भागं चतुष्ट्रो म॑ । २ द. ख. चतुर्द्वारवि॑ ।
राजगृहं नाम त्रिंशोऽध्यायः । १६७ प्राङ्गणानि विधेयानि विशेषोऽत्रैष कीर्तितः । सर्वतोभद्रसंज्ञेऽथ शत्रुमर्दननामपि (नि)$^१$ ॥ ४३ ॥ अयमेव विधिः कार्यो मुण्डरेखाप्रसिद्धये । श्रीवत्सस्यापि मध्ये स्यात् स्तम्भाग्रं मुक्तकोणवत् ॥ ४४ ॥ सार्धं भागं परित्यज्य भागत्रितयविस्तृतम् । कर्णप्राग्ग्रीवमेतस्य भागेन च विनिर्गतम् ॥ ४५ ॥ भद्रं तस्यापि कर्तव्यं भागविस्तारनिर्गमम् । मुक्तकोणवदस्यापि मध्यभद्रं विधीयते ॥ ४६ ॥ अयं विधिः समग्रासु दिक्षु शेषं तु पूर्ववत् । प्रतिभद्रं धरास्त्रिंशद् भवन्त्यस्य दृढाः शुभाः ॥ ४७ ॥ शतं विंशमिदं (सर्व) धराणामिह कीर्तितम् । एवं समस्तस्तम्भानां चतुःषष्ठं शतद्वयम् ॥ ४८ ॥ सर्वतोभद्रसंज्ञस्य लक्ष्मेदानीं प्रचक्ष्महे । चतुरश्रीकृते क्षेत्रे चतुर्दशविभाजिते ॥ ४९ ॥ भागिकः स्याच्चतुष्कोऽस्य चतुःस्तम्भविभूषितः । स्तम्भैर्द्वादशभिर्युक्तः प्रथमः स्यादलिन्दकः ॥ ५० ॥ स्तम्भविंशतिसंयुक्तो द्वितीयः स्यादलिन्दकः । $^३$स्यादष्टाविंशतिस्तम्भस्तृतीयः स्याप्य(द)लिन्दकः ॥ ५१ ॥ षट्त्रिंशता चतुर्थः स्यादलिन्दो भूषितो धरैः । पञ्चमः स्याच्चतुश्चत्वारिंशता भूषितो धरैः ॥ ५२ ॥ द्वापञ्चाशद्धरैः षष्ठः सर्वेऽप्येतेऽस्य भागिकाः । भागार्धं शस्यते भित्तिः सर्वतः सुदृढा घना ॥ ५३ ॥ सार्धभागं परित्यज्य भागत्रितयविस्तृतः । कर्णप्राग्ग्रीवकश्च स्याद् भागमेकं च निर्गमः ॥ ५४ ॥
१ द. ख. ॰नामपि । २ द. ख. मं । ३ द. ख. स्तंभविंशति संयुक्त स्या॰ । द. ख. ॰यस्या॰ । ४ द. ख. ॰शद्धरः । ५ द. ख. ॰प्येतम्य ।
१६८ समराङ्गणसूत्रधारे भद्रमस्यापि कर्तव्यं भागनिर्गमविस्तृतम् । मध्ये^१ भद्रं विधातव्यं भागद्वयविनिर्गतम् ॥ ५५ ॥ अस्यापि भद्रं^२ मध्ये स्याद् भागत्रितयविस्तृतम् । भागिको निर्गमश्चास्य तदन्तर्भागनिर्गतम् ॥ ५६ ॥ भागविस्तार^३संयुक्तं भद्रमन्यत् प्रकल्पयेत् । दिक्षु सर्वास्र्वयं^४ प्रोक्तो विधिर्भद्रप्रकल्पने^५ ॥ ५७ ॥ स्तम्भानामस्य कर्तव्यं मध्ये षण्णवतं शतम् । भद्रेष्वेषु च स^६र्वेषु भवेत् षष्ट्यधिकं शतम् ॥ ५८ ॥ समेन प्रविभागेन स्तम्भानामेकसङ्ख्यया । इत्थं समस्तस्तम्भानां षट्पञ्चाशं शतत्रयम् ॥ ५९ ॥ किन्तु जङ्घा भवेदस्य भूमिकात्रितयोन्मिता । शत्रुमर्दनसंज्ञस्य धाम्नो लक्ष्माथ कथ्यते ॥ ६० ॥ पृथ्विजयसमं मध्ये भित्तिश्चापि तथाविधा । सार्धं भागं परित्यज्य भागेनायतविस्तृतम् ॥ ६१ ॥ भद्रं विदध्यात् तन्मध्ये भागत्रितयविस्तृतम् । भद्रमेवं विधातव्यं भागत्रितयनिर्गतम्^१० ॥ ६२ ॥ पार्श्वयोर्भागिकं भद्रमायत्यां (त्या) विस्तरेण च । भागत्रितयविस्तारं भागेनैकेन निर्गमम् ॥ ६३ ॥ मध्यभद्रं^११ ततोऽपि स्याद् भागेनायतविस्तृतम् । क्रमोऽयं दिक्षु सर्वासु विधातव्योऽस्य सिद्धये ॥ ६४ ॥ ऊर्ध्वं पृथ्विजयस्येव कार्यमस्यापरं पुनः । प्रतिभद्रं चतुश्चत्वारिंशत्स्तम्भसमन्वितम् ॥ ६५ ॥ मध्ये स्तम्भशतं^१२ चास्य^१३ विधेयं सुदृढं शुभम् । षट्सप्ततिस्तम्भशतद्वयमस्य भवेदिति ॥ ६६ ॥
१ द. ख. कर्णमध्ये । २ द. ख. क. भद्रं° । ३ द. ख. °स्तं° । ४ द. ख. °स्वि° । ५ द. ख. °द्रं प्रकल्पते । ६ द. ख. भद्रेष्वेवस्य स° । ७ द. ख. पृष्टं । ८ इयं पंक्ति द. ख. प्रतिद्वये नास्ति । ९ द. ख. क. °वं । १० द. ख. निर्गमं । ११ द. ख. भद्रं भद्रं तं° । १२ द. ख, प्रतिद्वये शतं इति पदं नास्ति । १३ द. ख. भाग्यं ।
राजगृहं नाम त्रिंशोऽध्यायः । १६९ पञ्चानामपि चैतेषां हस्ताष्टशतमुत्तमम् । मानमुत्सेधविस्तारात् कर्तव्यं श्रियमिच्छता ॥ ६७ ॥ मध्यमाधमयोर्मानं² कीर्तितं पृथिवीजये । राज्ञः क्रीडार्थमन्यच्च कथ्यते गृहपञ्चकम् ॥ ६८ ॥ क्षोणीविभूषणं त्वाद्यं पृथिवीतलकं परम् । प्रतापवर्धनं चान्यच्छ्रीनिवासं ततोऽपि च ॥ ६९ ॥ लक्ष्मीनिवाससंज्ञं च पञ्चमं परिकीर्तितम् । चतुरश्रीकृते क्षेत्रे दशभागैर्वि³भाजिते ॥ ७० ॥ चतुष्को भागविस्तीर्णो मध्ये कार्यश्चतुर्धरः । बहिश्च भागिकोऽलिन्दस्तदन्तें⁵शत्रयार्यताः ॥ ७१ ॥ कर्णप्रासादकाः कार्या भागत्रितयविस्तृताः । तेषां षड्दारुकं मध्ये भित्तिर्भागार्धसम्मितौ ॥ ७२ ॥ तद्बहिर्भागनिष्क्रान्तो भद्रे भागं च विस्तृतः । प्राग्रीवत्रयसंयुक्तो भागिकालिन्दवेष्टितः ॥ ७३ ॥ अर्धभागिकभित्त्या च चतुष्को वेष्टितो भवेत् । प्रासादोऽयं मनोहारी भवेदवनिशेखरः ॥ ७४ ॥ चतुरश्रीकृते क्षेत्रे भागद्वादशभाजिते । चतुष्को भागिको मध्ये बाह्यालिन्दौ च भागिकौ ॥ ७५ ॥ नवकोष्ठांश्च कर्णेषु प्रासादान् विनिवेशयेत् । षड्दारुकं च कर्तव्यं तेषामन्तरसंश्रयम् ॥ ७६ ॥ ततोऽर्धभागिकी भित्तिः कर्तव्या सर्वतो बहिः⁶ । भद्रे भांगायतो भागविनिष्क्रान्तश्चतुर्दिशम् ॥ ७७ ॥ चतुष्को भागिकांऽलिन्दवेष्टितश्च विधीयते । अस्य भद्रत्रयं कार्यं भागविस्तारनिर्गमम् ॥ ७८ ॥ १ द. ख. मानस्तुबोधवि° । २ द. ख. मध्यासाधनयोगानि । ३ द. ख. ॰गवि° । ४ क. तृ° । ५ द. ख. ॰ताः । ६ द. ख. यद्वा । ७ द. ख. ॰त्रि° । ८ द. ख. ॰तोऽपि हि । ९ द. ख. भो° । १० क. ॰को° । वा. २२
१७० समराङ्गणसूत्रधारे अर्धभागिकभित्त्या च वेष्टितं तद् विधीयते । कर्णे कर्णेस(ऽस्य) विस्तीर्णे द्वे भद्रे भागनिर्गते ॥ ७९ ॥ प्रासादमेवं भुवनतिलकं परिचक्षते । चतुरश्रीकृते क्षेत्रे भागद्वादशभाजिते ॥ ८० ॥ चतुष्को भागिको मध्ये चतुःस्तम्भो विधीयते । तद्वहिर्भागिकोऽलिन्दो द्वितीयोऽपि च भागिकः ॥ ८१ ॥ नवकोष्ठांश्च कर्णेषु प्रासादान् विनिवेशयेत् । षड्दारुकं च कर्तव्यं तेषामन्तरसंश्रयम् ॥ ८२ ॥ ततोऽर्धभागिकी भित्तिः कर्तव्या सर्वतो बहिः । भद्रे भागायतो भद्रविनिष्क्रान्तश्चतुर्धरः ॥ ८३ ॥ चतुष्को³ भागिकालिन्दद्वयेन परिवेष्टितः । त्रिभागविस्तृतं भद्रं तद्वहिर्भागनिर्गतम् ॥ ८४ ॥ भागिकं प्रतिभद्रं च कुर्यादुभयतः समम् । भागार्धं बाह्यतो भित्तिर्भद्रस्य परितो भवेत् ॥ ८५ ॥ विधिरेष विधातव्यो दिक्ष्वेवं चतसृष्वपि । विलासस्तबको नाम प्रासादोऽयं प्रकीर्तितः ॥ ८६ ॥ कर्णप्राग्ग्रीवकौ द्वौ द्वौ शालाप्राग्ग्रीवकौ यदा । स्यातामस्य तदा कीर्त्तिं⁵पताकः परिकीर्तितः⁴ ॥ ८७ ॥ अस्यैव पीठे निर्मुक्तशां⁶लाभिः परितोऽष्टभिः । अन्योन्यशालांसंबद्धे यदासावेव दीयते⁹ ॥ ८८ ॥ कर्णप्रासादकोपेतः कोणैः शालोज्झितैर्युतः । प्रासादसुन्दरो ज्ञेयस्तदा भुवनमण्डनः ॥ ८९ ॥ एते प्रोक्तास्तलच्छन्दा जङ्घासंवरणादिकम् । भूमिमानादिकं यच्च तत् पृथ्वीजयैवद् भवेत् ॥ ९० ॥
१ द. ख. ॰ष्ठश्च । २ द. ख. यदा॰ । ३ द. ख. ॰ष्के । ४ द. ख. ॰र्तिः । ५ द. ख. ॰तः ॥ कीर्तिपताकः ॥ ६ द. ख. ॰मा॰ । ७ द. ख. ॰तोवृते । ८ द. ख. ॰ल॰ । ९ द. ख. ॰द्धे षटासावेतदीयते । १० द. ख. ॰र्णीः । ११ द. ख. ॰ष्ठि॰ । १२ द. ख. ॰क्तावल॰ । १६ द. ख. ॰नामा॰ । १४ द ख. पुष्टिंजं; क, स्तम्मेजं ।
राजगृहं नाम त्रिंशोऽध्यायः । १७१ इदानीं कथ्यते लक्ष्म क्षोणीभूषणवेश्मनः । पञ्चपञ्चाशता हस्तैः कल्पिते चतुरश्रके ॥ ९१ ॥ विभक्ते चाष्टभिर्भागैश्चतुष्को भागिकः स्मृतः । चतुर्भिरन्वितः स्तम्भैरालिन्दश्चास्य भागिकः ॥ ९२ ॥ युक्तो द्वादशभिः स्तम्भैर्विंशत्या च द्वितीयकः । स्यादष्टाविंशतिधरस्तृतीयश्चाप्यलिन्दकः ॥ ९३ ॥ भित्तेरप्यर्धभागेन सार्धं भागं विमुच्यते । भागपञ्चकविस्तीर्णं भद्रं भागेन निर्गतम् ॥ ९४ ॥ तन्मध्यभद्रमन्यच्च भागत्रितयविस्तृतम् । भागेन निर्गतं कार्यं भद्रमन्यत् ततोऽपि च ॥ ९५ ॥ भागेन विस्तृतं कार्यं भागेनापि च निर्गतम् । दिक्षु सर्वासु कर्तव्यो विधिरेषोऽस्य सिद्धये ॥ ९६ ॥ मध्यस्तम्भैश्चतुःषष्ट्या संयुक्तं सारदारुजैः । प्रतिभद्रं घरैः कार्यमष्टादशभिरन्वितम् ॥ ९७ ॥ षट्त्रिंशं शतमेवं स्यात् स्तम्भानामिह सर्वतः । चतुर्द्वारमिदं कार्यं यशःश्रीकीर्तिवर्धनम् ॥ ९८ ॥ पृथिवीतलकस्याथ लक्षणं परिकीर्त्यते । चत्वारिंशत्करे क्षेत्रे भागैर्भक्तेऽर्धषष्ठकैः ॥ ९९ ॥ भागिकः स्याच्चतुष्कोऽन्तश्चतुःस्तम्भविभूषितः । अलिन्दोऽपि च भागेन स्तम्भैर्द्वादशभिर्युतः ॥ १०० ॥ विंशत्या च द्वितीयोऽपि भित्तिः स्यादस्य पादिका । कर्णे प्रासादको भागैस्त्रिभिः स्यान्निर्गतायतः ॥ १०१ ॥ अस्य भद्रद्वयं कार्यं भागनिर्गतविस्तृतम् । कर्णप्रासादयोर्मध्ये भागपञ्चकविस्तृतम् ॥ १०२ ॥ १ द. ख. ॰र्त्तिं । २ क. शः कीर्त्तिविव । ३ द. ख. क्षोणी भूषणः पृथिं । ४ क. ॰र्द्वि॰ ५ द. ख. थ । ६ द. ख. ॰द्वं च यत्कार्यं भागे निं ।
१७२ समराङ्गणसूत्रधारे भागेन निर्गतं कार्यं भद्रं तस्यापि मध्यतः । भागत्रितयविस्तीर्णं भागेनैकेन निर्गतम् ॥ १०३ ॥ भद्रमस्यापि मध्येऽन्यद् भागेनायतनिर्गतम् । स्तम्भाः षट्त्रिंशदन्तः स्युर्भद्रेष्वष्टौ शतद्वयम् ॥ १०४ ॥ अथातः श्रीनिवासस्य लक्षणं सम्प्रचक्ष्महे । पृथ्वीतिलकवन्मध्यमेतस्य परिकीर्त्यते ॥ १०५ ॥ सपादं भागमुत्सृज्ये भागत्रितयविस्तृतम् । भागेन निर्गतं चास्य भद्रमाद्यं प्रकल्पयेत् ॥ १०६ ॥ तस्यापि मध्यवर्त्तन्द्यद् भागनिर्गतविस्तृतम् । अन्वितं दशभिः स्तम्भैः सुदृढैस्तद् विधीयते ॥ १०७ ॥ सर्वासपि च दिक्ष्वेवं विधेया भद्रकल्पना । अस्य षट्सप्ततिः स्तम्भाः भवन्त्येकत्र सङ्ख्यया ॥ १०८ ॥ प्रतापवर्धनस्याथ लक्ष्म साम्प्रतमुच्यते । पञ्चविंशतिहस्ताङ्के सार्धभागत्रयाङ्किते ॥ १०९ ॥ मध्ये चतुष्को भागेन चतुर्भिः सम्भृतो धरैः । अलिन्दो भागिकश्चास्य स्तम्भद्वादशकान्वितः ॥ ११० ॥ पादिका भित्तिरेतस्य भद्रं चास्य प्रकल्पयेत् । भागनिर्गमविस्तारं चतुःस्तम्भविभूषितम् ॥ १११ ॥ विधिरेष समग्रासु दिक्षु कार्योऽस्य सिद्धये । स्तम्भैर्द्वात्रिंशता युक्तो बहिरन्तरयं भवेत् ॥ ११२ ॥ धराणां चैव सर्वेषां चतुःषष्टिः प्रकल्पना । अथ लक्ष्मीविलासस्य सम्यग् लक्ष्माधुनोच्यते ॥ ११३ ॥ प्रतापवर्धनस्येव मध्यमस्य प्रकल्पयेत् । प्रतापवर्धनसमं सर्वतोऽप्येतदीरितम् ॥ ११४ ॥ १ द. ख. 'दन्तस्य भं' । २ क. कल्पते । ३ क. °ष्ट । ४ द. ख. ॰र्त्य' । ५ द. ख. संसृतो । ६ द. ख. आं । ७ द. ख. कार्यस्य । ८ द. ख. इयं पंक्तिर्नास्ति । ९ क. तो ।
राजगृहं नाम त्रिंशोऽध्यायः । १७३ किन्त्वस्य पार्श्वभद्राणि भद्राणामेव कारयेत् । कोणेष्वपि च भद्राणि पार्श्वयोरुभयोस्तथा¹ ॥ ११५ ॥ भागंस्य(श्च ) निर्गमोऽप्येषां विशेषोऽस्मादयं मतः । भद्रमस्य दशस्तम्भैर्मध्यं षोडशभिर्धरैः ॥ ११६ ॥ चतुर्द्वारं भवेदेतदिच्छया क्षणमध्यगम् । द्वारमन्यद् विधातव्यं स्वपदे स्यात् सुशोभितम् ॥ ११७ ॥ भूमिभिः सार्धषष्ठीभिर्विधेयः क्षोणिभूषणः । अर्धाष्टमीभिश्च भवेत् पृथ्वोतिलकसंज्ञकः ॥ ११८ ॥ स्यात् सार्धपञ्चमीभिस्तु श्रीनिवासोऽत्र भूमिभिः । लक्ष्मीविलाससंज्ञोऽर्धपञ्चमीभिर्विधीयते ॥ ११९ ॥ प्रतापवर्धनाख्योऽर्धचतुर्थीभिर्विधीयते । राज्ञां पृथ्वीजयादीनि निवासभवनानि च ॥ १२० ॥ क्षोणीविभूषणादीनि विलासभवनानि च । यान्युक्तानि निवासाय विलासाय च भूभृताम् ॥ १२१ ॥ तेषां पृथ्वीजयादीनां द्वारमानमथोच्यते । चतुःपञ्चाशदंशो यो विस्तृतः सकरत्रयः ॥ १२२ ॥ स द्वारस्योदयः प्रोक्तस्तदर्धेनास्य विस्तृतिः । स्वोदयस्य त्रिभागेन पिण्डः स्तम्भेषु शस्यते ॥ १२३ ॥ स्यात् सप्तविंशतितमः सपादः सचतुष्करः । गृहभागो भवेद् भूमिः प्रथमा राजवेश्मनाम् ॥ १२४ ॥ भूच्छ्राये नवधा भक्ते तदंशकचतुष्टयम् । निर्गमश्छाद्यकस्यांशद्वयं पादोनमुच्छ्रयः ॥ १२५ ॥ तथान्तरावणी कार्या छाद्यकोच्छ्रायनिर्गता । हीरग्रहणपिण्डार्धबाहुल्या सा प्रशस्यते ॥ १२६ ॥ १ द. ख. इयं पंक्ति र्नास्ति । २ द. ख. भागास्यान्नि° । ३ द. ख. °म्भं म° । ४ द. ख. °र्धमष्टाभि° । ५ द. ख. °थ्विं° । ६ द. ख. °तितमतः ।
१०४ समराङ्गणसूत्रधारं तस्याः खमेव बाहल्यं पादोनं विस्तृतिः स्मृता । अन्तरार्वाणकातुल्यो मदलाया विनिर्गमः ॥ १२७ ॥ स्वनिर्गमात् तथा चास्याः सपादः स्यात् समुच्छ्रयः । भूम्युच्छ्रयनवांशस्य पादोऽस्याः पिण्डमिष्यते ॥ १२८ ॥ भूनवांशस्त्रिभागोनो मदलायाश्च विस्तृतिः । †लुमामूलस्य स्तम्भार्धं विस्तारः परिकीर्तितः ॥ १२९ ॥ तत्तत्र्यंशादग्रविस्तीर्णा मूले साष्टांशयुग् भवेत् । तुम्बिनी लम्बिनी हेला शान्ता कोला मनोरमा ॥ १३० ॥ आध्माता चेत्यमूः प्रोक्ता लुमाः सप्त मनीषिभिः । ऋजुः सा लम्बिनी तासामाध्माता कर्णगा स्मृता ॥ १३१ ॥ अन्तराले क्रमेण स्युः पञ्चान्याः परिकीर्तिताः । स्तम्भे निदध्यान्मदलां छाद्यं धर्तुं दृढां शुभाम् ॥ १३२ ॥ स्तम्भाभावे पुनर्न्यस्येत् कुड्यपट्टेऽपि तां सुधीः । सप्त पञ्चाथवा तिस्रो मल्लच्छाद्ये लुमाः स्मृताः ॥ १३३ ॥ कोणेष्वेता इमाभ्योऽन्याः कर्तव्याः प्राञ्जलाः समाः । छाद्ये कर्णात् क्वचित् कार्या मकराननभूषिताः ॥ १३४ ॥ तेऽपि विद्याधरोपेताः क्वचित् सगजतुण्डिकाः । सकुम्भिकस्य स्तम्भस्य प्रविभज्योदयं त्रिधा ॥ १३५ ॥ तत्र भागद्वयं कुर्याद् भागानर्धचतुर्थकान् । तत्र पादोनभागेन राजितासनकं भवेत् ॥ १३६ ॥ ततः सोल्कलका वेदी साङ्घ्रिभागा विधीयते । कूटागारसमांशार्धं कार्योंऽत्रासनपट्टकः ॥ १३७ ॥ स स्यादभीष्टो(ष्ट)विस्तारो भागोच्चं मत्तवारणम् । स्वोदयस्य त्रिभागेन तिर्यक् कार्योंऽस्य निर्गमः ॥ १३८ ॥ १ द. ख. ॰ल्यां । २ द. ख. ॰ना° । ३ द. ख. ॰यमयां सस्या पादोश्या° । ४ द. ख. स्या । ५ द. ख. ॰न्या यः प्र° । ६ द. ख. ॰ले । ७ द. ख. सुना । ८ द. ख. ॰न्यो° । ९ द. ख. ॰द्य । १० द. ख. तातः सोत्कालका वेदी सांहि । ११ द. ख. कूट्राकार समो सार्द्ध कार्यों प्रा° । १२ द. ख. ॰भीष्टे विस्तारा° । † 'लुपा' इति शिल्पशास्त्रे प्रसिद्धिः ।
यन्त्रविधानं नामैकत्रिंशोऽध्यायः । १७५ रूपकैः करणायाभिः(?) सुपुत्रैरपि शोभितम् । वेदिकादिकमप्यस्य रूपपत्राचितं² शुभम् ॥ १३९ ॥ आयसीभिः शलाकाभिः कीलकैश्च दृढीकृतम् । एतानि पञ्चदशराजनिवेशनानि पृथ्वीजयप्रभृति यानि निरूपितानि । यो लक्षणेन सहितं परिमाणमेषां जानाति तस्य नृपतिः परितोषमेति ॥ १४० ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे राजगृहं नाम त्रिंशोऽध्यायः ।
अथ यन्त्रविधानं नामैकत्रिंशोऽध्यायः । भ्राम्यद्दिनेशशशिमण्डलचक्रशत्सं⁴ (स्त)- मेतज्जगत्त्रितययन्त्रमलक्ष्यमध्यम् । भूतानि बीजमखिलान्यपि सम्प्रकल्प्य यः सन्ततं भ्रमयति स्मरजित् स वोऽव्यात्³ ॥ १ ॥ यन्त्राध्यायमध ब्रूमो यथावत् प्रक्रमागतम् । धर्मार्थकाममोक्षाणां यदेकमिह कारणम् ॥ २ ॥ यदृच्छया प्रवृत्तानि भूतानि स्वेन वर्त्मना । नियम्यास्मिन् नयति यत् तद् यन्त्रमिति कीर्तितम् ॥ ३ ॥ स्वरसेन प्रवृत्तानि भूतानि स्वमनीषया । कृतं यस्माद् यमयति तद्वा यन्त्रमिति स्मृतम् ॥ ४ ॥ तस्य बीजं चतुर्धा६ स्यात् क्षितिरापोऽनलोऽनिलः । आश्रयत्वेन चैतेषां वियदप्युपयुज्यते ॥ ५ ॥
१ द. ख. ॰णैरपि च शो॰ । २ द. ख. पात्रान्वितं । ३ ॰श्वि॰ । ४ क. क्र. । ५ द. ख. ॰ध्यात् । ६ द. ख. ॰र्था ।
१७६ समराङ्गणसूत्रधारे भिन्नः सूतैश्चैकै(यै)रुक्तस्ते च सम्यङ् न जानते । *प्रकृत्या पार्थिवैः सूतस्ला(स्त्रा)यात् †तत्र क्रिया भवेत् ॥ ६ ॥ पार्थिवत्वादयम्तो न कदाचिद् विभिद्यते । द्रव्यत्वादग्निजत्वं हि यद्यस्य परिकल्प्यते ॥ ७ ॥ तदा विरोधो नैवास्य पावकेनोपपद्यते । गन्धाद् वंहेरविरोधाच्च स्थिता पार्थिवता बलात् ॥ ८ ॥ आत्मैव बीजं सर्वेषां प्रत्येकम्पराण्यपि । एवं भेदा भवन्त्येषां भूयांसः सङ्करान्मियः ॥ ९ ॥ स्वयंवाहकमेकं स्यात् सकृत्प्रेर्यं तथापरम् । अन्यदन्तरितं वाह्यं वाह्यमन्यत्त्वदूरतः ॥ १० ॥ स्वयंवाह्यमिहोत्कृष्टं हीनं स्यादितरत् त्रयम् । तेषु शंसन्ति दूरस्थमलक्ष्यं निकटस्थितम् ॥ ११ ॥ यद्यु(दु)त्पन्नमलक्ष्यं यदेकं बहुषु साधकम् । तदन्यदपि शंसन्ति यस्माद् विस्मयकृन्नृणाम् ॥ १२ ॥ एका स्वीया गतिश्चित्रे वाह्येऽन्या वाह्यिकाश्रिता । अरघट्टाश्रिते कीटे दृश्यते द्वयमप्यदः ॥ १३ ॥ इत्थं गतिद्वयवशाद् वैचित्र्यं कल्पयेत् स्वयम् । अलक्षता विचित्रत्वं यस्माद् यन्त्रेषु शस्यते ॥ १४ ॥ अन्यत् स्यादन्तरोत्तप्रे(प्रे)र्यं द्वितीयं मध्यमं त्विदम् । द्वयत्रयादियोगेन चतुर्णामपि योगतः ॥ १५ ॥ अंशांशिभावाद् भूतानां सङ्ख्यैर्षामतिरिच्यते । यः सम्यगेतज्जानाति स पुमान् भवति प्रियः ॥ १६ ॥ १ क. ॰तै॰ । २ क. ग. ॰श्व। ३ द. ख. ॰य॰ । ४ क. ॰वस्तत्रापां च तत्र । ५ क. ॰भज्यते । ६ द. ख. द्रवत्वादग्नजात्वं । ७ द. ख. द्रहिवि॰ । ८ द. ख. वयवाहकमेतस्या॰ । ९ द. ख. अभ्यदत्त चित्तं । १० ख. ग. बा॰ । ११ ख. ग. बा॰ । १२ द. ख. ग. ॰त्रदू॰ । १३ क. ॰क्षं । १४ द. ख. ॰धं । १५ द. ख. ॰र्थेत्रे । १६ द. ख. ॰ह्यं॰ । १७ ख. ॰रात्प्रेर्यं । १८ द. ख. ॰का॰ ।
- ‘प्रकृत्या स्वभावेन पार्थिवो भागः बहुलः’ इति, † ‘तत्र उदकतेजोवायूनां क्रिया कार्यं भवेन्’ इति च टिप्पणमस्ति क. पुस्तके ।
यंत्रविधानं नामैकोनत्रिंशोऽध्यायः । १७७ प्रमदानां नृपाणां च प्रज्ञानां च मतस्य च । लाभं ख्यातिं च पूजां च यशो मानं धनानि च ॥ १७ ॥ प्राप्नोति किं किं न पुमान् य इदं वेत्ति तत्त्वतः । १गृहमेकं विलासानामाश्रर्यस्य परं पदम् ॥ १८ ॥ २तैरावासभवनं विस्मयस्यैकमास्पदम् । यथावद् देवतादीनां रूपचेष्टादिदर्शनात् ॥ १९ ॥ तास्तुष्यन्त्यथ तत्तुष्टिः३ पूर्वैर्धर्मः प्रकीर्तितः । नृपादितोषादर्थः स्यादर्थे कामः प्रतिष्ठितः ॥ २० ॥ वित्तैक्यादस्य निष्पत्तिर्मोक्षश्चास्मान्न दुर्लभः । पार्थिवं पार्थिवैर्बीजैः पार्थिवं जलजन्मभिः ॥ २१ ॥ तदेव तेजोजनितैस्तँदैव४ मरुदुद्भवैः५ । आप्यमाप्यैस्तथा बीजैरानँलै६रानिलैरपि ॥ २२ ॥ वह्निजैश्च मरुज्जातैः पार्थिवैर्वारुणैरपि । मारुतं मारुतैराप्यैः पार्थिवैरानलैस्तथा ॥ २३ ॥ वह्निजातेऽपि९ बीजं स्यात् सूतः सोऽपि च वान(नि)ले८ । पार्थिवानां भवेद् बीजमाप्यानामपि वारणे(रुणम्) ॥ २४ ॥ इति बीजानि सर्वेषां कीर्तितान्यखिलान्यपि । १०कुँड्यंकरणसूत्राणि भारगोलकपीडनम् ॥ २५ ॥ लम्बनं लम्बकारे च चक्राणि विविधान्यपि । ११अयँस्ताम्रं च तारं च त्रपु संवित्प्रमर्दने ॥ २६ ॥ काष्ठं च चर्म वस्त्रं च स्वबीजेषु प्रयुज्यते । उर्दकः कर्तरो यष्टिश्चक्रं अभ्रकस्तथा ॥ २७ ॥ शृङ्गावली च नाराचः स्वबीजान्यौर्वरे१२ विदुः । ताप उत्तेजनं स्तोभः क्षोभश्च जलसङ्गजः ॥ २८ ॥ १ द. ख. विशालामा० । २ द. ख. ए० । ३ क. ०ष्टेः । ४ द. ख. ०स्त्वैष त सद्भवेः । ५ क. मारुतोद्भू० । ६ क. ०नि० ७ द. ख. ग. ०षु । ८ द. ख. वालने । ९ द. ख. ग. भा० । १० द. ख. कुरुंव्यरकसू० । ग. उरुंव्यक । ११ द. ख. आप० । १२ क. ०र्व्य० । वा. २३