समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 228, कुल 726 में से
संदर्भ में पढ़ेंराजगृहं नाम त्रिंशोऽध्यायः । १६३ कर्तव्यौ कीलकौ काष्ठदन्तशृङ्गादिसम्भवौ । गजेन्द्रदन्तः श्रीखण्डश्रीपर्ण्यौ मेषशृङ्गिका ॥ ५० ॥ शस्ताः पादु॒कयोः शाकक्षीरिणीचिरबिल्विकाः। इदमिह शयनानामासनानां च लक्ष्म प्रकटितमनु दर्व्याः³ कङ्कतस्यापि सम्यक् । शुभमथ विपरीतं पादुकानां च विद्वान् सकलमिति विदित्वा पूज्यतामेति लोके ॥ ५१ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे शयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः ॥ अथ राजगृहं नाम त्रिंशोऽध्यायः । अष्टोत्तरशतं ज्येष्ठं मध्यं स्यान्नवतिं⁴ करान् । जघन्यं सप्ततिकरान् राजवेश्म प्रशस्यते ॥ १ ॥ अतो हीनं न कर्तव्यं महतीं श्रियमिच्छता । चतुरश्रीकृते क्षेत्रे दशधा प्रविभाजिते ॥ २ ॥ भागार्थं शस्यते भित्तिरादिकोणसमाश्रिता । चतुष्को⁵ भागिको मध्ये चतुःस्तम्भसमन्वितः ॥ ३ ॥ अलिन्दस्तद्वहिः कार्यः स्तम्भैर्द्वादशभिर्वृतः । विंशत्या स्याद् वरैर्युक्तो द्वितीयोऽलिन्दकस्ततः ॥ ४ ॥ स्यादष्टाविंशतिस्तम्भस्तृतीयश्चाप्यलिन्दकः । षट्त्रिंशता चतुर्थश्च स्तम्भानां परिकीर्तितः ॥ ५ ॥ एवं स्तम्भशतं मध्ये प्रोक्तं पृथ्वौजये बुधैः । द्वाराणि चास्य चत्वारि पञ्चशाखानि जायते(?) ॥ ६ ॥ १ द. ख. ०र्णी । २ द. विल्वकाः । ३ द. दर्पा । ४ द. ॅतिः । ५ क. ष्के । ६ द. ख. आं ।