भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 236, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 236

राजगृहं नाम त्रिंशोऽध्यायः । १७१ इदानीं कथ्यते लक्ष्म क्षोणीभूषणवेश्मनः । पञ्चपञ्चाशता हस्तैः कल्पिते चतुरश्रके ॥ ९१ ॥ विभक्ते चाष्टभिर्भागैश्चतुष्को भागिकः स्मृतः । चतुर्भिरन्वितः स्तम्भैरालिन्दश्चास्य भागिकः ॥ ९२ ॥ युक्तो द्वादशभिः स्तम्भैर्विंशत्या च द्वितीयकः । स्यादष्टाविंशतिधरस्तृतीयश्चाप्यलिन्दकः ॥ ९३ ॥ भित्तेरप्यर्धभागेन सार्धं भागं विमुच्यते । भागपञ्चकविस्तीर्णं भद्रं भागेन निर्गतम् ॥ ९४ ॥ तन्मध्यभद्रमन्यच्च भागत्रितयविस्तृतम् । भागेन निर्गतं कार्यं भद्रमन्यत् ततोऽपि च ॥ ९५ ॥ भागेन विस्तृतं कार्यं भागेनापि च निर्गतम् । दिक्षु सर्वासु कर्तव्यो विधिरेषोऽस्य सिद्धये ॥ ९६ ॥ मध्यस्तम्भैश्चतुःषष्ट्या संयुक्तं सारदारुजैः । प्रतिभद्रं घरैः कार्यमष्टादशभिरन्वितम् ॥ ९७ ॥ षट्त्रिंशं शतमेवं स्यात् स्तम्भानामिह सर्वतः । चतुर्द्वारमिदं कार्यं यशःश्रीकीर्तिवर्धनम् ॥ ९८ ॥ पृथिवीतलकस्याथ लक्षणं परिकीर्त्यते । चत्वारिंशत्करे क्षेत्रे भागैर्भक्तेऽर्धषष्ठकैः ॥ ९९ ॥ भागिकः स्याच्चतुष्कोऽन्तश्चतुःस्तम्भविभूषितः । अलिन्दोऽपि च भागेन स्तम्भैर्द्वादशभिर्युतः ॥ १०० ॥ विंशत्या च द्वितीयोऽपि भित्तिः स्यादस्य पादिका । कर्णे प्रासादको भागैस्त्रिभिः स्यान्निर्गतायतः ॥ १०१ ॥ अस्य भद्रद्वयं कार्यं भागनिर्गतविस्तृतम् । कर्णप्रासादयोर्मध्ये भागपञ्चकविस्तृतम् ॥ १०२ ॥ १ द. ख. ॰र्त्तिं । २ क. शः कीर्त्तिविव । ३ द. ख. क्षोणी भूषणः पृथिं । ४ क. ॰र्द्वि॰ ५ द. ख. थ । ६ द. ख. ॰द्वं च यत्कार्यं भागे निं ।