समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
१३८ समराङ्गणसूत्रधारे योगाद् भोगावहं राज्ञां सप्तशालं गृहोत्तमम् । एकशालस्य योगेन स्यान्नन्द्यावर्तवातयोः ॥ ६६ ॥ श्रीखण्डं नाम भवनं भूभृतां भूतिकृद् भवेत् । सिद्धार्थस्यैकशालेन संयोगाद् रुचकस्य च ॥ ६७ ॥ श्रीषण्डं नामतो वेश्म भवेद् योग्यं महीभृताम् । रुचकस्यैव योगेन यमसूर्यैकशालयोः ॥ ६८ ॥ स्याच्छ्रीनिधानं श्रीकुण्डं तस्य दण्डैकशालयोः । वातैकशालरुचकैर्युक्तैः श्रीनाभमुच्यते ॥ ६९ ॥ भवनं भूमिपालानां तद् भवेद् भूतिदायकम् । एकशालेन युज्येते सिद्धार्थस्वस्तिके यदा ॥ ७० ॥ श्रीप्रियं स्यात् तदा वेश्म सन्ततं वल्लभं श्रियः । यमसूर्यैकशालाभ्यां स्वस्तिकं युज्यते यदा ॥ ७१ ॥ तदा श्रीकान्तमित्याहुर्भवनं भूभृतां हितम् । एकशालेन संयोगो दण्डस्वस्तिकयोर्यदा ॥ ७२ ॥ श्रीमंतं नामतो वेश्म तदा स्याद् विजयावहम् । वातस्वस्तिकसंयोगमेकशालं यदा व्रजेत् ॥ ७३ ॥ श्रीप्रदत्तमिति प्राहुस्तदा वेश्म महीभृताम् । एकैकस्य द्विभेदत्वाच्चत्वारिंशादियं भवेत् ॥ ७४ ॥ एवमत्र प्रकाराः स्युश्चत्वारिंशद् युताष्टभिः । यदा त्रिशालं भवनं चतुश्शालेन युज्यते ॥ ७५ ॥ तदापि सप्तशालं स्याच्चतुर्भेदं समासतः । पञ्चानां राजगेहानां मिलत्येकतमस्य चेत् ॥ ७६ ॥ त्रिशालं स्यात् तदा सप्तशालं विंशतिभेदवत् । हिरण्यनाभं भो(यो)गेन सर्वतोभद्रमन्दिरम् ॥ ७७ ॥
१ द. ख. श्रीघण्टं नां । २ द. ख. स्त्री । ३ क. ख. द. भागेन ।
समस्तगृहाणां सङ्ख्याकथनं नाम पञ्चविंशोऽध्यायः । १३९ श्रीवत्सं जनयेद् वेश्म नरेन्द्राणां हितावहम् । श्रीवृक्षं सर्वतोभद्रे सुक्षेत्रे मिलिते भवेत् ॥ ७८ ॥ चुल्लीयुक्ते पुनस्तस्मिन् श्रीपालं नाम जायते । पक्षघ्ने सर्वतोभद्रयुक्ते श्रीकण्ठमुच्यते ॥ ७९ ॥ हिरण्यनाभे श्रीवासं वर्धमानयुते भवेत् । श्रीनिवासं तु सुक्षेत्रे वर्धमानेन मिश्रिते ॥ ८० ॥ वर्धमानेन चुल्ल्या च गृहं श्रीभूषणं विदुः । पक्षघ्नं वर्धमानेन यदा संयोगमृच्छति ॥ ८१ ॥ तदा श्रीमण्डनं नाम जायते भवनोत्तमम् । जाते हिरण्यनाभस्य नन्द्यावर्तेन सङ्गमे ॥ ८२ ॥ स्याद् वेश्म श्रीकुलं नाम श्रियः कुलनिकेतनम् । नन्द्यावर्तेन सुक्षेत्रे युक्ते श्रीगोकुलं भवेत् ॥ ८३ ॥ नन्द्यावर्तस्य चुल्ल्याश्च योगे श्रीस्थावरं गृहम् । नन्द्यावर्तस्य पक्षघ्नयोगे कुम्भं प्रजायते ॥ ८४ ॥ हिरण्यनाभरुचकयोगे स्याच्छ्रीसमुद्गकम् । श्रीनन्दं नाम सुक्षेत्रे रुचकाख्येन संयुते ॥ ८५ ॥ चुल्ल्यां रुचकयुक्तायां श्रीह्रदं नाम जायते । श्रीधरं नाम पक्षघ्ने भवेद् रुचकसंयुते ॥ ८६ ॥ हिरण्यनाभेन युते स्वस्तिके श्रीकरण्डकम् । सुक्षेत्रेण युते तस्मिन् श्रीभाण्डागारसंज्ञितम् ॥ ८७ ॥ चुल्लीयुते श्रीनिलयं भवेन्नरपतिप्रियम् । स्वस्तिकस्य यदा योगः पक्षघ्नेन प्रजायते ॥ ८८ ॥ श्रीनिकेतनसंज्ञं स्यात् तदा नृपनिमन्दिरम् । उक्तानि सप्तशालानि नामलक्षणयोगतः ॥ ८९ ॥ सर्वाणि सार्वभौमानां नृपाणां मन्त्रिणामपि । भवन्ति च सतां वित्तयशोविजयवृद्धये ॥ ९० ॥
१४० समराङ्गणसूत्रधारे एकादिमूषावहनप्रभेदादथ वेश्मनाम् । एतेषां सप्तशालानां ब्रूमः संख्यामनुक्रमात् ॥ ९१ ॥ † वहत्येकापि नो यन्त्र मूषैकं तद् भवेद् गृहम् । विभद्रमेकभद्राणि विजानीयाच्चतुर्दश ॥ ९२ ॥ द्विभद्रवेश्मनां सैका नवतिः परिकीर्तिता । भवनानां त्रिभद्राणां चतुःषष्टिः शतत्रयम् ॥ ९३ ॥ सहस्त्रमेकाभ्यधिकं स्याच्चतुर्भद्रवेश्मनाम् । भवतः पञ्चभद्राणां द्वे सहस्रे द्विसंयुते ॥ ९४ ॥ षड्भद्राणां सहस्राणि त्रीणि त्रीणि गृहाणि च । द्वात्रिंशतां चतुस्त्रिंशत् सप्तभद्रशतानि च ॥ ९५ ॥ अष्टभद्राणि षड्भद्रसङ्ख्यातुल्यानि जायते(?) । गृहाणां नवभद्राणां द्वे सहस्रे तथा द्वयम् ॥ ९६ ॥ सहस्रं दशभद्राणामेकोत्तरमुदाहृतम् । तथैकादशभद्राणां चतुष्षष्ट्या शतत्रयम् ॥ ९७ ॥ सैका द्वादशभद्राणां नवतिर्वेश्मनां भवेत् । स्युस्त्रयोदशभद्राणि गृहाणीह चतुर्दश ॥ ९८ ॥ यच्चतुर्दशभिर्भद्रैरेकमेव हि वेश्म तत् । इत्येषां सप्तशालानां सहस्राण्यत्र षोडश ॥ ९९ ॥ ४एकोनत्रिंशती तद्वदशीतिश्चतुरुत्तरा । इदानीमष्टशालानि भवनान्यभिदध्महे ॥ १०० ॥ बहिरन्तैश्चतुःशालद्वयादेकं समासतः । अन्यानि सर्वभद्रादिद्वयसंयोगतो दश ॥ १०१ ॥ एकोनत्रिंशता क्षेत्रं चतुरश्रं विभाजयेत् । भागद्वयेन मूषा स्याच्छाला भागचतुष्टयात् ॥ १०२ ॥
१ द. ख. द्वात्रिंशानि । २ द. ख. शतभं । ३ द. ख. ॰र्भि॰ । ४ क. 'एकात्र त्रि' । ५ क. त्र चतु । ६ द. ॰विंशता । † 'रत्र यस्यां सप्तशालजातौ एकापि मूषा यद् गृहं न वहति न प्राप्नोति, तदेकं गृहं विभद्रं भवेत्' इति टिप्पणमस्ति क पुस्तके ।
समस्तगृहाणां सङ्ख्याकथनं नाम पञ्चविंशोऽध्यायः । १४१ कुर्वीत पञ्चभिर्भागैस्तन्मध्येऽङ्गणवापिकाम् । चतस्रश्च प्रतिदिशं मूषाः स्युस्तत्र वास्तुनि ॥ १०३ ॥ शालयोनं सप्तशालं षट्शालं द्वितयोज्झितम् । त्रिहीनं पञ्चशालं स्यादष्टशालमिदं क्वचित् ॥ १०४ ॥ तुल्यत्रिशालद्वितयं द्विशालेन युतं यदा । अष्टौ तदाष्टशालानि गृहाण्यन्यानि निर्दिशेत् ॥ १०५ ॥ मूषाव्यूढिवशादष्टशालानामथ कथ्यते । सङ्ख्या तत्र विभद्रं स्याद्वहन्मूषसंज्ञितम् ॥ १०६ ॥ षोडशैवकभद्राणि द्विभद्राणां शतं विदुः । विंशं षष्ट्या त्रिभद्राणां विज्ञेयं शतपञ्चकम् ॥ १०७ ॥ अष्टादशाहुर्विंशानि चतुर्भद्रशतानि च । पञ्चभद्रसहस्राणि चत्वारि स्युः शतत्रयम् ॥ १०८ ॥ अष्टषष्टिश्च गेहानि तानि सम्यग् विभावयेत् । सहस्राष्टकमष्टौ च षड्भद्राणि प्रचक्षते ॥ १०९ ॥ एकादशसहस्राणि तथा शतचतुष्टयम् । जानीयात् सप्तभद्राणि चत्वारिंशद् गृहाणि च ॥ ११० ॥ द्वादशैवाष्टभद्राणां सहस्राणि शताष्टकम् । सप्तत्याभ्यधिकं प्राहुर्वास्तुविद्याविशारदाः ॥ १११ ॥ एकादशसहस्राणि तथा शतचतुष्टयम् । चत्वारिंशच्च गेहानि नवभद्राणि सङ्ख्यया ॥ ११२ ॥ अष्टौ स्युर्दशभद्राणां सहस्राण्यष्टभिः सह । तथैकादशभद्राणां सङ्ख्या स्यात् पञ्चभद्रवत् ॥ ११३ ॥ अष्टादशशतानि स्युर्विंशतिर्भवनानि च । ५इति द्वादशभद्राणां सङ्ख्या भवति वेश्मनाम् ॥ ११४ ॥ १ द. ॰न्वि॰ । २ द. ख. ॰द्वं॰ । ३ द. दश॰ । ४ द. ख. ॰सहस्राणि विंश॰ । ५ द. इत्याख्या दश॰ ।
१७२ समराङ्गणसूत्रधारे स्यात् त्रयोदशभद्राणां षष्ट्यग्रं शतपञ्चकम् । स्याच्चतुर्दशभद्राणां विंशत्यभ्यधिकं शतम् ॥ ११५ ॥ वेश्मानि स्युस्तथा पञ्चदशभद्राणि षोडश । एकमेव हि विज्ञेयं गृहं षोडशभद्रकम् ॥ ११६ ॥ † पञ्चषष्टिसहस्राणि षट्त्रिंशं शतपञ्चकम् । गृहाणामष्टशालानां भवत्येकत्र सङ्ख्यया ॥ ११७ ॥ स्यात् समानचतुश्शालद्वययोगात् समासतः । एकैकशालयोगाच्च नवशालचतुष्टयम् ॥ ११८ ॥ सर्वतोभद्रमुख्यानां मिथो द्वितययोगतः । एकैकशालयोगाच्च चत्वारिंशत् तथापरा ॥ ११९ ॥ तुल्यत्रिशालत्रितययोगेन च चतुष्टयम् । गृहाणां नवशालानामन्यदुक्तं पुरातनैः ॥ १२० ॥ संस्थानमुक्तं गेहानां नवशालात्मनामिदम् । मूषावहनभेदेन तत्सङ्ख्या कथ्यतेऽधुना ॥ १२१ ॥ अवहन्मूषमेकं स्याद् वहन्त्याष्टादशैकया । द्वाभ्यां शतं त्रिपञ्चाशदधिकं वेश्मनां भवेत् ॥ १२२ ॥ तिसृभिः स्युः शतान्यष्टौ सह षोडशभिर्गृहैः । षष्ट्या सहस्रत्रितयं ताभिश्चतसृभिर्भवेत् ॥ १२३ ॥ पञ्चाशीतिशतान्यष्टषष्टियुक्तानि पञ्चभिः । वहन्तीभिः प्रजायन्ते मूषाभिरिह वेश्मनाम् ॥ १२४ ॥
१ द. भद्राणां भं° । २ द. ख. °न्त्यष्टा° ।
| † अष्टशालगृहाणामैक्यं ६५५३६ षोडशगुरुणां प्रस्तारे | गृह १ | १६ | १२० | ५६० | १८२० | ४३६८ | ८००८ | ११४४० | १२८७० | | | भद्र ० | १ | २ | ३ | ४ | ५ | ६ | ७ भद्र | ८ | | | भद्र १६ | १५ | १४ | १३ | १२ | ११ | १० | ९ भद्र | • |
इति टिप्पणं दत्तमस्ति क पुस्तके ॥
समस्तगृहाणां सङ्ख्याकथनं नाम पञ्चविंशोऽध्यायः । १४३ अष्टादशसहस्राणि तथा पञ्चशतानि च । चतुःषष्टिं च गेहानि मूषाभिः षड्भिरादिशेत् ॥ १२५ ॥ एकत्रिंशत्सहस्राणि सहितान्यष्टभिः शतैः । चतुर्विंशतियुक्तानि मूषाभिः सप्तभिर्विदुः ॥ १२६ ॥ चत्वारिंशत्सहस्राणि त्रिसहस्री च वेश्मनाम् । शतानि चाष्टपञ्चाशत् सप्त मूषाभिरष्टभिः ॥ १२७ ॥ चत्वारिंशत्सहस्राणि सहस्राण्यष्ट षट्शती । विंशतिं चैव मूषाभिर्गृहाणां नवभिर्विदुः ॥ १२८ ॥ चत्वारिंशत्सहस्राणि सहस्रत्रयमोकसाम् । मूषाभिर्दशभिः साष्टपञ्चाशच्छतसप्तकम् ॥ १२९ ॥ एकत्रिंशत्सहस्राणि चतुर्विंशच्छताष्टकम् । मूषाभिरेकादशभिर्गृहाणां मुनयो जगुः ॥ १३० ॥ अष्टादशसहस्राणि तथा पञ्चशतानि च । धाम्नां द्वादशमूषाणां चतुःषष्टिश्च जायते ॥ १३१ ॥ भवन्त्यष्टौ सहस्राणि तथा पञ्चशतानि च । स्यात् त्रयोदशमूषाणामष्टषष्टिश्च वेश्मनाम् ॥ १३२ ॥ स्याच्चतुर्दशमूषाणां त्रिसहस्री सषष्टिका । मूषाभिः पञ्चदशभिः षोडशाष्टशती तथा ॥ १३३ ॥ धाम्नां षोडशमूषाणां त्रिपञ्चाशच्छतं भवेत् । स्युः सप्तदशमूषाणि वेश्मान्यष्टादश स्फुटम् ॥ १३४ ॥ मूषाभिरष्टादशभिर्वेश्मैकं तद्विदो विदुः । लक्षद्वयं सहस्राणि द्वाषष्टिश्च शतान्विता ॥ १३५ ॥ वेश्मनां नवशालानां चत्वारिंशच्चतुर्युता । स्यात् समानचतुःशालद्वययोगात् समासतः ॥ १३६ ॥ १ द. नवति˚। २ द. ˚र्णा।
१४४ समराङ्गणसूत्रधारे एकेन च द्विशालेन दशशालचतुष्टयम् । सर्वतोभद्रमुख्यानां मिथो द्वितययोगतः ॥ १३७ ॥ एकद्विशालयोगाच्च चत्वारिंशत् तथापरा । तुल्यत्रिशालं त्रितयमेकशालयुतं यदा ॥ १३८ ॥ साधारणं तदान्यत् स्याद् दशशालचतुष्टयम् । तुल्ये त्रिशाले युज्येते सर्वभद्रादिभिर्यदा ॥ १३९ ॥ तदान्या दशशालानां समुत्पद्येत विंशतिः । तेष्वेकंमवहन्मूषं विंशतिर्मूषयैकया ॥ १४० ॥ वहन्त्या स्यादुभाभ्यां तु नवत्यभ्यधिकं शतम् । चत्वारिंशानि तिसृभिः शतान्येकादश ध्रुवम् ॥ १४१ ॥ चत्वारि² स्युश्चतसृभिः सहस्राणि शताष्टकम् । चत्वारिंशच्च गेहानि जायन्ते पञ्चभिः सह ॥ १४२ ॥ पञ्चभिस्तु सहस्राणि मूषाभिर्दशपञ्च च । जायन्ते सचतुष्काणि तथा पञ्चशतानि च ॥ १४३ ॥ अष्टात्रिंशत्सहस्राणि षड्भिः सप्त शतानि च । षष्ट्युत्तराणि जायन्ते वेश्मनां परिसङ्ख्यया ॥ १४४ ॥ गृहाणां स्युः सहस्राणि सप्तभिः सप्तसप्ततिः । शतपञ्चकमन्यच्च भवेद् विंशतिसंयुतम् ॥ १४५ ॥ लक्षमेकं सहस्राणि पञ्चविंशतिरष्टभिः । शतानि नव जायन्ते सप्तत्यभ्यधिकानि च ॥ १४६ ॥ लक्षमेकं सहस्राणि सप्तषष्टिः शतानि च । नव स्युः षष्टियुक्तानि नवमूषाप्रचारतः ॥ १४७ ॥ लक्षं चतुरशीतिश्च सहस्राणि शतानि च । सप्त स्युर्दशभिस्तद्वत् पञ्चाशच्च षडुत्तरा ॥ १४८ ॥ १ द. °लद्वितयं त्रिशालेन युतं । २ द. °रिशं ।
समस्तगृहाणां सङ्ख्याकथनं नाम पञ्चविंशोऽध्यायः । १४५ लक्षमेकं सहस्राणि सप्तषष्टिश्च वेश्मनाम् । शतानि चैकादशभिः षष्ट्यानि नव निर्दिशेत् ॥ १४९ ॥ लक्षं तथा सहस्राणि जायन्ते पञ्चविंशतिः । शतानि च द्वादशभिर्नव तद्वच्च सप्ततिः ॥ १५० ॥ सहस्राणि निकेतानां सङ्ख्यया सप्तसप्ततिः । सविंशतिः पञ्चशती त्रयोदशभिरीरिता ॥ १५१ ॥ अष्टात्रिंशत्सहस्राणि तथा सप्तशतानि च । स्युश्चतुर्दशभिः षष्ट्या वेश्मनामन्वितानि च ॥ १५२ ॥ स्यात् पञ्चदशसाहस्री शतैः पञ्चभिरन्विता । मृषाभिः पञ्चदशभिश्चत्वारि भवनानि च ॥ १५३ ॥ स्युः सहस्राणि चत्वारि तद्वदष्टौ शतानि च । तथा षोडशमृषाणां चत्वारिंशच्च पञ्च च ॥ १५४ ॥ सहस्रं सप्तदशभिः शतमेकं च वेश्मनाम् । चत्वारिंशच्च वेश्मानि भवन्ति परिसङ्ख्यया ॥ १५५ ॥ शतं नवत्यभ्यधिकमष्टादशभिरुच्यते । भवत्येकोनविंशत्या मृषाणां वेश्मविंशतिः ॥ १५६ ॥ एकमेव गृहं मृषाविंशतेर्बहनाद् भवेत् । सङ्ख्येयं दशशालानां मृषाभेदप्रचारतः ॥ १५७ ॥ प्रयुतं चत्वार्ययुतान्यष्टसहस्राणि पञ्च शतानि च । षट्सप्ततिर्गृहाणि च दशशालेष्वेकसङ्ख्येयम् ॥ १५८ ॥ चतुःशालादिगेहानि यावन्त्यादशशालततः । चतुर्गुणानि प्रत्याशं तान्यलिन्देन निर्दिशेत् ॥ १५९ ॥ एकद्वित्रिचतुःशालवेश्मनां सङ्गमान्मिथः । गृहाणि दशशालान्तान्येवमुक्तानि विस्तरात् ॥ १६० ॥ समारभ्य चतुःशाल(लं) दशशालान्तवेश्मनाम् । सङ्ख्यामिदानीमैक्येन सर्वेषामभिदध्महे ॥ १६१ ॥ वा. १९
१५६ समराङ्गणसूत्रधारे । मूषाभेदेन लक्षाणि स्युस्त्रयोदश वेश्मनाम् । सहस्राण्यष्टनवतिस्तथा वेश्मानि षोडश ॥ १६२ ॥ मूषासंस्थानभेदेन भिन्नानां वेश्मनां पुनः । जायन्ते कोटिशो भेदा यस्मान्नोक्तानि तान्यतः ॥ १६३ ॥ इत्थं चतुःशालमुखानि वेश्मान्युक्तानि यावद्दशशालमत्र । शालाप्रभेदेन मिथोऽमिषङ्गात् सङ्ख्या च तेषामुदिता यथावत्॥१६४॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे समस्तगृहाणां सङ्ख्याकथनं नाम पञ्चविंशोऽध्यायः ॥ अथ आयादिनिर्णयो नाम षड्विंशोऽध्यायः । इदानीमभिधास्यामः सूत्रपातं विधेः क्रमम् । शस्ते मासि सिते पक्षे विदध्यात् तं शुभेऽहनि ॥ १ ॥ चैत्रे शोकाकुलो भर्त्ता वैशाखे च धनान्वितः । ज्येष्ठे गृही विपद्येत नश्यन्ति पशवः शुचौ ॥ २ ॥ श्रावणे धनवृद्धिः स्यान्नभस्ये न वसेद् गृहे । कलहश्चाश्विने मासि भृत्या नश्यन्ति कार्त्तिके ॥३॥ मार्गशीर्षे धनप्राप्तिः सहस्ये कामसम्पदः । माघे वह्निभयं चैव फाल्गुने श्रीरनुत्तमा ॥ ४ ॥ द्वितीया पञ्चमी मुख्या सप्तमी नवमी तथा । एकादशीत्रयोदश्यस्ति(स्त्यौ ति)थयः स्युः शुभावहाः ॥ ५ ॥ चन्द्रताराबलं भर्तुरनुकूलं च शस्यते । इयं हि सूत्रपाताख्या क्रिया प्रासादकर्मणि ॥ ६ ॥ कार्या पुरनिवेशे च प्रारम्भे भवनस्य च । शिलानिवेशने द्वारस्तम्भोच्छ्रायादिकेषु च ॥ ७ ॥ १ द. ॰शालजयुक्त॰। २ द. ख. ॰विधिं । ३ द. ख. ॰र्त्ता स्याद् वैशाखे ध॰। ४ ख. भयं विद्यात् फा॰।
आयादिनिर्णयो नाम पञ्चविंशोऽध्यायः । १४७ आद्रियेत सिते पक्षे शोभने लग्न एव हि । रवौ कन्यातुलालिस्थे गृहं वरुणदिङ्मुखम् ॥ ८ ॥ न कुर्यात् तद्धि शून्यं स्यान्न च वृद्धिर्भवेत् प्रभोः । १ न दक्षिणमुखं कुम्भमृगधन्विस्थिते रवौ ॥ ९ ॥ कुर्वीत निष्फलं तत् स्यान्नृपदण्डवधादिकृत् । न मीनवृषमेषस्थे कुर्वीत प्राङ्मुखं रवौ ॥ १० ॥ तद् धनघ्नं कलिक्रुद्रराजचौरा३र्तिकृद् यतः । रवौ मिथुनसिंहस्थे न कर्कस्थेऽप्युदङ्मुखम् ॥ ११ ॥ कुर्यात् तद्धि दरिद्रत्वं दद्याच्चरणदासताम् । आयव्ययांशकर्क्षाणि प्रवक्ष्यामोऽथ वेश्मनाम् ॥ १२ ॥ गृहमानवशात् सम्यक् कर्तुः स्थानबलाबलम् । नगरे वा पुरादौ वा दण्डैर्मानं विधीयते ॥ १३ ॥ तदलाभे करैः कार्यं सम्यगायविशुद्धये । यत्र हस्तैर्मितिः ४ क्षेत्रे तत्रायो हस्तसंश्रितः ॥ १४ ॥ ५ क्षेत्रालाभे तु तत्रैव ग्राह्यः स स्यादिहाङ्गुलैः । अङ्गुलैस्तु मिते क्षेत्रे सोऽङ्गुलैस्तदलाभतः ॥ १५ ॥ पादैर्वाथ यवैर्वापि ग्राह्यः क्षेत्रानुसारतः । गृहेषु कर्महस्तेन मानं स्वामिकरेण वा ॥ १६ ॥ देवतानां तु धिष्ण्येषु कर्महस्तेन केवलम् । दैर्घ्यं हन्यात् पृथुत्वेन हरेद् भागं ततोऽष्टभिः ॥ १७ ॥ यच्छेषमायं तं विद्याच्छास्त्रदृष्टं ध्वजादिकम् । ध्वजो धूमोऽथ सिंहश्च श्वा वृषः खरकुञ्जरौ ॥ १८ ॥ ध्वाङ्क्षश्चेति त उद्दिष्टाः प्राच्याद्यासु प्रदक्षिणम् । अन्योन्याभिमुखास्त च कामं स्वच्छन्दचारिणः ॥ १९ ॥ १ द. ख. 'दक्षिणाभिमु' । २ ख. चापस्थि । ३ क. 'राग्निकृ' । ४ द. ॰र्मितैः । ५ द. क्षेत्रला॰ ।
१४८ समराङ्गणसूत्रधारे पूर्वाचार्यैः समुद्दिष्टा आयवृद्धिविधायकाः । वृषसिंहगजाः शस्ताः प्रासादपुरवेश्मसु ॥ २० ॥ ध्वजेऽर्थलाभः सन्तापो धूमे भोगो मृगाधिपे । कलिः शुनि धनं धान्यं वृषे स्त्रीदूषणं खरे ॥ २१ ॥ गजे भद्राणि दृश्यन्ते ध्वाङ्क्षे तु मरणं ध्रुवम् । वृषस्थाने गजं कुर्यात् सिंहं वृषभहस्तिनोः ॥ २२ ॥ न कुर्याद् वृषमन्यत्र शस्यते सर्वतो ध्वजः । कल्याणं कुरुते सिंहो ब्राह्मणस्य विशेषतः ॥ २३ ॥ क्षत्रियस्य गजः शस्तो वृषभः शस्यते विशः । शूद्रस्य ध्वज एवैकः शस्यतेऽर्थप्रदः सदा ॥ २४ ॥ एवमेते गृहादीनामायाः सर्वे प्रकीर्तिताः । प्रदद्यादासने सिंहमातपत्रेषु तु ध्वजम् ॥ २५ ॥ चिह्नेष्वपि च सर्वेषु चामरव्यजनादिषु । सिंहं गजं वा शस्त्रेषु रथेषु कवचेषु च ॥ २६ ॥ सार्यश्वगजपर्याणेष्विभं वृषभमेव च । अर्थधारणपात्रेषु शयनेषु मतङ्गजम् ॥ २७ ॥ याने च वाहने चैव मतिमान् योजयेद् गजम् । प्रासादप्रतिमालिङ्गपीठमण्डपवेदिषु ॥ २८ ॥ कुण्डेषु च ध्वजं दद्याद् देवोपकरणेषु च । आयो गृहवदुद्वाहवेदीमण्डपयोर्भवेत् ॥ २९ ॥ महानसे वृषं दद्याज्जलाधारे जलाशये । स्थाल्यां भोजनपात्रे च कोष्ठागारेऽन्नधारणे ॥ ३० ॥ एतद्गृहे तथा दद्याद् गृहोपकरणेषु च । वृषभं गजशालायां प्रदद्याद् गजमेव वा ॥ ३१ ॥ वृषं तुरगशालासु गोशालागोकुलेषु च । गजाश्ववृषशालासु सिंहं यत्नेन वर्जयेत् ॥ ३२ ॥
आयादिनिर्णयो नाम षड्विंशोऽध्यायः । १४९ अधमानां खरध्वाङ्क्षधूमश्वानः शुभावहाः । धूमोऽग्निजीविनां शस्तो ध्वाङ्क्षः सन्न्यासिनां हितः ॥ ३३ ॥ स्वर्गणानां श्वपाकानां स्ववेश्मानां खरः शुभः । नटनर्तकवेश्मेषु पण्यस्त्रीणां खरः शुभः ॥ ३४ ॥ कुलालरजकादीनां तथा गर्दभजीविनाम् । गृहादिषु क्षेत्रफल गणयेदष्टभिर्भजेत् ॥ ३५ ॥ त्रिघनेन भजेच्छेषं नक्षत्रेऽष्टहृते व्ययः । पिशाचो राक्षसो यक्ष इति त्रेधा व्ययो मतः ॥ ३६ ॥ साम्याधिक्यन्यूनताभिरायतः स्याद् यथाक्रमम् । व्ययं क्षेत्रफले क्षिप्त्वा गृहनामाक्षराणि च ॥ ३७ ॥ भागं त्रिभिर्हरेत् तत्र यच्छेषं सोऽशको भवेत् । चतुरङ्गो यथा मन्त्रो मुख्यो लग्ने नवांशकः ॥ ३८ ॥ तथा गृहादिषु प्रोक्तं मुख्यत्वेनांशकत्रयम् । इन्द्रो यमश्च राजा च त्रयो नामाभिरंशकाः ॥ ३९ ॥ स्वनामतुल्यफलदा विज्ञातव्यास्त्रयोऽपि च । गणयेत् स्वामिनक्षत्राद् यावत् स्याद् भवनस्य भम् ॥ ४० ॥ नवभिर्भाजिते तस्मिंञ् शेषं तारा प्रकीर्तिता । जन्मसम्पद्विपत्क्षेमपापसाधकनैधनीः ॥ ४१ ॥ मैत्रीपरममैत्र्यौ च प्राहुः संज्ञाः समाः फले । त्रिसप्तपञ्चमीर्भर्तुर्गृहतारा विवर्जयेत् ॥ ४२ ॥ आद्याद्वितीयाष्टम्यस्तु ताराः स्युरिह मध्यमाः । तथा ऋक्षेऽपि चानिष्टे चन्द्रेऽष्टमगतेऽपि च ॥ ४३ ॥ नयते दुरितं तारा चतुःषण्णवती (?) नृणाम् । सुरराक्षसमर्त्याख्या ऋक्षाणां स्युर्गणास्त्रयः ॥ ४४ ॥ १ द. ॰गणी । २ द. ख. गुणं । ३ द. नक्षत्रेषु हृते । ४ द. ख. ॰स्मान्छेपं ।
१६० समराङ्गणसूत्रधारे यद्गणर्क्षो भवेद् भर्ता तद्गणर्क्षं गृहं शुभम् । मृगाश्विरेवतीस्वात्यो मैत्रं पुष्यपुनर्वसू ॥ ४५ ॥ हस्तः श्रवण इत्येष देवाख्यो नवको गणः । विशाखा कृत्तिकाश्लेषा नैऋतं वारुणं मघा ॥ ४६ ॥ चित्रा ज्येष्ठा धनिष्ठेति नवको राक्षसो गणः । आर्द्राभरणी रोहिण्यौ (ण्या) तिस्रः पूर्वास्तथोत्तराः ॥ ४७ ॥ इति नक्षत्रनवकं विज्ञेयं मानुषे गणे । गणसाम्यं शुभा तारा यस्यायात् (च्च) व्ययोऽल्पकः ॥ ४८ ॥ हितौँऽशकश्च तद्वेश्म भर्तुः शुभफलप्रदम् । आयो व्ययश्च योनित्वं ताराश्च भवनांशकाः ॥ ४९ ॥ गृहनामेति चिन्त्यानि करणानि गृहस्य षट् । त्रिभिः शुभैः शुभं वेश्म द्वाभ्यामेकेन चाशुभम् ॥ ५० ॥ करणैश्चतुराद्यैस्तु शुभैरतिशुभं भवेत् । न समायव्ययं वेश्म नाव्ययं नाधिकव्ययम् ॥ ५१ ॥ न द्वितीयांशमसहग्योनिभं च न कारयेत् । भर्तृतुल्याभिधानं च गृहं दूरात् परित्यजेत् ॥ ५२ ॥ समसप्तकमेकैकक्षं तृतीयैकादशं तथा । चतुर्थदशकं चेति कर्तव्यं मन्दिरं सदा ॥ ५३ ॥ षट्कोष्ठकं त्रिकोणं च वर्ज्यं द्विर्द्वादशं तथा । षट्कोष्ठके मृतिर्दैन्यं वियोगश्च भवेद् गृहे ॥ ५४ ॥ त्रिकोणे वसतां दुःखं वैधव्यं च प्रजायते । द्विर्द्वादशे पुत्रपौत्रगुरुबन्धुधनक्षयः ॥ ५५ ॥ हँतेऽष्टभिः क्षेत्रफले खनेत्रशशिभाजिते । शेषं जीवितमेतस्मिन् पञ्चभक्ते भवेन्मृतिः ॥ ५६ ॥ १ द. यद्गुणाक्षि...गुणक्ष्यं...। २ द. ख. ॰ण्यास्तिस्रः । ३ द. ख. ॰नव्यांश॰ । ४ द. ख. ॰तृ॰ । ५ द. ॰कक्षां । ६ द. ख. ॰दशे । ७ द. हते ।
आयादिनिर्णयो नाम षड्विंशोऽध्यायः । १९१ सभुजं सहषड्दारु मुखमण्डपसंयुतम् । आयामतो पृथुत्वाच्च मानं कृत्वा विभाजयेत् ॥ ५७ ॥ सर्वतः शोधितं वास्तु यच्च सम्यङ्नमितं भवेत् । स्वामिनस्तद् भवेद् धन्यं स्थपतेश्च यशस्करम् ॥ ५८ ॥ अर्चितं वर्धते वास्तु नारीभिः पशुभिर्नरैः । कीर्त्यायुर्धनधान्यैश्च प्रमोदैस्तु महोत्सवैः ॥ ५९ ॥ मेरुश्च खण्डमेरुश्च पताका सूचिका तथा । उद्दिष्टं नष्टमिति षट् छन्दांसीह प्रचक्षते ॥ ६० ॥ एकाद्येकोत्तरान् कोष्ठान् विन्यसेदिच्छयात्मनः । आद्यादारभ्य तद्वृद्धिर्यथा स्यात् पार्श्वयोः समम् ॥ ६१ ॥ मेरोरेकाधिका सङ्ख्या शरावस्येव चाकृतिः । प्रथमे कोष्ठके रूपमन्तं यावच्च पार्श्वयोः ॥ ६२ ॥ आसनोर्ध्वस्थयोर्न्यस्येन्मध्ये सङ्कलितं पृथक् । तस्मिन्निष्टविकल्पानां सङ्ख्या स्यादन्त्यपङ्क्तिगा ॥ ६३ ॥ खण्डमेरुं तु विन्यस्येत् तद्वदेवैकपार्श्वतः । प्रवृद्धैः कोष्ठकैस्तत्राप्यङ्काः प्राग्वत् फलं तथा ॥ ६४ ॥ अथापरः खण्डमेरुः कोष्ठांस्तत्रेष्टसङ्ख्यया । कृत्वैकापचितान् वामविभागापचितानधः ॥ ६५ ॥ एकाद्येकोत्तरानङ्कानाद्यपङ्क्तौ निवेशयेत् । अन्यासु पङ्क्तिष्वाप्रान्तं शून्यान्या(ना)द्येषु कल्पयेत् ॥६६॥ द्वितीयेषु च कोष्ठेषु तासामेकैकमावयेत्(?) । द्वितीयायां तृतीयादिकोष्ठकेषु यथाक्रमम् ॥ ६७ ॥ विकर्णयोगजानन्यानूर्ध्वाधोयोगसंभवान् । फलं विकर्णयोगोत्थमेकँस्मिन् परिकल्पयेत् ॥ ६८ ॥ १ द. ख. र्यशसोत्स° । २ द. ˚न्न˚ । ३ द. ˚त्° ।
१९२ समराङ्गणसूत्रधारे एकाधिकांनभीष्टायाः सङ्ख्यायास्तिर्यगालिखेत् । कोष्ठानेकांच(तांश्च) रूपादींस्तन्मध्ये द्विगुणोत्तरान् ॥ ६९ ॥ एकोनं पृष्ठतस्तेषामेकं द्विगुणमग्रतः । नातिक्रामेत् परां सङ्ख्यां पताकाछन्द उच्यते ॥ ७० ॥ तद्दिनेष्टाद्यगा सङ्ख्येत्येकाद्यैस्तैस्तनो गृहे । न्यस्ताङ्कसङ्ख्याः सङ्ख्याः स्युरलिन्दाद्यैः प्रकल्पिताः ॥ ७१ ॥ एकैकमिष्टस्थानेषु लिखेत् सैकैश्वतः परम् । अन्त्यादं(ह)ते पूर्वपूर्वयुक्तेनायोजयेत् परम् ॥ ७२ ॥ अन्त्यादारभ्य तद्बनावेकाद्येषु(?) च पर्ययात् । अलिन्दादिषु यत्र स्यात् सङ्ख्या सूचीं तु तां विदुः ॥ ७३ ॥ उद्दिष्टे स्थापयेत् सङ्ख्यामुद्दिष्टां सम्भवे(जे)च्च ताम् । दलयेद् रूपयुक्तां तु दलयेन्नाम सम्भवेत्(?) ॥ ७४ ॥ लघुस्वरूपदलने सैकार्थे करणे गुरुः । यावदिष्टपदाप्तिः स्याल्लघवोऽलिन्दकोदयः ॥ ७५ ॥ कृत्वा छन्दः समुद्दिष्टं तदन्ते लघुनि द्विकम् । न्यसेदेकं गुरूणां च द्विगुणं द्विगुणं ततः ॥ ७६ ॥ व्यत्यासाल्लघुनः स्थाने द्विगुणादेककं गुरोः । कुर्यात् तमाद्यस्थानाङ्कसङ्ख्यं नष्टे गृहं भवेत् ॥ ७७ ॥ प्राग्रस्यैकं कोष्ठमेकैकवृद्धया न्यस्येदूर्ध्वं पङ्क्तयो यावदिष्ट्टाः । इष्टानेकादील्लिखेदानुपूर्व्या कर्णेनाधः शून्यरूपे च दद्यात् ॥७८॥ कर्णस्थाङ्कश्लेषतोऽङ्के भवेद् यस्तं विन्यस्येत् कोष्ठकेषु क्रमेण । उद्दिष्टाङ्को भद्रसङ्ख्यानि मध्ये याभ्यः कर्णश्लेषतो मूषिकास्ताः ॥७९॥ एकादिषु द्विगुणितेष्विह यावदिष्टमूषाक्रमैव्युपहितेष्वथ तेषु विद्यात् । उद्दिष्टवेश्मकृतनिर्गममार्गंमूषासत्कङ्कसैकयुतिनिर्मितसङ्ख्यमोकः॥८०॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे आयव्ययनक्षत्रराशिपलतद्योगताराङ्कयोनितच्छन्दोगनिर्णयो नाम षड्विंशोऽध्यायः। १ द. °को° । २ द. ख. °द्वानपूर्व पू° । ३ द. क्रमेत्युपहिं° । ४ द. 'स्तथासत्काकारो ' टिप्यणामिवाभाति ।
सभाष्टक नाम सप्तविंशोऽध्यायः । १९३ अथ सभाष्टकं नाम सप्तविंशोऽध्यायः । नन्दा भद्रा जया पूर्णा सभा स्याद् भाविता तथा । दक्षा च प्रवरा तद्वद् विदुरा चाष्टमी मता ॥ १ ॥ चतुरश्रीकृते क्षेत्रे ततः षोढा विभाजिते । मध्ये पदचतुष्कं स्यात् सीमालिन्दस्तु भागिकः ॥ २ ॥ तद्बाह्योऽलिन्दकस्तद्वद् भवेत् प्रतिसराभिधः । प्राग्ग्रीवाख्यस्तृतीयश्च बहिः क्षेत्राच्चतुर्दिशम् ॥ ३ ॥ निसृष्टसौर्ध(धे)यैर्वा(?) स्यादेकस्यां वा यदा दिशि । नन्दा भद्रा जया पूर्णा क्रमेण स्युः सभास्तदा ॥ ४ ॥ षड्भागभाजिते क्षेत्रे कर्णभित्तिं निवेशयेत् । सभा स्याद् भाविता नाम सप्राग्ग्रीवात्र पञ्चमी ॥ ५ ॥ स्तम्भान् षट्त्रिंशदेतासु पञ्चस्वपि निवेशयेत् । स्तम्भान् प्राग्ग्रीवसंबद्धान् पृथगेभ्यो विनिर्दिशेत् ॥ ६ ॥ दक्षेति षष्ठी परितस्तृतीयालिन्दवेष्टिता । प्रवरा सप्तमी द्वारैर्युक्तैषा परिकीर्तिता ॥ ७ ॥ प्राग्ग्रीवद्वारसंयुक्ता विदुरेत्यष्टमी सभा । सभानामिदमष्टानां लक्षणं समुदाहृतम् ॥ ८ ॥ इत्यष्टानां लक्ष्म सम्यक् सभाना- मेतत् प्रोक्तं दिग्भवालिन्दभेदात् । तद्वद् द्वारालिन्दसंयोगतश्च ज्ञातेऽत्र स्याद् भूभृतां स्थानयोगः ॥ ९ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे सभाष्टकं नाम सप्तविंशोऽध्यायः ॥ वा, २०
१६४ समराङ्गणसूत्रधारे अथ गृहद्रव्यप्रमाणानि नामाष्टाविंशोऽध्यायः । उपादेयानि यान्यत्र परित्याज्यानि यानि च । गृहद्रव्यप्रमाणानि तानीदानीं प्रचक्ष्महे ॥ १ ॥ द्वारस्य गृहविस्तारैर्हस्ततुल्याङ्गु लैर्भवेत् । उच्छ्रायः सप्तभिर्युक्तैर्विस्तृतिस्तु तदर्धतः ॥ २ ॥ प्रकल्पयेद् गृहद्वारं क्रमेणैव कनीयसा(म्) । त्रैराशिकेन मध्यानां द्वादशांशं परित्यजेत् ॥ ३ ॥ इत्युच्छ्रितिस्तदर्धेन सर्वेषामपि विस्तरः । उच्छ्रायमुत्तमानां तु कुर्यादष्टांशवर्जितम् ॥ ४ ॥ विस्ताराङ्गुलसंयुक्तां(क्तं)कुर्यादनिकनियसाम् । चतुःषष्टिगृहद्वारमुदयेनार्थविस्तृतम् ॥ ५ ॥ विस्तारहस्ततुल्यानि षष्ट्या पञ्चशताथवा । संयुतान्यङ्गुलानि स्यादुच्छ्रायोऽर्धेन विस्तृतिः ॥ ६ ॥ गृहोत्सेधेन वा त्र्यंशहीनेन स्यात् समुच्छ्रितिः । तदर्धेन तु विस्तारो द्वारस्येत्यपरो विधिः ॥ ७ ॥ द्वारोच्छ्रायकरैस्तुल्येष्वङ्गुलेषु विनिक्षिपेत् । चत्वारि पेष्यापिण्डः स्यात् सपादं विदधीत तम् ॥ ८ ॥ सार्धं वा सत्रिभागं वा द्विगुणं चाधिकं न तु । एवं कृते भवेद् द्वारपेय्याया विस्तृतिः स्फुटा ॥ ९ ॥ सार्धेन पेष्यापिण्डेन २पिण्डं स्या(ण्डस्यो)दम्बरो भवेत् । सार्धस्तु पेष्याविस्तारः स्यादुदुम्बरविस्तृतिः ॥ १० ॥ पेष्यापिण्डेन तुल्या स्याच्छाखाया विस्तृतिः शुभा । सार्धया वैनया रूपशाखाया अपि विस्तृतिः ॥ ११ ॥ विस्तारार्धेन पेष्यायाः खल्वशाखा विधीयते । रूपशाखासमा वा स्यात् सार्धा वा बाह्यमण्डला ॥ १२ ॥ १ द. विस्तारतस्ततुल्यानि । २ द. पिण्डमोडुंबगे ।
गृहद्रव्यप्रमाणानि नामाष्टाविंशोऽध्यायः । १५५ पादोना त्र्यंशहीना वा विस्तारादर्धमेव वा । प्रासादेषु च तुल्यः स्याद् द्वारशाखाविनिर्गमः ॥ १३ ॥ आद्या शाखा भवेद् देवी द्वितीया नन्दिनीति च । तृतीया सुन्दरी नाम चतुर्थी स्यात् प्रियानना ॥ १४ ॥ भद्रेति पञ्चमी शाखा प्रशस्ताः पञ्च वेश्मनि । अतोऽधिकास्तु याः शाखा गृहद्वारे न ताः शुभाः ॥ १५ ॥ विस्तारात् षोडशो भागश्चतुर्हस्तसमन्वितः । तलोच्छ्रयः प्रशस्तोऽयं भवेद् विदितवेश्मनाम् ॥ १६ ॥ सप्तहस्तो भवेज्ज्येष्ठे मध्यमे षट्करोन्मितैः । पञ्चहस्तः कनिष्ठे तु विधानव्यस्तथोदयः ॥ १७ ॥ ज्येष्ठे भवेत् सप्तदशहस्ताच्छाला प्रविस्तृता । मध्यमे दशहस्तात् तु पञ्चहस्तात् कनीयसि ॥ १८ ॥ उदुम्बरार्धे बाहुल्यं तलन्यासं तु कारयेत् । तलन्याससमं पट्टमलिन्दस्य परिग्रहे ॥ १९ ॥ द्वारविस्तारपादेन स्तम्भकोटिर्विधीयते । साष्टांशेनाधिकेनाथ मन्त्रिभागे वा पुनः ॥ २० ॥ कुर्यादेकादशांशेन तथास्यैव प्रपालकम् । स्तम्भान् कुर्यादृतेऽष्टांशान्नव द्वादशथाथवा ॥ २१ ॥ भागैस्ततः स्वार्धसमैरर्धभागसमन्वितैः । अधस्तादष्टभागा स्यात् स्तम्भस्य प्रतिपालना ॥ २२ ॥ स्तम्भमूलस्य विस्तारादर्धेन स्थलनिर्गमः । तदर्धेन विधातव्यो मसूरकविनिर्गमः ॥ २३ ॥ उत्कालकसमुच्छ्रायः स्तम्भपिण्डसमः शुभः । कुम्भिकोत्कालवत् पिण्डे विस्तारेऽष्टांशसम्मिता ॥ २४ ॥
१ द. ख. तु । २ द. द्वार । ३ द. प्रमाणेयं तेषां कनिष्ठवेश्मना । ४ द. ॰न्मितः । ५ द. ॰हस्तावमेयसि । ६ द. ख. उदुम्ब...बाहर्म्यं तलं । ७ क. उपरि क प्रतेः पाठः गृहीतः, द. ख. प्रतिद्वये 'प्रमालिनी', शास्त्रिभिस्तु प्रणालीनीति संशोधितः । ८ द. ॰गम्य स्तम्भस्थान प्रति ।
१६६ समराङ्गणसूत्रधारे प्रागुक्तस्तम्भभागेन सपादेन विधीयते । दीर्घत्वमाद्यपत्राणां¹ शेषाणां पादहानितः ॥ २५ ॥ पादः पादो भवेन्न्यूनः पात्राणां रसनोच्छ्रयात् । सार्धभागोच्छ्रिता कार्या रसना कण्टकोपमा ॥ २६ ॥ सार्धपादोच्छ्रिता यद्वा जङ्घा शेषं यथोदितम् । इत्थं स्यात् पद्मकस्तम्भो युक्त्या युक्तस्वरूपकैः ॥ २७ ॥ अष्टाश्रौ वा विधातव्यः स्तम्भसूत्रपरिक्रमात् । तद्विस्तारसमं त्यक्तोत्सेधं भागान् विभाजयेत् ॥ २८ ॥ अष्टाश्रच्छेदमानेन बाह्यसूत्रानुपल्लवान् । विदध्यान्मध्यभागे तु कोणांश्च(प)ल्लविकाकुलान् ॥ २९ ॥ घटिका पुष्पमालाभिः पल्लवैश्चोपशोभिता । छेदभागः समः कार्यों बहिर्भागँविवर्जितः ॥ ३० ॥ घटपल्लवको नाम स्तम्भोऽयं परिकीर्तितः । विहितो वेश्मनामेष स्वामिनः श्रेयसे भवेत् ॥ ३१ ॥ कुबेरो वा विधातव्यः षोडशाश्रक्रियान्वितः । ऊर्ध्वतः पल्लवाकीर्णो जङ्घास्य चतुरश्रिकाँ ॥ ३२ ॥ श्रीधरश्च भवेद् वृत्तंः कल्पनास्य कुबेरवत् । एवं गृहाणां चत्वारः स्तम्भा लक्ष्मभिरीरिताः ॥ ३३ ॥ स्तम्भमूलस्य विस्तृत्या तलपद(दृ)स्यै विस्तृतः । सपादया विधातव्या बाहुल्यं पादहीनया ॥ ३४ ॥ स्तम्भेन तुल्यं विस्तारे बाहल्ये पदसम्मितम् । हीरग्रहणमायामे स्तम्भाग्रात् त्रिगुणं भवेत् ॥ ३५ ॥ हीरग्रहणविस्तारं भागात् सप्त प्रकल्पयेत्( ? ) । तत् स्यात् सृष्टोत्तरं भागं भागेनेष्टं प्रवेशनम् ॥ ३६ ॥ १ द. °माययंत्राणां । २ द. ख. °न्यूनप° । ३ द. °र्भोग° । ४ द. चतुरंशिका । ५ द. पट्टस्य । ६ द. ंत्यो पट्टसंम्मितं ।
गृहद्रव्यप्रमाणानि नामाष्टाविंशोऽध्यायः । १६७ तस्याधस्तात् त्रिकण्टेन त्रिभागं लम्बितेन च । लिखेदुभावर्धचन्द्रौ पार्श्वयोरुभयोरपि ॥ ३७ ॥ खल्वं कृत्वा ततो मध्यं भागद्वयमधोगतम् । कुर्यात् त्रिकण्टकं कान्तं तुम्बिकामथ लम्बिकाम् ॥ ३८ ॥ द्वयोर्मध्येऽपरं भूयो द्विभागस्थं च कण्टकम् । तुम्बिकां लम्बमानां वा पत्रजातिविभूषिताम् ॥ ३९ ॥ तस्याश्चापरतीरं स्यात् पद्मपत्र्या विभूषितम् । तलपट्टसमः पट्टो विस्तारात् पिण्डतोऽपि च ॥ ४० ॥ पट्टत्र्यंशेन तीरे स्यात् पट्टपिण्डार्धनिर्गमः । स्तम्भाग्रेण समा कार्या विस्तारस्थौल्यतस्तुला ॥ ४१ ॥ तदर्धेन जयन्तीनां कर्तव्ये पिण्डविस्तृती । ताभ्यो विधेयाः पादोनाः सन्धिपाला यदृच्छया ॥ ४२ ॥ निर्यूहेषु च ये पट्टाः पादोनांस्तांस्तु कारयेत् । तुलापट्टाश्च पादोनास्तदर्धेन जयन्तिकाः ॥ ४३ ॥ तुलार्धेन विधातव्या प्रतिमोकस्य विस्तृतिः । पट्टस्योपरि कण्ठः स्याद् भूषितो रूपकर्मणा ॥ ४४ ॥ वेदिकाजालरूपाद्यो निर्यूहः संप्रशस्यते । विधातव्या च सच्छत्रा निबद्धाङ्गणवापिका ॥ ४५ ॥ स्तम्भपट्टांश्च विस्तीर्णान् सपादांस्तत्र कल्पयेत् । तुलापिण्डाः समाः कार्याः सङ्ग्रहैः सुदृढैर्युताः ॥ ४६ ॥ वेदिकाजालसम्पन्नं तलं कार्यं मनोरमम् । भूमौ भूमौ भवेत् तच्च द्वादशांशविवर्जितम् ॥ ४७ ॥ प्रणाल्यः सर्वतः कार्या मूलँग्राह्याग्रनिर्गमाः । दण्डच्छाद्यं गृहेषु स्याज्ज्ञेयं तच्च चतुर्विधम् ॥ ४८ ॥ १ द. ॰का लंबना तं वा पत्रं । २ द. पट्टापिण्डार्धनिर्गमं । ३ द. ख. ग. ॰कालहू॰ । ४ द. ग. ॰णऋवां । ५ द. ख. ॰द्रांगु॰ । ६ द. तुल्यपिंडः । ७ ख. ग. ॰लाँ । ८ ग. ॰च्छाद्यग्र ।