समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 214, कुल 726 में से
संदर्भ में पढ़ेंआयादिनिर्णयो नाम षड्विंशोऽध्यायः । १४९ अधमानां खरध्वाङ्क्षधूमश्वानः शुभावहाः । धूमोऽग्निजीविनां शस्तो ध्वाङ्क्षः सन्न्यासिनां हितः ॥ ३३ ॥ स्वर्गणानां श्वपाकानां स्ववेश्मानां खरः शुभः । नटनर्तकवेश्मेषु पण्यस्त्रीणां खरः शुभः ॥ ३४ ॥ कुलालरजकादीनां तथा गर्दभजीविनाम् । गृहादिषु क्षेत्रफल गणयेदष्टभिर्भजेत् ॥ ३५ ॥ त्रिघनेन भजेच्छेषं नक्षत्रेऽष्टहृते व्ययः । पिशाचो राक्षसो यक्ष इति त्रेधा व्ययो मतः ॥ ३६ ॥ साम्याधिक्यन्यूनताभिरायतः स्याद् यथाक्रमम् । व्ययं क्षेत्रफले क्षिप्त्वा गृहनामाक्षराणि च ॥ ३७ ॥ भागं त्रिभिर्हरेत् तत्र यच्छेषं सोऽशको भवेत् । चतुरङ्गो यथा मन्त्रो मुख्यो लग्ने नवांशकः ॥ ३८ ॥ तथा गृहादिषु प्रोक्तं मुख्यत्वेनांशकत्रयम् । इन्द्रो यमश्च राजा च त्रयो नामाभिरंशकाः ॥ ३९ ॥ स्वनामतुल्यफलदा विज्ञातव्यास्त्रयोऽपि च । गणयेत् स्वामिनक्षत्राद् यावत् स्याद् भवनस्य भम् ॥ ४० ॥ नवभिर्भाजिते तस्मिंञ् शेषं तारा प्रकीर्तिता । जन्मसम्पद्विपत्क्षेमपापसाधकनैधनीः ॥ ४१ ॥ मैत्रीपरममैत्र्यौ च प्राहुः संज्ञाः समाः फले । त्रिसप्तपञ्चमीर्भर्तुर्गृहतारा विवर्जयेत् ॥ ४२ ॥ आद्याद्वितीयाष्टम्यस्तु ताराः स्युरिह मध्यमाः । तथा ऋक्षेऽपि चानिष्टे चन्द्रेऽष्टमगतेऽपि च ॥ ४३ ॥ नयते दुरितं तारा चतुःषण्णवती (?) नृणाम् । सुरराक्षसमर्त्याख्या ऋक्षाणां स्युर्गणास्त्रयः ॥ ४४ ॥ १ द. ॰गणी । २ द. ख. गुणं । ३ द. नक्षत्रेषु हृते । ४ द. ख. ॰स्मान्छेपं ।