समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 234, कुल 726 में से
संदर्भ में पढ़ेंराजगृहं नाम त्रिंशोऽध्यायः । १६९ पञ्चानामपि चैतेषां हस्ताष्टशतमुत्तमम् । मानमुत्सेधविस्तारात् कर्तव्यं श्रियमिच्छता ॥ ६७ ॥ मध्यमाधमयोर्मानं² कीर्तितं पृथिवीजये । राज्ञः क्रीडार्थमन्यच्च कथ्यते गृहपञ्चकम् ॥ ६८ ॥ क्षोणीविभूषणं त्वाद्यं पृथिवीतलकं परम् । प्रतापवर्धनं चान्यच्छ्रीनिवासं ततोऽपि च ॥ ६९ ॥ लक्ष्मीनिवाससंज्ञं च पञ्चमं परिकीर्तितम् । चतुरश्रीकृते क्षेत्रे दशभागैर्वि³भाजिते ॥ ७० ॥ चतुष्को भागविस्तीर्णो मध्ये कार्यश्चतुर्धरः । बहिश्च भागिकोऽलिन्दस्तदन्तें⁵शत्रयार्यताः ॥ ७१ ॥ कर्णप्रासादकाः कार्या भागत्रितयविस्तृताः । तेषां षड्दारुकं मध्ये भित्तिर्भागार्धसम्मितौ ॥ ७२ ॥ तद्बहिर्भागनिष्क्रान्तो भद्रे भागं च विस्तृतः । प्राग्रीवत्रयसंयुक्तो भागिकालिन्दवेष्टितः ॥ ७३ ॥ अर्धभागिकभित्त्या च चतुष्को वेष्टितो भवेत् । प्रासादोऽयं मनोहारी भवेदवनिशेखरः ॥ ७४ ॥ चतुरश्रीकृते क्षेत्रे भागद्वादशभाजिते । चतुष्को भागिको मध्ये बाह्यालिन्दौ च भागिकौ ॥ ७५ ॥ नवकोष्ठांश्च कर्णेषु प्रासादान् विनिवेशयेत् । षड्दारुकं च कर्तव्यं तेषामन्तरसंश्रयम् ॥ ७६ ॥ ततोऽर्धभागिकी भित्तिः कर्तव्या सर्वतो बहिः⁶ । भद्रे भांगायतो भागविनिष्क्रान्तश्चतुर्दिशम् ॥ ७७ ॥ चतुष्को भागिकांऽलिन्दवेष्टितश्च विधीयते । अस्य भद्रत्रयं कार्यं भागविस्तारनिर्गमम् ॥ ७८ ॥ १ द. ख. मानस्तुबोधवि° । २ द. ख. मध्यासाधनयोगानि । ३ द. ख. ॰गवि° । ४ क. तृ° । ५ द. ख. ॰ताः । ६ द. ख. यद्वा । ७ द. ख. ॰त्रि° । ८ द. ख. ॰तोऽपि हि । ९ द. ख. भो° । १० क. ॰को° । वा. २२