भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 242, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 242

यंत्रविधानं नामैकोनत्रिंशोऽध्यायः । १७७ प्रमदानां नृपाणां च प्रज्ञानां च मतस्य च । लाभं ख्यातिं च पूजां च यशो मानं धनानि च ॥ १७ ॥ प्राप्नोति किं किं न पुमान् य इदं वेत्ति तत्त्वतः । १गृहमेकं विलासानामाश्रर्यस्य परं पदम् ॥ १८ ॥ २तैरावासभवनं विस्मयस्यैकमास्पदम् । यथावद् देवतादीनां रूपचेष्टादिदर्शनात् ॥ १९ ॥ तास्तुष्यन्त्यथ तत्तुष्टिः३ पूर्वैर्धर्मः प्रकीर्तितः । नृपादितोषादर्थः स्यादर्थे कामः प्रतिष्ठितः ॥ २० ॥ वित्तैक्यादस्य निष्पत्तिर्मोक्षश्चास्मान्न दुर्लभः । पार्थिवं पार्थिवैर्बीजैः पार्थिवं जलजन्मभिः ॥ २१ ॥ तदेव तेजोजनितैस्तँदैव४ मरुदुद्भवैः५ । आप्यमाप्यैस्तथा बीजैरानँलै६रानिलैरपि ॥ २२ ॥ वह्निजैश्च मरुज्जातैः पार्थिवैर्वारुणैरपि । मारुतं मारुतैराप्यैः पार्थिवैरानलैस्तथा ॥ २३ ॥ वह्निजातेऽपि९ बीजं स्यात् सूतः सोऽपि च वान(नि)ले८ । पार्थिवानां भवेद् बीजमाप्यानामपि वारणे(रुणम्) ॥ २४ ॥ इति बीजानि सर्वेषां कीर्तितान्यखिलान्यपि । १०कुँड्यंकरणसूत्राणि भारगोलकपीडनम् ॥ २५ ॥ लम्बनं लम्बकारे च चक्राणि विविधान्यपि । ११अयँस्ताम्रं च तारं च त्रपु संवित्प्रमर्दने ॥ २६ ॥ काष्ठं च चर्म वस्त्रं च स्वबीजेषु प्रयुज्यते । उर्दकः कर्तरो यष्टिश्चक्रं अभ्रकस्तथा ॥ २७ ॥ शृङ्गावली च नाराचः स्वबीजान्यौर्वरे१२ विदुः । ताप उत्तेजनं स्तोभः क्षोभश्च जलसङ्गजः ॥ २८ ॥ १ द. ख. विशालामा० । २ द. ख. ए० । ३ क. ०ष्टेः । ४ द. ख. ०स्त्वैष त सद्भवेः । ५ क. मारुतोद्भू० । ६ क. ०नि० ७ द. ख. ग. ०षु । ८ द. ख. वालने । ९ द. ख. ग. भा० । १० द. ख. कुरुंव्यरकसू० । ग. उरुंव्यक । ११ द. ख. आप० । १२ क. ०र्व्य० । वा. २३