समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 241, कुल 726 में से
संदर्भ में पढ़ें१७६ समराङ्गणसूत्रधारे भिन्नः सूतैश्चैकै(यै)रुक्तस्ते च सम्यङ् न जानते । *प्रकृत्या पार्थिवैः सूतस्ला(स्त्रा)यात् †तत्र क्रिया भवेत् ॥ ६ ॥ पार्थिवत्वादयम्तो न कदाचिद् विभिद्यते । द्रव्यत्वादग्निजत्वं हि यद्यस्य परिकल्प्यते ॥ ७ ॥ तदा विरोधो नैवास्य पावकेनोपपद्यते । गन्धाद् वंहेरविरोधाच्च स्थिता पार्थिवता बलात् ॥ ८ ॥ आत्मैव बीजं सर्वेषां प्रत्येकम्पराण्यपि । एवं भेदा भवन्त्येषां भूयांसः सङ्करान्मियः ॥ ९ ॥ स्वयंवाहकमेकं स्यात् सकृत्प्रेर्यं तथापरम् । अन्यदन्तरितं वाह्यं वाह्यमन्यत्त्वदूरतः ॥ १० ॥ स्वयंवाह्यमिहोत्कृष्टं हीनं स्यादितरत् त्रयम् । तेषु शंसन्ति दूरस्थमलक्ष्यं निकटस्थितम् ॥ ११ ॥ यद्यु(दु)त्पन्नमलक्ष्यं यदेकं बहुषु साधकम् । तदन्यदपि शंसन्ति यस्माद् विस्मयकृन्नृणाम् ॥ १२ ॥ एका स्वीया गतिश्चित्रे वाह्येऽन्या वाह्यिकाश्रिता । अरघट्टाश्रिते कीटे दृश्यते द्वयमप्यदः ॥ १३ ॥ इत्थं गतिद्वयवशाद् वैचित्र्यं कल्पयेत् स्वयम् । अलक्षता विचित्रत्वं यस्माद् यन्त्रेषु शस्यते ॥ १४ ॥ अन्यत् स्यादन्तरोत्तप्रे(प्रे)र्यं द्वितीयं मध्यमं त्विदम् । द्वयत्रयादियोगेन चतुर्णामपि योगतः ॥ १५ ॥ अंशांशिभावाद् भूतानां सङ्ख्यैर्षामतिरिच्यते । यः सम्यगेतज्जानाति स पुमान् भवति प्रियः ॥ १६ ॥ १ क. ॰तै॰ । २ क. ग. ॰श्व। ३ द. ख. ॰य॰ । ४ क. ॰वस्तत्रापां च तत्र । ५ क. ॰भज्यते । ६ द. ख. द्रवत्वादग्नजात्वं । ७ द. ख. द्रहिवि॰ । ८ द. ख. वयवाहकमेतस्या॰ । ९ द. ख. अभ्यदत्त चित्तं । १० ख. ग. बा॰ । ११ ख. ग. बा॰ । १२ द. ख. ग. ॰त्रदू॰ । १३ क. ॰क्षं । १४ द. ख. ॰धं । १५ द. ख. ॰र्थेत्रे । १६ द. ख. ॰ह्यं॰ । १७ ख. ॰रात्प्रेर्यं । १८ द. ख. ॰का॰ ।
- ‘प्रकृत्या स्वभावेन पार्थिवो भागः बहुलः’ इति, † ‘तत्र उदकतेजोवायूनां क्रिया कार्यं भवेन्’ इति च टिप्पणमस्ति क. पुस्तके ।