भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 243, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 243

१७८ समराङ्गणसूत्रधारे

एवमाद्यग्निबीजानि पार्थिवस्य प्रचक्षते । धारा च जलभारश्च पयसो¹ भ्रमणं तथा ॥ २९ ॥

एवमादीनि भूजस्य जलजानि प्रचक्षते । यथोच्छ्रायो यथाधिक्यं यथा नीरन्ध्रतापि च ॥ ३० ॥

अत्यन्तमुर्ध्वगामित्वं स्वबीजान्ययसस्तथा । मरुत् स्वभावजो गाढैर्ग्राहकैश्च प्रतीप्सितः ॥ ३१ ॥

हत्याद्यैर्वर्जनाद्यैश्च³ गजकर्णादिभिः कृतः । (छा)चाणितो गालितश्चायं बीजं भवति भूमँवे⁶ ॥ ३२ ॥

काष्ठंभै(कृ)²त्तिश्च लोहं च जलजे⁵ पार्थिवं⁴ भवेत् । अन्यदम्भस्तदप्यस्तु निर्गूध्व⁷मधस्तथा ॥ ३३ ॥

बीजं स्वकीयं भवति यन्त्रेषु जलजन्मसु । तापाद्यं पूर्वकथितं वह्निजं जलजे भवेत् ॥ ३४ ॥

सङ्गृहीतश्च दत्तश्च पूरितः प्रतिनोदितः । मरुद् बीजत्वमायाति यन्त्रेषु जलजन्मसु ॥ ३५ ॥

वह्निजातेषु मृत्ताम्रलोहरुक्मादि तद्ग्रहे । पार्थिवं कथयन्तीह बीजं बीजविचक्षणाः ॥ ३६ ॥

वह्नेर्वह्निर्भवेद् बीजमाप आपस्तथा भवेत् । आद्यैर्हत्यादिभिः प्रोक्तैर्मरुद् गच्छति बीजताम् ॥ ३७ ॥

प्रत्येषकं¹⁰ च जनकं¹¹ प्रेरकं ग्राहकं तथा । सङ्ग्राहकं च⁸ भूजातं बीजं स्यादनिलोद्भवैः ॥ ३८ ॥

प्रेरणं चाभिघातश्च विवर्त्तो⁹ भ्रमणं तथा । जलजं मारुतोत्थेषु बीजं स्यादिति सम्मतम् ॥ ३९ ॥

सङ्गृहीतस्य तापाद्यैर्यानि पावकजन्मनि । प्रकीर्तितानि तान्येव भवन्ति पवनोद्भवैः ॥ ४० ॥


१ द. ख. पा° । २ क. °स्थिता । ३ द. ख. हत्याद्यैर्जननाभैश्च । ४ द. ख. °तले । ५ द. ख. वृ° । ६ द. ख. °ले । ७ द. ख. °दंतस्तदपाच्च ति° । ८ ख. °ना° । ९ क. °दृग्° । १० द. ख. प्रत्येकं । ११ द. ख. °हक्त्वं ।