समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 230, कुल 726 में से
संदर्भ में पढ़ेंराजगृहं नाम त्रिंशोऽध्यायः । १६५ सद्मशीर्षश्च¹ दातव्यो यथाशोभं यथारुचि । क्षेत्रभागसमः कार्यः कलशश्चूलिकावधेः ॥ १८ ॥ उदयार्धेन भूमेः स्युरन्तराणि तलानि च । यथाशोभं तु कर्तव्यं पीठं तस्य सुशोभितम् ॥ १९ ॥ सार्धभागद्वयं चास्य कार्या खुरघरण्डिका² । जङ्घा भागचतुष्कं च ततश्छाद्यं प्रयोजयेत् ॥ २० ॥ भागद्वयं च पादोनं छाद्यपिण्डः प्रकीर्तितः । निर्गमोऽस्य चतुर्भागो³ हंसाख्यस्तस्य चोपरि ॥ २१ ॥ पादोनभागं कर्तव्यं⁴ ततश्छाद्यं द्वितीयकम् । जङ्घा भूमिचतुष्केण प्रासादस्य प्रकल्पयेत् ॥ २२ ॥ चतुर्थभूमिकामूर्ध्नि ततो मुण्ड⁵(न्) निवेशयेत् । क्षर्ण⁶क्षणप्रवेशेन कार्याः शेषास्तु भूमिकाः ॥ २३ ॥ वेदिका च यथोक्ता स्यात् सघण्टा कलशान्विता । रेखाशुद्ध्या⁷ च कर्तव्या मुण्डाः सर्वे यथायथम् ॥ २४ ॥ अर्घोदयं⁹ त्रिधा कृत्वा तृतीयं दशधा भजेत् । वामनश्चातपत्रश्च कुबेरो भ्रमरावली ॥ २५ ॥ हंसपृष्ठो महाभोगी नारदः शम्बुको जयः । अनन्तो दशमस्तेषां विधायक्वशादमी⁸ ॥ २६ ॥ विधातव्याः स्थपतिभिर्मुण्ड¹⁰रेखाप्रसिद्धये । तमङ्गवेदिकाजालमत्तवारणशोभितम् ॥ २७ ॥ वितर्द्दिनिर्य्यूह¹¹युतं चन्द्रशालाविभूषितम् । कर्माढ्यं बहुचित्रं च कुर्वीत पृथिवीजयम् ॥ २८ ॥ प्रासादाश्च महान्तो ये विधेयास्ते समोदयाः । अर्घोदयेन लघवो ह्यवाको(को)णादयं क्रमः¹² ॥ २९ ॥ १ क. ॰प्त॰ । २ द. ख. खुखरंडिका । ३. द. ख. निर्गमो स्याच्चतु॰ । ४ द. ख. पादोन नाग क॰ । ५ द. ख. मंडा नि॰ । ६ क. ॰णं । ७ द. ख. ॰शुच्या । ८ द. ख. मदाः । ९ द. ख. अर्थो॰ । १० द. ख. ॰र्म॰ । ११ द. ख. ॰र्व्यू॰ । १२ द. ख. घटवो ह्यवाकाणादयं ।