भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 246, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 246

यन्त्रविधानं नामैकात्रिंशोऽध्यायः । १८१ विधाय भूमिकाः पञ्च शय्यां त्वादिसुवि स्थितां । प्रतिप्रहरमन्यासु सर्पन्ती याति पञ्चमीम् ॥ ६५ ॥ एवंप्रायाणि चित्राणि सम्यक् सिध्यन्ति यन्त्रतः । क्रमेण त्रिंशतावर्त्तं स्थाले दन्ता भ्रमन्त्यसौ ॥ ६६ ॥ तन्मध्ये पुत्रिका क्लृप्ता प्रति नाडिं प्रबोधयेत् । वह्नेश्च दर्शनं तोये वह्निमध्याज्जलोद्गतिः ॥ ६७ ॥ अवस्तुनोऽपि वस्तुत्वं वस्तुतोऽपि तथान्यथा । निःश्वासेन वियद् याति श्वासेनायाति मेदिनीम् ॥ ६८ ॥ क्षीरोदमध्यगा शय्या प्रतीष्ठाधः फणाभृता । गोलश्च सूति(चि)विहितः सूर्यादीनां प्रदक्षिणम् ॥ ६९ ॥ परिभ्राम्यत्यहोरात्रं ग्रहाणां दर्शयन् गतिम् । गजादिरूपे रथिकरूपतां गमितः पुमान् ॥ ७० ॥ भ्रान्त्वा नाडिकया तस्याः पर्यन्ते हन्ति भो(यो)जनम् । दीपिकापुत्रिका क्लृप्ता क्षीणं क्षीणं प्रयच्छति ॥ ७१ ॥ दीपे तैलं प्रनृत्यन्ती तालगत्या प्रदक्षिणम् । यावत् प्रदीयते वारि तावत् पिबति सन्ततम् ॥ ७२ ॥ यन्त्रेण कल्पितो हस्ती न तद् गच्छत् प्रतीयते । शुकाद्याः पक्षिणः क्लृप्तास्तालस्यानुगमान्मुहुः ॥ ७३ ॥ जनस्य विस्मयकृतो नृत्यन्ति च पठन्ति च । पुत्रिका वा गजेन्द्रो वा तुरगो मर्कटोऽपि वा ॥ ७४ ॥ वलनैर्वर्तनैर्नृत्यंस्तालेन हरते मनः । येनैव वर्त्मना क्षेत्रं ध्रियते तेन तत्पयः ॥ ७५ ॥ यात्यायाति पुनस्तद्वद् गर्तान् पुष्करिणीष्वपि । फलके कानि(?)तिष्ठन्ति धावन्त्यनुमतानि च ॥ ७६ ॥

१ क. ॰व्याकृत्वा॰ । २ क. ॰ता एवं॰ । ३ द. त्रिंशतोवर्त्ती; ख. ग. त्रिंशते वर्ती । ४ क. ॰तिं॰ । ५ क. ॰तिं॰ । ६ द. ख. ग. ॰ल्ले । ७ क. ॰मृज्यन्ती । ८ द. ख. प्रतिक्षणं । ९ क. ॰र्नं॰ । १० द. ख. वल॑नैर्वर्तनैर्नृत्यंतां । ११ द. ख. ॰र्तां पुं॰ ।