भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 248, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 248

यन्त्रविधानं नामैकत्रिंशोऽध्यायः । १८३ एतेऽत्यर्थं प्रीतिदा बीजयोगाः संजायन्ते योजिताः सूत्रधारैः । भ्रान्त्या नान्यश्चित्रकृद् दारुक्लृप्तं चक्रं दोलाद्यं पुनः पञ्चमं तत् ॥८६॥ पारम्पर्यं कौशलं सोपदेशं शास्त्राभ्यासो वास्तुकर्मोद्यमो धीः । सामग्रीयं निर्मला यस्य सोऽस्मिंश्चित्राण्येवं वेत्ति यन्त्राणि कर्तुम् ॥८७॥ चित्रैर्युक्तं ये गुणैः पञ्चरूपं जानन्त्येनं यन्त्रशास्त्राधिकारम् । ये वा कृत्स्नं योजयन्तेऽत्र सम्यक् तेषां कीर्त्तिर्व्या भुवं चावृणोति ॥८८॥ अङ्गुलेन मितमङ्गलपादेनोच्छ्रितं द्विपुटंकं तनुवृत्तम् । संविधेयमृजु मध्यगरन्ध्रं श्लिष्टसन्धि दृढताम्रमयं तत् ॥ ८९ ॥ दारवेषु विहङ्गेषु तदन्तः क्षिप्तमुद्गतसमीरवशेन । आतनोति विचसन्मृदुशब्दं शृण्वतां भवति चित्रकरं च ॥ ९० ॥ सुश्लिष्टखण्डद्वितयेन कृत्वा सरन्ध्रमन्तर्मुरजानुकारम् । ग्रस्तं तथा कुण्डलयोर्युगेन मध्ये पुटं तस्य मृदु प्रदेयम् ॥ ९१ ॥ पूर्वोक्तयन्त्रे विधिनोदरेऽस्य क्षिप्तेऽथ शय्यातलसंस्थमेतत् । ध्वनिं ततः सञ्चलनादनङ्गक्रीडारसोल्लासकरं करोति ॥ ९२ ॥ अस्मिञ् शय्यातलविनिहिते मुञ्चति व्यक्तरागं चित्राञ् शब्दान् मृगशिशुदृशां यान्ति(ति) भीत्येव मानः । किञ्चैतासां दयितमभितो निर्भरप्रेमभाजां प्रौढिं गच्छन्त्यधिकमधिकं मन्मथक्रीडितानि ॥ ९३ ॥ पटहमुरजे वेणुः शङ्खो विपञ्च्यथ काहला डमरुटिविले वाद्यातोद्यान्यमून्यखिलान्यपि । मधुरमधिकं यच्चित्रं च ध्वनिं विदधात्यलं तदिह विधिना रुद्धोन्मुक्तानिलस्य विजृम्भितम् ॥ ९४ ॥ लघुदारुमयं महाविहङ्गं दृढसुश्लिष्टतनुं विधाय तस्य । उदरे रसयन्त्रमादधीतं ज्वलनाधारमधोऽस्य चाति(ग्नि)पूर्णम् ॥९५॥ १ क. °कृ°। २ द. ख. °मे°। ३ द. ख. °हं°। ४ द. ख. ग. °प्र°। ५ द. ख. ग. °खेऽद्वि°। ६ क. स्फु°। ७ क. मे°। ८ द. ख. °नं°। ९ द. ख. रसयंत्र दधीत।