समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 250, कुल 726 में से
संदर्भ में पढ़ेंयन्त्रविधानं नामैकत्रिंशोऽध्यायः । १८९ पुंसो दारुजमूर्ध्वं^१ रूपं कृत्वा निकेतनद्वारि । तत्करयोजितदण्डं निरुणद्धि प्रविशतां वर्त्म ॥ १०६ ॥ खड्गहस्तमथ मुद्गरहस्तं कुन्तहस्त^२मथवा यदि तत् स्यात् । तन्निहन्ति विशतो निशि चौरान् द्वारि संवृतमुखं प्रसभेन ॥१०७॥ ये चापाद्या ये शतघ्न्यादयोऽस्मिन्नुष्ट्रग्रीवाद्याश्च दुर्गस्य गुप्त्यै । ये क्रीडाद्याः क्रीडनार्थं च राज्ञां सर्वेऽपि स्युर्योगतस्ते गुणानाम्॥१०८॥ इदानीं प्रक्रमायातं वारियन्त्रं प्रचक्ष्महे । क्रीडार्थं कार्यसिद्धयै च चतुर्धा तद्गतिं विदुः ॥ १०९ ॥ निम्नगं भवति द्रोणी^३देशादूर्ध्वस्थिताज्जलम् । यन्त्र तत् पातयन्त्रः^४ स्याद् वाटिका^५दिप्रयोजनम् ॥ ११० ॥ उच्च्छ्रायसमपाताख्यं यत्रोर्ध्वा नाडिका पयः । जलाधारगुणान्मुञ्चेदधस्तात् समनाडिका(कम्) ॥ १११ ॥ यन्त्रं^६ पातसमुच्छ्रायं पतित्वोच्छ्रायतो^७ जलम् । तिर्यग् गत्वा प्रयात्यूर्ध्वं सचिच्छ्रद्रस्तम्भयोगतः ॥ ११२ ॥ पतित्वोच्छ्रायतस्तोयं तिर्यगूर्ध्वोर्ध्वमेत्यथ । सचिच्छ्रद्रस्तम्भयोगेन तत् स्यात् पातसमोच्छ्रयम् ॥ ११३ ॥ वाप्यां वापि च कूपे विधानतो दीर्घिकादिका^८ विहिता । यत्रोर्ध्वमम्बु गमयति तदिहोच्छ्रयसंज्ञितं कथितम् ॥ ११४ ॥ दारुजमिभस्य रूपं यत् सलिलं पात्रसंस्थितं पिबति^१० । तन्माहात्म्यं निगदितमेतस्योच्छ्रायतुल्यस्य^९ ॥ ११५ ॥ सलिलं सुरङ्गे^११देशानीतं निम्नेन^१२ वर्त्मना दूरे । अद्भुतमम्भस्थानं तदिह समोच्छ्रायतः^१३ कुरुते ॥ ११६ ॥ धारागृहमेकं^१४ स्यात् प्रवर्षणाख्यं ततो द्वितीयं च । प्राणालं जलमग्नं^१५ नन्द्यावर्तं तथान्यदपि^१६ ॥ ११७ ॥ १ क. मूर्ध्नं । २ द. ख. कुम्भहं । ३ द. ख. ॰प्यां । ४ क. ॰दं । ५ ग. घा° । ६ द. ख. ग. ॰न्त्र । ७ द. ख. पतितोच्च्छ्रयतोऽज्वलं । ८ द. ख. ॰प्यां वा कूपे वा पिधानतो दीर्घिका । ९. द. ख. यं । १० द. ख. प्रियति । ११ द. ख. सुरंगं । १२ द. ख. ॰व । १३ क. ॰तं । १४ क. ॰वं । १५ क. ॰लनिमग्नं । १६ द. ख. ग. ॰वथान्य° । वा २४