समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 251, कुल 726 में से
संदर्भ में पढ़ें१८६ समराङ्गणसूत्रधारे प्राकृतजनार्थमेतन्न विधेयं योग्यमेतदवनिभुजाम् । मङ्गल्यानां सदनं दिव्यमिदं तुष्टिपुष्टिकारम् ॥ ११८ ॥ सलिलाशयस्य सविधे कस्याप्याश्रित्य शोभनं¹ देशम् । यन्त्रोत्सेधाद् द्विगुणा त्रिगुणा वा नाडिका कार्या ॥ ११९ ॥ जलनिर्वाहसहासावन्तर्मसृणा बहिश्च नीरन्ध्रा । निर्²व्यूहाम्भसि तस्यां शुभे मुहूर्ते गृहं कार्यम् ॥ १२० ॥ सर्वाभिरोषधीभिर्युक्तं सहिरणयपूर्णकुम्भैश्च । सुविचित्रगन्धमाल्यं विनादितं ब्रह्मघोषेण ॥ १२१ ॥ रत्नोद्भवैर्विचित्रैः स्तम्भैर्युक्तं हिरण्यघटितैर्वा³ । रजतोद्भवैः कदाचित् सुरदारुसमुद्भवैरथवा⁴ ॥ १२२ ॥ श्रीखण्डोत्थैरथवा सालकमुख्यप्रशस्तवृक्षोत्थैः । शतसङ्ख्यैर्द्वात्रिंशत्सङ्ख्यैैर्यदि वापि षोडशभिः ॥ १२३ ॥ अथवा चतुस्समन्वितविंशतिसङ्ख्यैर्दिनेशसङ्ख्यैर्वा । भूषितमतिरमणीयैश्चतुर्भिरपि वा विधातव्यम् ॥ १२४ ॥ प्राग्ग्रीवै⁵रतिचित्रैः शैलैर्जालैर्विभूषितं विविधैः । वेदीभिः परिकरितं कपोतपालीभिरभिरामम् ॥ १२५ ॥ रमणीयसालभञ्जिकमनेकविधयन्त्रशकुनिकृतशोभम् । मिथुनैश्च वानराणां जम्भकनिवहैश्च नैकविधैः ॥ १२६ ॥ विद्याधरसिद्धभुजङ्गकिन्नरैश्चारणैश्च रमणीयम् । नृत्यद्भिः परमग(गु)णैः शिखण्डिभिर्मण्डितोद्देशम् ॥ १२७ ॥ कल्पतरुभिर्विचित्रैश्चित्रलतावल्लिगुल्मसंछन्नम् । परपुष्टषट्पदालिमरालमालामनोहारि ॥ १२८ ॥ प्रवहत्सङ्कलस्रोतःसुश्लिष्टनिविष्टनाडिकं मध्ये । सच्छिद्रनाडिकयुतं नानाविधरूपरमणीयम् ॥ १२९ ॥ १ द. ख. शासनं । २ क. ॰गृहं । ३ द. ख. ॰गदितै° । ४ द. ख. स्व° । ५ द. ख. प्राग्जीवै° । ६ द. ख. ग. मरालयाली° । ७ द. ख. ॰हदाकं ।