भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 252, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 252

यन्त्रविधानं नामैकत्रिंशोऽध्यायः । १८४ सुश्लिष्टनाडिकाग्रे स्तम्भतुलाभित्तिसंश्रिते परितः । सम्यक् कृत्वा दृढतरविलेपनं वज्रलेपाद्यैः ॥ १३० ॥ लाक्षासर्जरसहषन्मेषविषाणोत्थचूर्णसंमिश्रम् । अतसीकरञ्जतैलप्रविगाढो वज्रलेपः स्यात् ॥ १३१ ॥ दृढसन्धिवन्धहेतोः स तत्र देयो द्विशः कदाचिद् वा । शणवल्क्लश्लेष्मातकसिक्थकतैलैः प्रलेपश्च ॥ १३२ ॥ उच्च्छ्रययन्त्रेणैतद् भ्रान्तजलेनाथ तदभितः कृत्वा । चित्रानुपायुक्तं प्रदर्शयेन्नृपतये स्थपतिः ॥ १३३ ॥ कार्याण्यस्मिन् करिणां मिथुनान्यभिनोऽम्बुकेलियुक्तानि । अन्योन्यपुष्करोज्झितसीकरभयपिहितनयनानि ॥ १३४ ॥ वर्षानुकृतं चास्मिन् प्रीतिमति प्रतिमङ्कजो वीक्ष्य । दृक्कटमेहनहस्तैर्मदमिव मुञ्चज् जलं कार्यः ॥ १३५ ॥ स्तनयोर्युगेन सृजती जलधारे तत्र कापि कार्या स्त्री । आनन्दाश्रुलवानिव सलिलकणान् पक्ष्मभिः काचित् ॥ १३६ ॥ नाभिहृदनदिकामिव विनिर्गतां क्वापि बिभ्रती धाराम् । काप्यङ्गुलिनखांशुभिरिव योषित् सिञ्चती कार्या ॥ १३७ ॥ एवम्प्रायांश्चित्रान् स्वभावचेष्टान् बहूश्च रमणीयान् । क्षोभान् विधाय कुर्यादाश्चर्यं नरपतेः स्थपतिः ॥ १३८ ॥ मध्ये तस्य विधेयं सिंहासनममलहेममणिघटितम् । तत्रासीदेन्नरपतिरवनिपतिः श्रीपतिर्देवः ॥ १३९ ॥ स्नायात् कदाचिदस्मिन् मङ्गलगीतैर्विवर्धितानन्दः । वादित्रनाट्यनिपुणैर्निषेव्यमाणः सुरेन्द्र इव ॥ १४० ॥ य एतस्मिन् गाढग्लपितघनघर्मव्यतिकरे ९शुचौ धाराधाम्नि स्फुटसलिलधारे नरपतिः ।

१ द. सम्यग्दृढतर सवि°; ख. सम्यग्दृढतरतस्यरसवि° । २ द. ख. क. ग. ट्कः । ३ द. ख. एतदुच्छ्रययंत्रेण; क. यतदुच्छ्रयसतत्रयन्त्रिण । ४ द. ख. ग. °प्ति°; क. °च्छि° । ५ द. ख. यश्चितान् ; क. °यश्चित्रान् । ६ क. °ष्टा बह्वश्च । ७ क. °न् । ८ द. म्व. °दाचार्य । ९ द. म्व. °मर्म° । १० सुरैः ।

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र) · पृष्ठ 252, कुल 726 में से · BharatKosha