समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 255, कुल 726 में से
संदर्भ में पढ़ें१९० समराङ्गणसूत्रधारे कृत्रिमशफरीमकरीपक्षिभिरपि चाम्बुसम्भवैर्युक्ताम् । कुर्यादम्भोजवतीं वापीमाहार्ययोगेन ॥ १६३ ॥ सामन्तमुख्यपुरुषा राजाज्ञालब्धसंश्रयास्तत्र । परराष्ट्रागतदूतास्तिष्ठेयुर्नि¹हितमिह निभृताः ॥ १६४ ॥ अथ स यथाविधि सलिलक्रीडां पूर्वोक्तमार्गरूपाणाम् । दृष्ट्वा मुदितः कुर्यात् पर्यङ्कारोहणं नृपतिः ॥ १६५ ॥ तत्र स्थितस्य नृपतेः परिवारितस्य वाराङ्गनाभिरभितो जलमग्नधाम्नि । पातालसद्मनि यथा भुजगेश्वरस्य निस्सीमसम्भृतरतिर्भवति प्रमोदः ॥ १६६ ॥ पूर्वोक्तवापिकायां मध्ये स्तम्भैश्चतुर्भिरूपे²रचितम् । मुक्ताप्रवालयुक्तं पुष्पकम्थ कारयेल्लटभम् ॥ १६७ ॥ वापीं परितः पुष्पकमापूर्य सुनिर्गमाभिरथ सुदृढम् । गर्भस्वस्तिकभित्ति³भिरूपहितशोभं समन्ततः कुर्यार्तै⁴ ॥ १६८ ॥ पूर्वोक्तवारियोगात्⁵ पूर्णमाकर्णतो विधायैताम् । जलकेलिषु सोत्कण्ठो महीपतिः पुष्पकं यायात् ॥ १६९ ॥ कुर्वीत नर्मसचिवैर्विलासिनीभिश्च सार्धमवनिपतिः । तद्विच्च्यन्तरवर्ती निमज्जनोन्मज्जनैः क्रीडाम् ॥ १७० ॥ एकत्र मग्नैरपर६र् दृष्टैरन्यत्र हत्वा सलिलेन नष्टैः । क्रीडँ⁷त्यलं केलिकरैः सहायैर्नृपः सुखं मज्जनपुष्करिण्याम् ॥ १७१ ॥ वापीतलस्थितमथ त्रपयावनम्र- माच्छादितस्तनभरं करपल्लवेन । गाढावसक्तवसनं जलरोधमुक्ता- वालोकते प्रणयिनीजनमत्र धन्यः ॥ १७२ ॥ १ ग. ॰र्हं॰ । २ द. ख. ॰पचरितं । ३ द. ख. ॰त्तिरूप॰ । ४ द. ख. समन्तात् । ५ द. ख. ॰र्यागा । ६ द. ख. ॰रपरत्र । ७ द. ख. ॰डेँ॰ । ८ द. ख. सं॰ ।