भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 254, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 254

यन्त्रविधानं नामैकत्रिंशोऽध्यायः । १८९ तत्कोणेषु चतुर्ष्वपि रमणीया दारुशारिकाः कार्याः । मध्याम्बुजनिहितदृशः सालङ्काराः सशृङ्गाराः ॥ १५२ ॥ पूर्वोक्तयन्त्रयोगात् पद्मासीने वसुन्धराधिपतौ । भृङ्गारामलं¹वारिभिरङ्गणवापीं२ श्रियाञ्च ततः ॥ १५३ ॥ तामिति३ भृत्वा वापीं तत्सलिलं तदनुपट्टगर्भगतम् । छाद्यस्तु गन्धरोध्रेष्वति रोहति(?)सर्वतो नियतम् ॥ १५४ ॥ मुखपट्टसमुत्कीर्णै रूपैश्चित्रैर्मनोरमैरखिलैः । अङ्गैर्वारि विमुञ्चति नासास्यश्रवणनेत्राद्यैः ॥ १५५ ॥ प्रणालाख्यं धाराभवनमिदमत्यद्भुततरं स्थितिं धत्ते यस्य क्षितिपतितिलकस्याङ्गणभुवि । करोत्येतद् वेत्थं स्थपतिरपि बुद्ध्या चतुरया जगत्येतौ द्वावप्यधिकमहनीयौ कृतधियाम् ॥ १५६ ॥ चतुरश्रातिगभीरा वापी कार्या मनोरमा सुदृढा । गर्भगतं गृहमस्याः कर्तव्यं लिप्तसन्धि ततः ॥ १५७ ॥ विहितप्रवेशनिर्गति सुरङ्गयाधो निवेशितद्वारम् । विदधीत चारुरूपैः प्रवर्षकै४र्याप्तमुपरिष्टात् ॥ १५८ ॥ चित्राध्यायोदितवर्त्मना ततोऽलङ्कृतं च चित्रेण । तस्य विधेयं मध्यं सलिलाधिपवाससङ्काशम् ॥ १५९ ॥ ऊर्ध्वविनिर्गमिताब्जैर्नालैस्तत्पट्टकन्दकोद्भूतैः । सच्छिद्रकर्णिकागतदिन५करकरनिर्गतोद्योतम् ॥ १६० ॥ आपूरयेत् ततोऽनु च पाताम्बुभिरमलकमलपर्यन्तम् । विधिनामुनैव सम्यक् प्रविधाय मनोरमं भवनम् ॥ १६१ ॥ नानारूपकयुक्त्या६उ(व्यु)परचिततमङ्गतोरणद्वारम् । शालाभिरायताभिश्चतसृष्वपि दिक्षु कृतशोभम् ॥ १६२ ॥ १ द. ख. ॰रमालं । २ द. ख. ॰पी भूयेश्च । ३ क. ॰मं । ४ द. ख. ॰नीं । ५ ॰दिनकरविनि॰ । ६ द. ख. ॰युक्तासु ।