भारतकोश
संग्रह पर लौटें

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

यन्त्रविधानं नामैकत्रिंशोऽध्यायः । १८९ तत्कोणेषु चतुर्ष्वपि रमणीया दारुशारिकाः कार्याः । मध्याम्बुजनिहितदृशः सालङ्काराः सशृङ्गाराः ॥ १५२ ॥ पूर्वोक्तयन्त्रयोगात् पद्मासीने वसुन्धराधिपतौ । भृङ्गारामलं¹वारिभिरङ्गणवापीं२ श्रियाञ्च ततः ॥ १५३ ॥ तामिति३ भृत्वा वापीं तत्सलिलं तदनुपट्टगर्भगतम् । छाद्यस्तु गन्धरोध्रेष्वति रोहति(?)सर्वतो नियतम् ॥ १५४ ॥ मुखपट्टसमुत्कीर्णै रूपैश्चित्रैर्मनोरमैरखिलैः । अङ्गैर्वारि विमुञ्चति नासास्यश्रवणनेत्राद्यैः ॥ १५५ ॥ प्रणालाख्यं धाराभवनमिदमत्यद्भुततरं स्थितिं धत्ते यस्य क्षितिपतितिलकस्याङ्गणभुवि । करोत्येतद् वेत्थं स्थपतिरपि बुद्ध्या चतुरया जगत्येतौ द्वावप्यधिकमहनीयौ कृतधियाम् ॥ १५६ ॥ चतुरश्रातिगभीरा वापी कार्या मनोरमा सुदृढा । गर्भगतं गृहमस्याः कर्तव्यं लिप्तसन्धि ततः ॥ १५७ ॥ विहितप्रवेशनिर्गति सुरङ्गयाधो निवेशितद्वारम् । विदधीत चारुरूपैः प्रवर्षकै४र्याप्तमुपरिष्टात् ॥ १५८ ॥ चित्राध्यायोदितवर्त्मना ततोऽलङ्कृतं च चित्रेण । तस्य विधेयं मध्यं सलिलाधिपवाससङ्काशम् ॥ १५९ ॥ ऊर्ध्वविनिर्गमिताब्जैर्नालैस्तत्पट्टकन्दकोद्भूतैः । सच्छिद्रकर्णिकागतदिन५करकरनिर्गतोद्योतम् ॥ १६० ॥ आपूरयेत् ततोऽनु च पाताम्बुभिरमलकमलपर्यन्तम् । विधिनामुनैव सम्यक् प्रविधाय मनोरमं भवनम् ॥ १६१ ॥ नानारूपकयुक्त्या६उ(व्यु)परचिततमङ्गतोरणद्वारम् । शालाभिरायताभिश्चतसृष्वपि दिक्षु कृतशोभम् ॥ १६२ ॥ १ द. ख. ॰रमालं । २ द. ख. ॰पी भूयेश्च । ३ क. ॰मं । ४ द. ख. ॰नीं । ५ ॰दिनकरविनि॰ । ६ द. ख. ॰युक्तासु ।

१९० समराङ्गणसूत्रधारे कृत्रिमशफरीमकरीपक्षिभिरपि चाम्बुसम्भवैर्युक्ताम् । कुर्यादम्भोजवतीं वापीमाहार्ययोगेन ॥ १६३ ॥ सामन्तमुख्यपुरुषा राजाज्ञालब्धसंश्रयास्तत्र । परराष्ट्रागतदूतास्तिष्ठेयुर्नि¹हितमिह निभृताः ॥ १६४ ॥ अथ स यथाविधि सलिलक्रीडां पूर्वोक्तमार्गरूपाणाम् । दृष्ट्वा मुदितः कुर्यात् पर्यङ्कारोहणं नृपतिः ॥ १६५ ॥ तत्र स्थितस्य नृपतेः परिवारितस्य वाराङ्गनाभिरभितो जलमग्नधाम्नि । पातालसद्मनि यथा भुजगेश्वरस्य निस्सीमसम्भृतरतिर्भवति प्रमोदः ॥ १६६ ॥ पूर्वोक्तवापिकायां मध्ये स्तम्भैश्चतुर्भिरूपे²रचितम् । मुक्ताप्रवालयुक्तं पुष्पकम्थ कारयेल्लटभम् ॥ १६७ ॥ वापीं परितः पुष्पकमापूर्य सुनिर्गमाभिरथ सुदृढम् । गर्भस्वस्तिकभित्ति³भिरूपहितशोभं समन्ततः कुर्यार्तै⁴ ॥ १६८ ॥ पूर्वोक्तवारियोगात्⁵ पूर्णमाकर्णतो विधायैताम् । जलकेलिषु सोत्कण्ठो महीपतिः पुष्पकं यायात् ॥ १६९ ॥ कुर्वीत नर्मसचिवैर्विलासिनीभिश्च सार्धमवनिपतिः । तद्विच्च्यन्तरवर्ती निमज्जनोन्मज्जनैः क्रीडाम् ॥ १७० ॥ एकत्र मग्नैरपर६र् दृष्टैरन्यत्र हत्वा सलिलेन नष्टैः । क्रीडँ⁷त्यलं केलिकरैः सहायैर्नृपः सुखं मज्जनपुष्करिण्याम् ॥ १७१ ॥ वापीतलस्थितमथ त्रपयावनम्र- माच्छादितस्तनभरं करपल्लवेन । गाढावसक्तवसनं जलरोधमुक्ता- वालोकते प्रणयिनीजनमत्र धन्यः ॥ १७२ ॥ १ ग. ॰र्हं॰ । २ द. ख. ॰पचरितं । ३ द. ख. ॰त्तिरूप॰ । ४ द. ख. समन्तात् । ५ द. ख. ॰र्यागा । ६ द. ख. ॰रपरत्र । ७ द. ख. ॰डेँ॰ । ८ द. ख. सं॰ ।

यन्त्रविधानं नामैकत्रिंशोऽध्यायः । १९१ रथदोलादिविधानं दारवमभिदध्महे वयं सम्यक् । यन्त्रभ्रमणककर्म प्रकीर्तितं पञ्चमं यत् तत् ॥ १७३ ॥ तत्र वसन्तः प्रथमो मदननिवासो वसन्ततिलकश्च । विभ्रमकस्त्रिपुराख्यः पञ्चैते दोलकाः कथिताः ॥ १७४ ॥ निखनेच्चतुरः स्तम्भान् समैकसूत्रोपगान् ऋजून् सुदृढान् । सदृशान्तरान् धरित्रीवशतः सुश्लक्ष्ण(ष्ट)पीठगतान् ॥ १७५ ॥ प्रासादस्योक्तदिशि प्रविदध्याद् विरचिताष्टकरदैर्घ्यम् । भूमिगृहं रमणीयं तदर्धतो विहितगाम्भीर्यम् ॥ १७६ ॥ तद्गर्भतले स्तम्भो लोहमयाधारसंस्थितः कार्यः । भ्रमसहितः पीठयुतो ग्रस्तश्चच्छादकतुलाभिः ॥ १७७ ॥ संस्थाप्योपरि पीठस्य कुम्भिकामतिदृढां विभक्तां च । धनुरुच्छ्रितैस्ततोऽमूंमष्टभिरावेष्टयेद् भद्रैः ॥ १७८ ॥ स्वेच्छैमथ भूमिकोच्छ्रयमसयोर्ध्वं कल्पयेन्नितान्तमृजुम् । निदधीत वेष्टनोर्ध्वं पट्टयुतं स्तम्भशीर्षं च ॥ १७९ ॥ हीरग्रह(ण ?)पर्यन्तं मंडला गजशीर्षिका विधातव्या । सुदृढा प्रयत्न रचिता मनोभिरामा यथाशोभम् ॥ १८० ॥ पट्टस्योपरि कार्या चतुष्किका क्षेत्रमानतोऽभीष्टात् । तस्यामुपरि विधेयस्तलबन्धो दृढतरन्यासः ॥ १८१ ॥ स्तम्भैर्द्वादशभिरथ क्षेत्रे युक्त्या समुच्छ्रितैर्भव्यैः । रूपवतीकोणस्थितिरधिका भूः प्रथमिका कार्या ॥ १८२ ॥ मध्ये भ्रमश्च तस्या गर्भस्तम्भप्रतिष्ठितः कार्यः । क्षेत्रप्रमाणवशत्तस्तां पश्चाच्छादयेत् पट्टैः ॥ १८३ ॥ रथिकाशिखाग्रकेषु च फलकाम(व)रणस्य तद्वदुपcategory भ्रमचक्राणि न्यस्येन्मध्ये स्तम्भे च पञ्चैव ॥ १८४ ॥

१ द. °ष्ट्रि° । २ द. ख. °प्यमुमष्टशं° ; क. °थ मुष्टिभिरा° । ३ द. ख. °च्छा° । ४ द. ख. °रग्रहण। ५ क. ख. द. सं° । ६ द. ख. °र्धै° । ७ क. °चरिता । ८ द. ख. °ल° । ९ क. ख. द. °त्थि° । १० द. ख. भूद्भूमिं° ; ग. तद्भूमिं° । ११ द. र्भस्तंप्र° ; क. °र्भस्तम्मः प्र° । १२ क. °कांतर° । १३ °से° ।

१९२ समराङ्गणसूत्रधारे। अत उपरि यथाशोभं हि भूमिका पुष्पकाकृतिः कार्या । मध्यस्तम्भाधारा कृतकलशविभूषणा शिरसि ॥ १८५ ॥ स्तम्भेऽव(ध)स्ताद् भ्रमिं१ भृशं भ्रमत्यर्थभूमिका तत्र । रथिकाभ्रमरकयुक्ता परस्परं चक्रयन्त्रेण ॥ १८६ ॥ वसन्तरथिकाभ्रमे समधिरूढवाराङ्गना- परिश्रमणसम्भृताभ्यधिकविभ्रमं भूपतिः । करोति नयनोत्सवस्त्रि(वं त्रि)दशधात्रि यत्कीर्तनं वसन्तसमये भवत्यमलकीर्त्तिधामैव सः ॥ १८७ ॥ आरोप्य स्थिरमेकं स्तम्भं भूमिगृहादिरहितमँथ । हस्तचतुष्कोच्छ्राया कार्योपरि भूमिका चास्य ॥ १८८ ॥ मध्ये भ्रमरकयुक्तं शेषं पूर्ववदिहाचरेदखिलम् । पुष्पकमपि च स्तम्भे शिथिलं कलशोच्छ्रितं कुर्यात् ॥ १८९ ॥ तस्योपरि च ग्रीवा चतुरासनसंयुता विधातव्या । घण्टास्तम्भौ कार्यौ स्तम्भेन महाबलौ तत्र ॥ १९० ॥ एवं पुष्पकभूमिकान्तरलस्थायी निगूढो जनो यावद् भ्रामकयन्त्रचक्रनिकरं सम्यक् क्रमाचालयेत् । तावत् ता रथिकासँना मृगदृशस्तत्र स्थिताः पुष्पके कामावासकुतूहलार्पितदृशो भ्राम्यन्ति सर्वा अपि ॥ १९१ ॥ अथ कोणगतान् स्तम्भांश्चतुरो विनिवेशयेद् ऋजून् सुदृढान् । सुश्लिँष्टपीठसंस्थान् समान्तरान् मेदिनीवशतः ॥ १९२ ॥ तेषामुपरि लता(तला)न्तरसंयुक्ता भूमिका विधातव्या । रथिकास्तत्र चतस्रो जायन्ते पूर्ववँदू दिक्स्थाः ॥ १९३ ॥ तदुपरि तथार्धभूमिः कार्या सुश्लिष्टदारुसन्धाना । मध्यभ्रमरकयुक्ता सरूपका मत्तवारणयुता च ॥ १९४ ॥ १ द. ॰वस्ताप्रमिं ; ख. ॰वस्ताप्रभिं । २ ग. ॰मयं च । ३ द. ख. ॰कासमा . . राडिशस्तत्र । ४ द. ख. ॰म्लक्ष्ण॰; क. ॰श्लक्ष्ण॰ । ५ द. ख. ॰न्तरो॰ । ६ द. ख. ॰ता । ७ द. ख. ग, वद्दिक्संस्था ।; क. पूर्वयुक्ताभिः ।

यन्त्रविधानं नामैकोनत्रिंशोऽध्यायः । १९३ †नानाविधकर्मवती वसन्ततो बाह्यरेखा स्यात् । अन्योन्ययन्त्रपरिघट्टनदोल्यमान- निःशेषचक्ररथिकाभ्रमणाभिरामम् । दृष्ट्वा वसन्ततिलकं सुरमन्दिराणां भूषायमाणमुपयाति न विस्मयत्वं(यं कः)॥ १९५ ॥ प्रविधाय रङ्गभूमिं प्रथमां शास्त्रान्तराध्रस्यार्थे(?) । चतुरश्रा रूपवती सचतुर्भद्रा विधेया भूः ॥ १९६ ॥ प्रतिकोणमागत(ता)स्या भद्रेषु भवन्ति संयता भ्रमराः । अत उपरिष्टाद् भूम्या भ्रमराश्चाष्टासनाः कार्याः ॥ १९७ ॥ रेखाः शुद्धाः कार्या बहिरन्तश्चित्रिताश्चान्याः । पीठेषु मध्यग(सं)स्थास्ततोऽपरा भूमिकाः कार्याः ॥ १९८ ॥ पीठस्य मध्यसंस्थैरन्योन्यारालियोजितैश्चक्रैः । सर्वे वेगाद् भ्राम्यन्ति सान्तनाँ(रा) विभ्रमे भ्रमराः ॥ १९९ ॥ दोलासनो विहितैवारवधूंकृ(भू)ताति- चित्रेण यन्त्रिदशधामसु विभ्रमेण । पृथ्वीपतिमुदमुपैति समुल्लसन्ती कीर्त्तिर्न माति भुवनत्रितयेऽपि तस्य ॥ २०० ॥ चतुरश्रमथ क्षेत्रं कृत्वांशैर्भाजितं ततोऽष्टाभिः । कौणैः शेषैस्तस्मिंश्चतुरश्रं कल्पयेद् भद्रम् ॥ २०१ ॥ तद्द्विगुणमूर्ध्वमेतस्य भूमिकाभागसङ्ख्यया कार्यम् । तत्राद्यंशचतुष्केण भूमिका स्यात् समुच्छ्रयतः ॥ २०२ ॥ तत्राष्टषट्चतुर्भागवर्जिता भूमिका उपर्युपरि । क्रमशॊ भवन्त्यथैवं ताः स्युस्तिस्रोऽर्धसंयुक्ताः ॥ २०३ ॥


† इह किञ्चिदधं मातृकासु गलितमिव भाति । १ द. ख. ॰खा वा स्यां । २ क. रिम्य भूँ । ३ द. ख. सातनावितमे भ्रं । ४ ग. ॰नाविवमे भ्रं । ५ द. ख. ॰हूँ । ६ क. धू+तानि चि । ७ द. ख. क्षोँ । वा. २५

१९४ समराङ्गणसूत्रधारे शेषांशोच्छ्रययुक्ता घण्टा चतुरश्रकायता कार्या । त्रिचतुर्भूग्यौ कार्ये षट्‌चतुर्भागविस्तारे ॥ २०४ ॥ रङ्गः स्यादाद्यभुवि द्वितीयभुवि कोणगास्तथा रथिकाः । स्युर्भद्राकृतियुक्ता दोला अपि तत्र रमणीयाः ॥ २०५ ॥ रथिकास्तृतीयभूमौ कार्या भद्रेषु चातिरमणीयाः । कोणेष्वथासनान्यर्थवास्तुकेऽपि भ्रमः कार्यः ॥ २०६ ॥ दोलारथिके चतुरासने भ्रमोऽष्टासनो भवेत् तत्र । आसनमिह तत् कथितं युवतेः स्थानं यदेकं स्यात् ॥ २०७ ॥ निखिलान्यपि भ्रमणसंमुखं तानि बिभ्रति भ्रमणम् ( ? ) । यत्रासनानि स इह भ्रम इत्युक्तोऽपराथिका (?) ॥ २०८ ॥ यष्टेरूर्ध्वमधस्ताद् भ्रमस्य चक्रं (नि) योजयेदेकम् । लघुचक्राणि च तद्वन्नियोज१दासनेष्वत्र ॥ २०९ ॥ लघुचक्राकारवृत्ते संलग्नाः कीलका दृढाः कार्याः । तुल्यान्तराः समस्ताः प्रलघु(क)चक्राकारवृन्तर्गताः ॥ २१० ॥ रथिकाशिखाग्रचक्रं भ्रमचक्राकार(वि?) नियोजितं कार्यम् । यष्टिचतुष्टयमस्मिंस्तिर्यक् चक्रद्वयोपेतम् ॥ २११ ॥ ऊर्ध्वं द्वितीयभूमेस्तृतीयभूमेरथान्तरे कुर्यात् । नियतं रथिकायष्टिभ्रैम३संलग्नानि यन्त्राणि ॥ २१२ ॥ आसनाधारयष्टीनां रथिकाचक्रयोजितान् । अधः समान्तरान् कुर्याच्चतुरः परिवर्तकान् ॥ २१३ ॥ त(दू)दू द्वितीयभूमीदोलागर्भे समान्तरे यष्टी । लग्ने तथैकचक्रे याम्योत्तरचक्रयोर्न्यस्येत् ॥ २१४ ॥ तद्बदधो भूकोणगरथिकाचू४डाग्रचक्रसंसक्ताः । यष्टीस्ततश्चतस्रो द्विचक्रकां५ इतरच६क्रयोर्न्यस्येत्७ ॥ २१५ ॥ १ ग. °यु° । २ द. ख. चक्रभ्रमरचक्राकार विनि° । ३ ग. °क्रम° । ४ द. ख. ग. °म° । ५ ग. °ला°; द. ख. °लायचक्रं । ६ द. ख. °कः । ७ द. ख. °श्च° ।

प्रान्तचक्रद्वये कोणरथिकाचक्रयोजिता । दोलागर्भंगता यष्टिस्तिर्यक् कार्यापरापरा ॥ २१६ ॥ पूर्वे भद्रे द्वारं कुर्यात् सोपानराजितमधस्तात् । गर्भात् पश्चिमभागे निवेशयेद् देवतादोलाम् ॥ २१७ ॥ अन्योन्यं चक्रभ्रममिच्छामुक्तिं विधानतः सम्यक् । ज्ञात्वा प्रयोजनीयं शीघ्रवहं मन्दवहनं वा ॥ २१८ ॥ एष समासेन यथा भ्रममार्गः कीर्तितः स्फुटोऽस्माभिः । अन्येष्वपि कर्तव्यः सम्यग् भ्रमहेतवे तद्वत् ॥ २१९ ॥ स्तम्भादिद्रव्याणां विन्यासैः कल्पितं दृढैः श्लक्ष्णैः । सुश्लिष्टसन्धिबन्धं धृतं तथा दीर्घमुरुयधरैः ॥ २२० ॥ परिवारितमथ तिलकैः समन्ततः सिंहकर्णसंयुक्तम् । त्रिपुरं सम्यक् कुर्याद् विचित्ररूपं (ख)कैश्चित्रैः ॥ २२१ ॥ बुद्ध्या क्लृप्तैः पूर्वयन्त्रैश्च युक्तं यन्त्राध्यायं वेत्ति यः सम्यगेतम् । प्राप्नोत्यर्थान् वाञ्छितान् कीर्तियुक्तान् स क्ष्मापालैरन्वहं पूज्यते च ॥ एतद् द्वादशराजचक्रमखिलं क्ष्मापालचूडामणे- र्दोःस्तम्भप्रतिबद्धवृत्ति परितो यस्येच्छया भ्राम्यति । स श्रीमान् भुवनैकरामनृपतिर्देवो व्यधत्त द्रुतं यन्त्राध्यायमिमं स्वबुद्धिरचितैर्यन्त्रप्रपञ्चैः सह ॥ २२३ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे यन्त्राविधानं नामैकात्रिंशोऽध्यायः ॥

अथ गजशाला नाम द्वात्रिंशोऽध्यायः । लक्षणं गजशालानामिदानीमभिदध्महे । चतुरश्रीकृते क्षेत्रे भागैर्भक्ते ततोऽष्टभिः ॥ १ ॥


१ द. ख. ॰त्रं चित्ररूपकैश्चित्वैः । २ द. ख. ॰दिवा । ३ द. ख. ॰न्त्रै; क. न्त्रैः ।

१९६ समराङ्गणसूत्रधारे मध्ये द्विभागविस्तारं स्थानं कुर्वीत हस्तिनः । कल्प्याः प्रासादवद् भागा ज्येष्ठमध्याधमाः क्रमात् ॥ २ ॥ तद्बहिर्भागिकोऽलिन्दो बहिस्तस्यापि चापरः । भागेनैकेन भित्तिः स्याद् द्वितीयालिन्दकाद् बहिः ॥ ३ ॥ तस्या द्वारप्रदेशे तु¹ कर्तव्यौ कूर्परावुभौ । कर्णप्रासादिका कार्या द्वितीयालिन्दसंश्रिता ॥ ४ ॥ द्वे द्वे वातायने कुर्याद् भित्तौ दिक्षु तिसृष्वपि । †प्राग्ग्रीवोऽग्रे भवेच्छाला सुभद्रेयमुदाहृता ॥ ५ ॥ अस्या एव यदा पक्षे प्राग्ग्रीवौ भवतो² मुखे । नन्दिनी नामतः शाला तदा स्याद् गजवृद्धये ॥ ६ ॥ अस्या एव यदा स्यातां प्राग्ग्रीवौ पार्श्वयोर्द्वयोः तदा सुभोगदा नाम तृतीया परिकीर्तिता ॥ ७ ॥ अस्या एव यदा पृष्ठे प्राग्ग्रीवः क्रियतेऽपरः । भद्रिका नाम शाला स्यात् तदा द्विरदपुष्टिदा ॥ ८ ॥ पञ्चमी चतुरश्रा स्याद् वर्षणी नाम पूजिता । प्राग्ग्रीवालिन्दनिर्यूहहीना षष्ठी तथापरा ॥ ९ ॥ शाला प्रमारिका धान्यधनजीवितहारिणी । तदेतां वर्जयेत् कुर्यादन्याः सर्वार्थसिद्धये ॥ १० ॥ प्रमारिकेति प्रथिते³ह शाला सा प्राणसस्यद्रविणच्छिदे स्यात् । कुर्यादतस्तां न यथोदितास्तु कार्याः परा जीवितवित्तवृद्ध्यै ॥ ११ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे गजशाला नाम द्वात्रिंशोऽध्यायः । † इह सर्वत्र ‘प्रग्रीव’ इति पाठ्यं भाति । १ क. पु । २ क. क्षः । ३ द. ख. ॰ते ।

अश्वशाला नाम त्रयस्त्रिंशोऽध्यायः । १२७ अथाश्वशाला नाम त्रयस्त्रिंशोऽध्यायः । अथ लक्ष्माश्वशालायाः प्रोच्यते विस्तरादिह । स्ववेश्मवास्तोः कर्तव्यं पदे गन्धर्वसंज्ञके ॥ १ ॥ अथवा पुष्पदन्ताख्ये स्थानं वासाय वाजिनाम् । अरत्निशतमात्रं यज्ज्येष्ठं तत् परिकीर्तितम् ॥ २ ॥ अशीत्यरत्नकं मध्यं षष्ठ्यरत्न्यधमं भवेत् । स्थलप्रदेशे विपुले गुप्ते रम्ये शुचौ तथा ॥ ३ ॥ समे च चतुरश्रे च स्थिते(रे) मङ्गल्यमेव च । स्थानं हयानां कर्तव्यं प्रदेशे सुँपरिक्रमे ॥ ४ ॥ निम्नगुल्मद्रुमस्थाणुचैत्यायतनवेश्मभिः । वल्मीकशर्कराभिश्च वर्जिते तत् समाचरेत् ॥ ५ ॥ निःसङ्गे शल्यहीने च प्रागुदक्प्रवणे तथा । प्रदेशे तद् विधातव्यमालोक्य सुसमाहितैः ॥ ६ ॥ ब्राह्मणानुमते शस्ते दिने स्थपतिभिः सह । भूमेर्विभागमालोक्य सुँभगानानयेद् द्रुमान् ॥ ७ ॥ न जाता ये श्मशानेषु देवतायनेषु वा । अन्येष्वपि निषिद्धेषु जातान् वृक्षान् विवर्जयेत् ॥ ८ ॥ वृक्षान् प्रशस्तानानीय समीपे भर्तृवेश्मनः । ततो भूमिं परीक्षेत प्रशस्तामथ निन्दिताम् ॥ ९ ॥ चितायतनवल्मीकग्रामधान्यैखलेषु च । विहारेषु च कर्तव्यमश्वानां न निवेशनम् ॥ १० ॥ भवन्ति स्वामिनः पीडा ग्रामधान्यैखलेषु च । श्मशाने वेश्मकरणाँन्नराणां मृत्युमादिशेत् ॥ ११ ॥ १ द. ख. पठे । २ द. ख. ॰ज्ञि॰ । ३ द. षष्ठ्यारत्नाध॰ । ४ द. ख. स्व॰ । ५ द. ख. भिन्नकत्द्रु॰ । ६ क. स्त । ७ द. स्तुभागानामये दु॰; ख. स्तुभागानामयेन् द्रु॰; क. शुभानानीय सद्रु॰ । ८ द. स्तां चाथ; ख. स्तां वाथ । ९ द. ख. ॰नाख॰ । १० द. ख. ॰ने खले तथा; क. ॰नं॰ । ११ क. ॰णात् तुरगाणां ।

१९८ समराङ्गणसूत्रधारे स्थानं विह्वारवल्मीकविहितं स्यादनर्थकम् । तन्नित्यसन्तापकरं क्षयकृच्च तपस्विनाम् ॥ १२ ॥ देवोपघातजननं स्त्रीणां च क्षयकारकम् । विहितं पादपैश्चैत्यैर्गृहं स्याद् भूतभीतिदम् ॥ १३ ॥ भवेद् रोगकरं भर्तुर्विहितं कण्टकिद्रुमैः । दीर्णायामुन्नतायां³ च कृतं भूमौ क्षयावहम् ॥ १४ ॥ नतायां क्षुद्भयकरं कृतं भवति मँन्दिरम् । तस्मात् कार्यं प्रशस्तायां भूमौ तद् वाजिवृद्धये ॥ १५ ॥ मङ्गल्यरमणीये च चतुरश्रे मनोज्ञगे । शुभे च विहितं सद्म भवेत् कल्याणकारकम् ॥ १६ ॥ निर्गच्छतो यथा वामे पार्श्वे भर्तुस्तुरङ्गमाः । भवन्ति कुर्यात् स्थपनिस्तथा वाजिनिवेशनम् ॥ १७ ॥ अन्तःपुरप्रदेशस्य कार्यं दक्षिणतश्च तत् । प्रवेशे दक्षिणं तेषां हेषितं जायते यथा ॥ १८ ॥ तथा भर्तुर्हितार्थाय कर्तव्यं सद्म वाजिनाम् । प्रागुदग् वा मुखं तस्य विधातव्यं सतोरणम् ॥ १९ ॥ प्राग्ग्रीवकेण संयुक्तं चतुःशालमसङ्कटम् । दशारत्निसमुच्छ्रायमंष्टारत्निप्रविस्तृतम् ॥ २० ॥ नागदन्तकसंशोभि पुरः कुड्यार्धसंयुतम् । पृष्ठे समग्रकुड्यं वा तत्र स्थानानि कल्पयेत् ॥ २१ ॥ तानि तु प्राङ्मुखानि स्युस्तथैवोदङ्मुखानि चै । आयामे किष्कुमात्राणि त्रिकिष्कूणि च विस्तरात् ॥ २२ ॥ प्रांशुन्नतोर्ध्वभागानि चतुरश्राणि कारयेत् । अग्रोच्चां सुखसञ्चारां तेषु भूमिं प्रकल्पयेत् ॥ २३ ॥ १ द. ख. शत्रुविं । २ द. ख. क. ष्ट्रकं । ३ द. ख. ॰तानां । ४ द. ख. ॰ति विमं । ५ द. ख. ॰इमं । ६ द. ख. अतः । ७ क. ॰वै । ८ द. ख. ॰दे । ९ क. सुं । १० द. ख. ॰मष्टौदश च विं । ११ द. ख. प्राङ्मुखानि च ।

अश्वशाला नाम त्रयस्त्रिंशोऽध्यायः । १९९ स्थानं मूत्रस्य मध्ये तु हस्तमात्रं समन्ततः । आस्तीर्णं च समश्लक्ष्णनीरन्ध्रैः १ फलकैर्दृढैः ॥ २४ ॥ धातक्यर्जुनपुन्नागककुभादिविनिर्मितैः । अष्टाङ्गुलसमुच्छ्रायैरध्यर्धारत्निविस्तृतैः २ ॥ २५ ॥ अच्छिद्रैः ३ संहनैर्बद्धैरयसा पार्श्वयोर्द्वयोः । अजन्तुसङ्कुलैः काष्ठै रुचकाभि(?)र्भिषङ्मनैः ॥ २६ ॥ यवसस्य ४ भवेत् ५ स्थानं निर्यूहैः ६ स्वास्तृतं शुभैः ७ । किष्कुत्रयोच्छ्रितं तत् स्यादेकान्ते सुसमाहितम् ॥ २७ ॥ हस्तद्वयप्रमाणं च कुर्यात् खादनकोष्ठकम् । सूपलिप्तमदुर्गन्धि विस्तारोच्छ्राययोः समम् ॥ २८ ॥ स्थाने स्थाने त्रयः ८ कीलाः सुदृढाः कपिशीर्षकाः । पश्चाङ्गिनिग्रहार्थं तौ पुरतः ९ कल्पयेदुभौ ॥ २९ ॥ पश्चाद् बन्धार्थमेकं च सुगुप्तं परिकल्पयेत् । चतुर्हस्तायतं त्यक्त्वा शालाकोणचतुष्टयम् ॥ ३० ॥ स्थानेष्वेतेषु तुरगान् सर्वेष्वपि निवेशयेत् । तत्र कुर्याद् बलिं होमं स्वस्तिवाचनकं जपम् ॥ ३१ ॥ ग्रीष्मे कार्यं सुसंमृष्टं सिक्तं तत्र महीतलम् । वर्षास्वनम्बुपङ्कं च शिशिरे संवृतं शुभम् ॥ ३२ ॥ तिष्ठेयुस्तत्र तुरगा नानिसङ्कीर्णशङ्किनः । अस्पृशन्तो मिथः कार्याः सर्वबाधाविवर्जिताः ॥ ३३ ॥ स्थानं दक्षिणपूर्वस्यां दिशि वह्नेः प्रकल्पयेत् । निदध्यादुदकुम्भं च किंचिदैन्द्रीसमाश्रितम् ॥ ३४ ॥ १ द. ख. ॰रन्ध्रैः । २ द. ख. ॰विस्तरैः । ३ द. ख. सहितै॰ । ४ क. ॰जं॰ । ५ द. ख. ॰र्नि॰ । ६ द. ख. यवस्य । ७ द. ख. भर्तु । ८ द. ख. ॰हे । ९ द. ख. ॰चिः । १० द. ख. ॰र्यात् वा॰; क. ॰र्याच्छा॰ । ११ द. ख. थ्रं॰ । १२ द. ख. युवतः ।

२०० समराङ्गणसूत्रधारे ब्राह्म्यां दिशि प्रकर्तव्यं¹ स्थानकं यवसस्य च । वायव्यां तु प्रकर्तव्यं² स्थानमौदूखलं दिशि ॥ ३५ ॥ निःश्रेणयः कुशाः कूपाः कार्याश्च फलकावृताः । कुद्दालोद्दालगुडकाः शुक्तयोगाः³ खुरैस्तथा⁴ ॥ ३६ ॥ कचग्रहण्यः शृङ्गं च तथा परशवोऽपि च । नार्याः( ? )⁵ प्रदीपांश्च भवन्त्यश्वागारोपयोगिनः ॥ ३७ ॥ सङ्ग्रहः सुखसञ्चारवस्तूनां नैर्ऋते भवेत् । अग्न्युपद्रवरक्षार्थं⁶ बन्धच्छेदोपयोगिनः ॥ ३८ ॥ पदार्थांन् सन्निधौ कुर्याज्ज्वलद्दीपादिकान् बुधः । भाण्डानि कुर्याच्च पृथग् जन्द्रा(लो)पनयनेच्छया ॥ ३९ ॥ हस्तवासीं शिलां दीपं दवीं फालमुपानहौ । पिटंकानि¹⁰ विचित्राणि वस्तीन् नानाविधानपि ॥ ४० ॥ एवंविधानि चान्यानि संनिदध्यात् प्रयत्नतः । पुरःस्तम्भाश्रितं¹¹ भाण्डं सन्नाहादेर्विधीयते ॥ ४१ ॥ प्राङ्मुखे तुरगं गेहे वारुण्यां स्थापयेद् दिशि । पूर्वामुखे पदे वापि मित्रस्य वरुणस्य च ॥ ४२ ॥ भवन्ति तेन बहवः पुष्टिं च प्राप्नुवन्ति ते । सा हि दिक् पूजनीया च स्तोतव्या¹³ च प्रकीर्तिता¹² ॥ ४३ ॥ होमशान्तिकदानेषु धर्म्या याश्च पराः क्रियाः । तासु प्रशस्यते पूर्वा शक्रेणाधिष्ठिता स्वयम् ॥ ४४ ॥ तस्यामुदेति दिनकृदनुलोमं ततः पुनः । अश्वानां पृष्ठतो याति स प्रतीचीमनुक्रमात् ॥ ४५ ॥ स्नानाधिवासने पूजा माङ्गल्यानि¹⁵ पराणि च । प्राङ्मुखानां तुरङ्गाणां कर्तव्यानि शुभार्थिभिः ॥ ४६ ॥ १ द. ख. विज्ञातव्य । २ द. ख. न कर्तं । ३ क. खं । ४ द. ख. ०सतो० । ५ क. ०द्याप्र० । ६ क. ०व० । ७ द. ख. ०क्षार्था रंध० । ८ द. ख. क. ०ज्ज्व० । ९ द. ख. ०ग्लेन्द्रा- यन० । १० क. वि० । ११ द. ख. व्यास्तत्प्र० । १२ द. ख. क. ०ताः । १३ क. षु । १४ द. ख. ०नं० । १५ द. ख. ०न्य० ।

अश्वशाला नाम त्रयस्त्रिंशोऽध्यायः । २०१ एवं कृते भूमिबलमित्राणां यशसोऽपि च । वृद्धिर्भवति भूपस्य तस्मात्¹ प्राची प्रशस्यते ॥ ४७ ॥ भर्तृवृद्धिप्रदं स्थानमग्र्यग्रासस्य तद् भवेत् । दक्षिणाभिमुखायां तु शालायां वाञ्छितार्थदम् ॥ ४८ ॥ स्थानं भवति वाहनां पदे² कॢप्तं विभावसोः । वह्निनाध्यासिता सा दिग्³ आत्मा वह्निश्च वाजिनाम् ॥ ४९ ॥ अजरो बहुभोक्ता च तत्र बद्धो भवेद्धयः । उदङ्मुखेऽपि भवने प्राप्नुवन्ति शुभं हयाः ॥ ५० ॥ तथास्थितानामश्वानां दक्षिणेन दिवाकरः । उदेत्यनन्तरं याति तान् ⁴विधाय प्रदक्षिणम् ॥ ५१ ॥ प्रयाति वामँतोऽश्वं च (श्वानां) स्थाप्यास्तेनोत्तरामुखाः । चन्द्रार्कौ प्रतिहर्ष (हेष)न्ते तथा बध्नीत⁶ वाजिनः ॥ ५२ ॥ नृपतिश्च जयं सिद्धिं पुत्रानायुश्च विन्दति । ⁷अरोगाश्च भवन्त्यश्वा वर्धयन्ति च सन्ततिम् ॥ ५३ ॥ दक्षिणाभिमुखान् कुर्यान्न सन्नाह्यान् न चाग्रगान् । पितृकार्यादृतेऽन्यत्र दक्षिणा वर्जितैव दिक् ॥ ५४ ॥ अस्यामेव दिशि प्रेता यतः सर्वे प्रतिष्ठिताः । उदेति वामतो याति चास्तं दक्षिणतो रविः ॥ ५५ ॥ सोमश्च पृष्ठे भवति तेनाश्वा दैवपीडिताः । ग्रहैर्विकारैर्विविधैः पीड्यन्तेऽरातिविह्वलाः ॥ ५६ ॥ भयेन व्याधिभिश्चार्ता ग्रासं नेच्छन्ति खादितुम् । पराजयमपुष्टिं च स्वामिनोऽनर्थसङ्गतिम् ॥ ५७ ॥ कुर्वन्त्यतो न बध्नीयात् कथञ्चिद् दक्षिणामुखान् । पश्चिमाभिमुखानां चं⁹ बद्धानां वाजिनां सदा ॥ ५८ ॥ १ द. ख. तस्य । २ क. म्ययोगस्य । ३ द. ख. दिगात्मवह्निस्तु ; क. गर्दीप्तो वह्निस्तु वा । ४ द. ख. निं । ५ द. ख. ॰तोवस्थां । ६ द. ख. बद्धामन । ७ द. आरोगाश्रा ; क. आरोग्याश्च । ८ द. ख. ॰खं । ९ क. ॰प्यं । १० द. ख. तु । वा. २६

२०२ समराङ्गणसूत्रधारे उदेति पृष्ठतो भानुः पुरतोऽस्तं प्रयाति च । न भवेद् विजयस्तेन भर्तुस्तत्पृष्ठवर्तिनः ॥ ५९ ॥ शक्रस्य पृष्ठवर्तित्वात् प्रातिलोम्याच्च भास्वतः । कुप्यन्ति व्याधयस्तेषां तूर्णं देहविनाशनाः ॥ ६० ॥ तैस्ते ध्यायन्ति वेपन्ते जले त्रासं प्रयान्ति च । यवसं नाभिनन्दन्ति क्षमां मुञ्चन्ति सर्वथा ॥ ६१ ॥ दिशांऽभिमुखमाग्रेय्या बध्यन्ते यदि वाजिनः । व्यथन्ते¹ रक्तपित्तोत्थैस्तदा रोगैरनेकधा ॥ ६२ ॥ जायन्ते स्वामिनो बन्धवधहृच्छोषदायिनः । वाजिनां च भवेत् तत्र वह्निदाहकृतं भयम् ॥ ६३ ॥ भर्तुः पराजयो विघ्नैः स्याच्च देहस्य संशयः । नैरृत्याः ककुभो वाहा बध्यन्ते संमुखं यदि ॥ ६४ ॥ तदा न तेऽभिनन्दन्ति खादनं पानभोजने । यथा यथा क्षितिं पादैर्दारयन्ति पुनः पुनः ॥ ६५ ॥ हेषन्ते वीक्ष्य बहुशो मनुष्यान् पक्षिणः पशून् । भ्रमयन्ति च गात्राणि नैरृतीं चाभितः स्थिताः ॥ ६६ ॥ तथा तथैषां कुपिता नाशं कुर्वन्ति राक्षसाः । बध्यन्ते यदि वाज्ञानाद् वायव्याभिमुखं हयाः ॥ ६७ ॥ तदा ते वांतिकै रोगैः पीड्यन्ते प्रतिवासरम् । चलः कायो भवेद् भर्तुः क्लेशश्चाश्वोपजीविनाम् ॥ ६८ ॥ नराणां च भवेन्मृत्युर्दुर्भिक्षप्रभवं भयम् । ऐशान्यभिमुखं बद्धाः प्रणश्यन्ति तुरङ्गमाः ॥ ६९ ॥ सूर्योदयस्याभिमुखं बद्धानां चेदमादिशेत् । निबध्यन्ते यदा वाहा ब्राह्मीं दिशमुपाश्रिताः ॥ ७० ॥ १ द. ख. ताप्यन्ते । २ द. य. °र्क° । ३ द. ख. °घ्नै । ४ द. ख. °नि° । ५ द. ख. °न्तः । ६ द. ख. °तीमभितः ° । ७ द. ख. °चि° ।

अश्वशाला नाम त्रयस्त्रिंशोऽध्यायः । २०१ बध्यन्ते ते ग्रहैर्दिव्यैर्व्याधिभिश्च विचिन्तनाः । कव्यहव्यक्रियास्तत्र भर्तुर्न विजयावहाः ॥ ७१ ॥ द्विजानामुपतापाया जायन्ते तत्र वाजिनः । अनुवंशं च शालायां स्थानमश्वस्य नेष्यते ॥ ७२ ॥ स्वामिनस्तदजीर्णाय स्यान्नाशाय च वाजिनाम् । स्थाने प्रशस्ते तुरगान् सर्वथा वासयेदतः ॥ ७३ ॥ न च धार्याः क्षणमपि रोगिणः कल्यैस्सन्निधौ । कल्यानामपि रोगाः स्युर्यतो रोगिसमाश्रयात् ॥ ७४ ॥ ह्यागारस्य पूर्वेण कार्यं भेषजंमन्दिरम् । तस्यैव वामतः सर्वसंभारान् परिकल्पयेत् ॥ ७५ ॥ वाजिनां भेषजार्थाय भाण्डानि च विनिक्षिपेत् । अगदानोषधीः स्नेहान् वर्तीश्च लवणानि च ॥ ७६ ॥ भेषजागारसविधे कुर्याच्चारिष्टमन्दिरम् । भवनं व्याधितानां च कार्यं वासाय वाजिनाम् ॥ ७७ ॥ सुगुप्तं तच्च कर्तव्यं पूर्वनिर्दिष्टवेश्मवत् । संबद्धं च विधातव्यमेतद् वेश्मचतुष्टयम् ॥ ७८ ॥ सुधाबन्धदृढैः कुड्यैः सप्रांग्रीवोक्ततोरणम् । चत्वार्यपि विशालानि सुगमानि च कारयेत् वेश्मस्वेवंविधेष्वश्वान् स्थापितान् परिपालयेत् ॥ ७९ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे अश्वशाला नाम त्रयस्त्रिंशोऽध्यायः ॥ १ क. ॰नां । २ द. ख. ॰ल्यं । ३ द. ख. ॰ल्यां । ४ द. ख. ग. ॰गे॰ । ५ द. ख. तेयज । ६ द. ख. ॰ग्यान । ७ द. ख. ग. ॰नि । ८ द. ख. ॰ह्रौँ । ९ द. ख. ॰त्तां ।

२०४ समराङ्गणसूत्रधारे अथाप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः । राज्ञां सेनापतीनां च वर्णिनामपि वेश्मसु । यदि वा वास्तुकक्षासु सभादेवकुलेषु च ॥ १ ॥ शयनासनयानेषु भाजनाभरणेषु च । छत्रध्वजपताकासु सर्वोपकरणेषु च ॥ २ ॥ अप्रयोज्यानि यानि स्युः प्रयोक्तव्यानि यानि च । विस्तरात् तानि कथ्यन्ते हितार्थमथ देहिनाम् ॥ ३ ॥ पूर्वोक्तानां नृपादीनां यानि वेश्मसु केवलम् । अप्रयोज्यानि तान्येव पूर्वमत्रामिदध्महे ॥ ४ ॥ तेषु नैवं प्रयोक्तव्याः समस्ता अपि देवताः । दैत्या ग्रहास्तथा तारा यक्षगन्धर्वराक्षसाः ॥ ५ ॥ पिशाचाः पितरः प्रेताः सिद्धविद्याधरोरगाः । चारणा भूतसङ्घाश्च तेषां योषाः सुतास्तथा ॥ ६ ॥ प्रतीहाराः प्रतीहार्यस्तेषामधिकृताश्च ये । आयुधानि तदीयानि सर्वे चाप्सरसां गणाँः ॥ ७ ॥ दीक्षितव्रतिंपाषण्डिनास्तिकाः क्षुत्प्रपीडिताः । व्याधिबन्धनशस्त्राग्नितैलासृक्पङ्कपांसुभिः ॥ ८ ॥ शूलज्वरादिभिश्चार्ता येऽन्येऽप्येवंविधा नराः । मत्तोन्मत्तजडक्लीबनग्नान्धबधिरादयः ॥ ९ ॥ दोलाक्रीडाश्च नेष्यन्ते ग्रहणानि च दन्तिनाम् । देवासुराद्याः सङ्ग्रामा विग्रहाश्च महीक्षिताम् ॥ १० ॥ प्राणियुद्धविमर्दाश्च मृगया च न शस्यते । रौद्रैदीनाद्भुतत्रासबीभत्सकरुणा रसाः ॥ ११ ॥ १ द. ख. ग. बाह्यक° । २ द. ख. तेनैव प्र° । ३ द. ख. गतः । ४ द. ख. क. °व्रतपा° । ५ द. ख. लोद्रा° ।

न प्राणिषु प्रयोक्तव्या हास्यशृङ्गारवर्जिताः । हस्त्यश्वरथयानानि विमानायतनानि च ॥ १२ ॥ चण्डानलप्रदीप्तानि भवनानि वनानि च । वृक्षाः पुष्पफलैर्हीना विहङ्गावासदूषिताः ॥ १३ ॥ एकद्विशाखा रूक्षाश्च भग्नाः शुष्काः सकोटराः । कदम्बशाल्मलीशेलुतारैक्षारलुकादयः(?) ॥ १४ ॥ भूतालयात्वान्नेष्यन्ते² कटुकण्टकिनश्च ये । गृध्रोलूका विहङ्गेषु कपोतश्येनवायसाः ॥ १५ ॥ कङ्क³श्चेति न शस्यन्ते खगा रात्रिचराश्च ये । गजाश्वमहिषाश्चोष्ट्रा मार्जारखरवानराः ॥ १६ ॥ सिंहो व्याघ्रस्तरक्षुश्च वराहमृगजम्बुकाः । तथा वनचरा ये च क्रव्यादा मृगपक्षिणः ॥ १७ ॥ गृहेष्वेते न कर्तव्याः शैलाटव्याश्रिताश्च ये । अमीषां करणाद्धैर्याचार्यो विप्रमुच्यते ॥ १८ ॥ व्याधिं घोरमवाप्नोति व्यसनं बन्धमेव च । यत्र तत्र गृहस्वामी धनहानिं पराजयम् ॥ १९ ॥ प्रवासं बन्धनं नाशं मृत्युं वा क्षिप्रमाप्नुयात् । इत्युक्तान्यप्रशस्तानि गृहेषु गृहमेधिनाम् ॥ २० ॥ तत्र यानि प्रयोज्यानि कथ्यन्ते तान्यतः परम् । यस्य यत्र भवेद् भक्तिर्या चास्य कुलदेवता ॥ २१ ॥ हस्तक्लृप्तप्रमाणेन तान् कुर्वन् स्यान्न दोषभाक् । तद्द्वारपार्श्वयोः कार्यौ प्रतीहारौ स्वलङ्कृतौ ॥ २२ ॥ वेत्रदण्डव्यग्रकरौ खड्गकोशपरिच्छदौ । रूपयौवनसम्पन्नौ विचित्राम्बरभूषणौ ॥ २३ ॥


१ क. ˚रा˚ । २ द. ख. ˚नेध्यंति । ३ क. ˚श्येना न˚ । ४ द. ख. ˚न्थि˚ । ५ द. ख. ग. ˚भवम् । ६ द. ख. ˚मवाप्नु˚ । ७ द. ख. ˚क्तानां˚ ।

२०१ समराङ्गणसूत्रधारे धात्री वामनिका कुब्जा सखीभिः परिवारिता । विदूषकैः कञ्चुकिभिस्तुल्यैरनुगतास्तथा ॥ २४ ॥ द्वारस्योभयतः कार्याः प्रतीहार्यो मनोरमाः । निधयश्चानुरूपाश्च शङ्खाब्जोज्ज्वललक्षणाः ॥ २५ ॥ रत्नदीनारराशींश्च वहन्तो वदनोद्गतान् । पद्मस्था(ः) पूर्णकुम्भा वा रत्नवस्त्रविभूषिता(ः) ॥ २६ ॥ वक्त्रै१रूर्ध्वस्थितैः पुष्पफलपल्लवसम्भृतैः । पूर्णकुम्भाङ्कुशच्छत्रश्रीवृक्षादर्शचामरैः ॥ २७ ॥ कार्याष्टमङ्गला द्वारे२ दोर्भिश्च शङ्खमत्स्ययोः । द्वारमण्डलमध्यस्था स्नाप्यमाना गजोत्तमैः ॥ २८ ॥ पद्मासना पद्महस्तौ श्रीश्च कार्या स्वलङ्कृता । वृषः सवत्सा धेनुर्वा सचछत्रस्रग्विभूषणा ॥ २९ ॥ फलभक्तैर्बहुविधैराहारार्थं निवेदितैः६ । नानापुष्पफलैर्नम्रैः शालैस्तिर्यगवस्थितैः ॥ ३० ॥ चित्रा पत्रलता लेख्या बाह्याभ्यन्तरभित्तिषु । हंसकारण्डचक्राद्वैर्बिसिनीपत्रवर्तिभिः ॥ ३१ ॥ कुमारकैश्च क्रीडद्भियुक्ता ललितबाहुभिः । वासधाम्नि निवेश्यन्ते विचित्राभरणाम्बराः ॥ ३२ ॥ रतिक्रीडापरा नार्यो नायकस्तु यदृच्छया । आपाण्डुदेहच्छवयः स्वल्पचारुविभूषणाः ॥ ३३ ॥ किञ्चित्प्रतनुभिर्गात्रैः कार्याः सुरतलालसाः । प्रवृद्धशाखाविटपैः प्रचलारुणपल्लवैः ॥ ३४ ॥ चम्पकाशोकपुन्नागनाना१०ग्रैस्तिलकादिभिः । छायापुष्पफलोपेतैः वृक्षैरन्यैश्च भूषिताः ॥ ३५ ॥

१ द. ख. वक्त्रैं । २ द. ख. ग. ०द्वारेर्दो० । ३ क. वसुभिः । ४ क. ०स्था० । ५ द. ख. ०सनस्था पद्मस्था० । ६ द. ख. ०तं । ७ द. ख. ०लेतिर्यगवस्थिता । ८ द. ख. पल्लवता । ९ द. ख. ०सकादम्बच० । १० द. ख. ०नागाग्रं ।

अप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः । २०७ उद्यानभूमयः कार्याः कूजत्पिकमधुव्रताः । ऋतवः फलपुष्पाद्यैः स्वैः स्वैश्चिह्नैरलङ्कृताः ॥ ३६ ॥ मनोरमैर्विशेषैश्च खगैश्च समयोचितैः । कादम्बकुररक्रौञ्चहंससारसमेखलाः ॥ ३७ ॥ १तीरान्तोद्गतवानीरकेतकीषण्डमण्डिताः । जलान्तलीनमत्स्यैश्च सञ्छन्ना नलिनीवनैः ॥ ३८ ॥ लेख्याश्च गृहभित्तीनामधोभागेषु दीर्घिकाः । २फलैः समं ३संभक्षेक्षुमणिकाञ्चनभाजनाः ॥ ३९ ॥ विन्यस्तपद्मिनीपत्राः सोत्पलाः पानभूमयः । विचित्रानोद्यहस्ताश्च नृत्यगीतविचक्षणाः ॥ ४० ॥ मुदिता ललना लेख्याः प्रेक्षासङ्गीतभूमिषु । प्रकल्प्याः पञ्जरस्थाश्च चकोरशुकसारिकाः ॥ ४१ ॥ प्रहृष्टाः परपुष्टाश्च मयूराश्च सकुकूँटाः । इति यानि प्रदिष्टानि प्रयोक्तव्यानि वेश्मनि ॥ ४२ ॥ तानि सर्वाणि शस्तानि सर्वोपकरणेष्वपि । देवयोनिगणास्तद्वत् पुरुषाश्च विनिन्दिताः ॥ ४३ ॥ साक्रन्दाश्च न शस्यन्ते पीठशय्यासनादिषु । पुरस्तात् कीर्तितान्यत्र प्रयोक्तव्यानि यानि च ॥ ४४ ॥ तानि शस्तानि कक्षासु सभादेवकुलेषु च । दिव्यमानुषसम्बद्धान्याख्यानाख्यायिकादिषु ॥ ४५ ॥ प्रोक्तानि तानि तावन्ति शुभान्यालेख्यकादिषु । इति कथितमयोज्यं योजनीयं च बुद्ध्या भवनशयनकक्षादेवधिष्ण्यादिकेषु । विरचयति यथोक्तं निन्दितं वर्जयेद् यः १ क. नीं । २ क. तं । ३ ख. ग. सुं । ४ क. ०पुं० । ५ ख. ग. ०र्कु० । ६ द. ख. ग. ०न्धानाख्या० । ७ द. ख. न्धुध्वा ।

२०८ समराङ्गणसूत्रधारे । स भवति नृपतीनां शिल्पिनां चार्चनीयैः ॥ ४६ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे अप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः ॥ अथ शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः । अथ ब्रूमः शिलान्यासविधिमत्र यथागमम् । तत्रोदगयने पुण्ये शुक्लपक्षे शुभेऽहनि ॥ १ ॥ स्थिरग्रहस्य दिवसे करणे च गुणान्विते । तिष्येऽश्विनीषु रोहिण्यामुत्तरेष्वपि च त्रिषु ॥ २ ॥ रेवत्यां श्रवणे हस्ते शिलाविन्यासमाचरेत् । स्थिरस्य राशेरुदये सौम्यमित्रावलोकिते ॥ ३ ॥ सम्यङ्निमित्तशकुनस्वस्तिपुण्याहवाचिते । हर्षोदये च मनसः कुर्याद् वास्तोर्निवेशनम् ॥ ४ ॥ भद्रः प्रकृत्या शास्त्रज्ञः शुचिः स्नातः समाहितः । कर्मारभेत स्थपतिः कृतदेवार्चनक्रियः ॥ ५ ॥ पूर्णां समामविकलां चतुरश्रामनिन्दिताम् । शिलामाद्यां चये साध्वीं परीक्षेत विचक्षणः ॥ ६ ॥ कुम्भाङ्कुशध्वजच्छत्रमत्स्यचामरतोरणैः । दूर्वानागफलोष्णीषपुष्पस्वस्तिकवेदिभिः ॥ ७ ॥ नन्द्यावर्तैः सचमरैः कूर्मपद्मनिशाकरैः । वज्रैः प्रशस्तैः प्राकारैर्भूषिताः कर्मणो हिताः ॥ ८ ॥ दीर्घा ह्रस्वाल्पविषमाङ्गाऽभाध्मातापरीक्षिता । दिङ्मूढा चाङ्गहीना च सास्थ्यङ्गारा सशर्करा ॥ ९ ॥ १ द. ख. चार्चनीयाः । २ द. ख. ॰स्रामलंकृताम् । ३ द. ख. ॰क्ष्ये॰ । ४ द. ख. पूर्वभाग॰ । ५ द. ख. ॰द्भि॰ । ६ क. ॰स्थापनाध्मा॰ ; ग. ॰छालाध्मा॰ । ७ द. ख. ग. ॰ताः । ८ क. ॰राः ।