समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 270, कुल 726 में से
संदर्भ में पढ़ेंन प्राणिषु प्रयोक्तव्या हास्यशृङ्गारवर्जिताः । हस्त्यश्वरथयानानि विमानायतनानि च ॥ १२ ॥ चण्डानलप्रदीप्तानि भवनानि वनानि च । वृक्षाः पुष्पफलैर्हीना विहङ्गावासदूषिताः ॥ १३ ॥ एकद्विशाखा रूक्षाश्च भग्नाः शुष्काः सकोटराः । कदम्बशाल्मलीशेलुतारैक्षारलुकादयः(?) ॥ १४ ॥ भूतालयात्वान्नेष्यन्ते² कटुकण्टकिनश्च ये । गृध्रोलूका विहङ्गेषु कपोतश्येनवायसाः ॥ १५ ॥ कङ्क³श्चेति न शस्यन्ते खगा रात्रिचराश्च ये । गजाश्वमहिषाश्चोष्ट्रा मार्जारखरवानराः ॥ १६ ॥ सिंहो व्याघ्रस्तरक्षुश्च वराहमृगजम्बुकाः । तथा वनचरा ये च क्रव्यादा मृगपक्षिणः ॥ १७ ॥ गृहेष्वेते न कर्तव्याः शैलाटव्याश्रिताश्च ये । अमीषां करणाद्धैर्याचार्यो विप्रमुच्यते ॥ १८ ॥ व्याधिं घोरमवाप्नोति व्यसनं बन्धमेव च । यत्र तत्र गृहस्वामी धनहानिं पराजयम् ॥ १९ ॥ प्रवासं बन्धनं नाशं मृत्युं वा क्षिप्रमाप्नुयात् । इत्युक्तान्यप्रशस्तानि गृहेषु गृहमेधिनाम् ॥ २० ॥ तत्र यानि प्रयोज्यानि कथ्यन्ते तान्यतः परम् । यस्य यत्र भवेद् भक्तिर्या चास्य कुलदेवता ॥ २१ ॥ हस्तक्लृप्तप्रमाणेन तान् कुर्वन् स्यान्न दोषभाक् । तद्द्वारपार्श्वयोः कार्यौ प्रतीहारौ स्वलङ्कृतौ ॥ २२ ॥ वेत्रदण्डव्यग्रकरौ खड्गकोशपरिच्छदौ । रूपयौवनसम्पन्नौ विचित्राम्बरभूषणौ ॥ २३ ॥
१ क. ˚रा˚ । २ द. ख. ˚नेध्यंति । ३ क. ˚श्येना न˚ । ४ द. ख. ˚न्थि˚ । ५ द. ख. ग. ˚भवम् । ६ द. ख. ˚मवाप्नु˚ । ७ द. ख. ˚क्तानां˚ ।