भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 271, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 271

२०१ समराङ्गणसूत्रधारे धात्री वामनिका कुब्जा सखीभिः परिवारिता । विदूषकैः कञ्चुकिभिस्तुल्यैरनुगतास्तथा ॥ २४ ॥ द्वारस्योभयतः कार्याः प्रतीहार्यो मनोरमाः । निधयश्चानुरूपाश्च शङ्खाब्जोज्ज्वललक्षणाः ॥ २५ ॥ रत्नदीनारराशींश्च वहन्तो वदनोद्गतान् । पद्मस्था(ः) पूर्णकुम्भा वा रत्नवस्त्रविभूषिता(ः) ॥ २६ ॥ वक्त्रै१रूर्ध्वस्थितैः पुष्पफलपल्लवसम्भृतैः । पूर्णकुम्भाङ्कुशच्छत्रश्रीवृक्षादर्शचामरैः ॥ २७ ॥ कार्याष्टमङ्गला द्वारे२ दोर्भिश्च शङ्खमत्स्ययोः । द्वारमण्डलमध्यस्था स्नाप्यमाना गजोत्तमैः ॥ २८ ॥ पद्मासना पद्महस्तौ श्रीश्च कार्या स्वलङ्कृता । वृषः सवत्सा धेनुर्वा सचछत्रस्रग्विभूषणा ॥ २९ ॥ फलभक्तैर्बहुविधैराहारार्थं निवेदितैः६ । नानापुष्पफलैर्नम्रैः शालैस्तिर्यगवस्थितैः ॥ ३० ॥ चित्रा पत्रलता लेख्या बाह्याभ्यन्तरभित्तिषु । हंसकारण्डचक्राद्वैर्बिसिनीपत्रवर्तिभिः ॥ ३१ ॥ कुमारकैश्च क्रीडद्भियुक्ता ललितबाहुभिः । वासधाम्नि निवेश्यन्ते विचित्राभरणाम्बराः ॥ ३२ ॥ रतिक्रीडापरा नार्यो नायकस्तु यदृच्छया । आपाण्डुदेहच्छवयः स्वल्पचारुविभूषणाः ॥ ३३ ॥ किञ्चित्प्रतनुभिर्गात्रैः कार्याः सुरतलालसाः । प्रवृद्धशाखाविटपैः प्रचलारुणपल्लवैः ॥ ३४ ॥ चम्पकाशोकपुन्नागनाना१०ग्रैस्तिलकादिभिः । छायापुष्पफलोपेतैः वृक्षैरन्यैश्च भूषिताः ॥ ३५ ॥

१ द. ख. वक्त्रैं । २ द. ख. ग. ०द्वारेर्दो० । ३ क. वसुभिः । ४ क. ०स्था० । ५ द. ख. ०सनस्था पद्मस्था० । ६ द. ख. ०तं । ७ द. ख. ०लेतिर्यगवस्थिता । ८ द. ख. पल्लवता । ९ द. ख. ०सकादम्बच० । १० द. ख. ०नागाग्रं ।

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र) · पृष्ठ 271, कुल 726 में से · BharatKosha