समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 272, कुल 726 में से
संदर्भ में पढ़ेंअप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः । २०७ उद्यानभूमयः कार्याः कूजत्पिकमधुव्रताः । ऋतवः फलपुष्पाद्यैः स्वैः स्वैश्चिह्नैरलङ्कृताः ॥ ३६ ॥ मनोरमैर्विशेषैश्च खगैश्च समयोचितैः । कादम्बकुररक्रौञ्चहंससारसमेखलाः ॥ ३७ ॥ १तीरान्तोद्गतवानीरकेतकीषण्डमण्डिताः । जलान्तलीनमत्स्यैश्च सञ्छन्ना नलिनीवनैः ॥ ३८ ॥ लेख्याश्च गृहभित्तीनामधोभागेषु दीर्घिकाः । २फलैः समं ३संभक्षेक्षुमणिकाञ्चनभाजनाः ॥ ३९ ॥ विन्यस्तपद्मिनीपत्राः सोत्पलाः पानभूमयः । विचित्रानोद्यहस्ताश्च नृत्यगीतविचक्षणाः ॥ ४० ॥ मुदिता ललना लेख्याः प्रेक्षासङ्गीतभूमिषु । प्रकल्प्याः पञ्जरस्थाश्च चकोरशुकसारिकाः ॥ ४१ ॥ प्रहृष्टाः परपुष्टाश्च मयूराश्च सकुकूँटाः । इति यानि प्रदिष्टानि प्रयोक्तव्यानि वेश्मनि ॥ ४२ ॥ तानि सर्वाणि शस्तानि सर्वोपकरणेष्वपि । देवयोनिगणास्तद्वत् पुरुषाश्च विनिन्दिताः ॥ ४३ ॥ साक्रन्दाश्च न शस्यन्ते पीठशय्यासनादिषु । पुरस्तात् कीर्तितान्यत्र प्रयोक्तव्यानि यानि च ॥ ४४ ॥ तानि शस्तानि कक्षासु सभादेवकुलेषु च । दिव्यमानुषसम्बद्धान्याख्यानाख्यायिकादिषु ॥ ४५ ॥ प्रोक्तानि तानि तावन्ति शुभान्यालेख्यकादिषु । इति कथितमयोज्यं योजनीयं च बुद्ध्या भवनशयनकक्षादेवधिष्ण्यादिकेषु । विरचयति यथोक्तं निन्दितं वर्जयेद् यः १ क. नीं । २ क. तं । ३ ख. ग. सुं । ४ क. ०पुं० । ५ ख. ग. ०र्कु० । ६ द. ख. ग. ०न्धानाख्या० । ७ द. ख. न्धुध्वा ।