समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 273, कुल 726 में से
संदर्भ में पढ़ें२०८ समराङ्गणसूत्रधारे । स भवति नृपतीनां शिल्पिनां चार्चनीयैः ॥ ४६ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे अप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः ॥ अथ शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः । अथ ब्रूमः शिलान्यासविधिमत्र यथागमम् । तत्रोदगयने पुण्ये शुक्लपक्षे शुभेऽहनि ॥ १ ॥ स्थिरग्रहस्य दिवसे करणे च गुणान्विते । तिष्येऽश्विनीषु रोहिण्यामुत्तरेष्वपि च त्रिषु ॥ २ ॥ रेवत्यां श्रवणे हस्ते शिलाविन्यासमाचरेत् । स्थिरस्य राशेरुदये सौम्यमित्रावलोकिते ॥ ३ ॥ सम्यङ्निमित्तशकुनस्वस्तिपुण्याहवाचिते । हर्षोदये च मनसः कुर्याद् वास्तोर्निवेशनम् ॥ ४ ॥ भद्रः प्रकृत्या शास्त्रज्ञः शुचिः स्नातः समाहितः । कर्मारभेत स्थपतिः कृतदेवार्चनक्रियः ॥ ५ ॥ पूर्णां समामविकलां चतुरश्रामनिन्दिताम् । शिलामाद्यां चये साध्वीं परीक्षेत विचक्षणः ॥ ६ ॥ कुम्भाङ्कुशध्वजच्छत्रमत्स्यचामरतोरणैः । दूर्वानागफलोष्णीषपुष्पस्वस्तिकवेदिभिः ॥ ७ ॥ नन्द्यावर्तैः सचमरैः कूर्मपद्मनिशाकरैः । वज्रैः प्रशस्तैः प्राकारैर्भूषिताः कर्मणो हिताः ॥ ८ ॥ दीर्घा ह्रस्वाल्पविषमाङ्गाऽभाध्मातापरीक्षिता । दिङ्मूढा चाङ्गहीना च सास्थ्यङ्गारा सशर्करा ॥ ९ ॥ १ द. ख. चार्चनीयाः । २ द. ख. ॰स्रामलंकृताम् । ३ द. ख. ॰क्ष्ये॰ । ४ द. ख. पूर्वभाग॰ । ५ द. ख. ॰द्भि॰ । ६ क. ॰स्थापनाध्मा॰ ; ग. ॰छालाध्मा॰ । ७ द. ख. ग. ॰ताः । ८ क. ॰राः ।