समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 274, कुल 726 में से
संदर्भ में पढ़ेंशिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः । २०९ खण्डा दुःपंकनिर्भिन्ना कृष्णा दोषभयावहा॑ । नृणां पशुतुरङ्गाणां पदाङ्काः स्वस्तिवृद्धये ॥ १० ॥ क्रव्यान्मृगविहङ्गानां पादैः स्पृष्टास्तु वर्जयेत् । नन्दाभद्राजयापूर्णाश्चतस्रः स्युरिमाः शिलाः ॥ ११ ॥ वासिष्ठी काश्यपी तद्वद् भार्गव्याङ्गिरसीति ताः । तन्न प्रागुत्तरे देशे संनिवेशस्य वास्तुनः ॥ १२ ॥ नैर्ऋत्यां वा सकुसुमां समां गोचर्मसम्मितम् । वेदीं सगन्धकलशां चतुरश्रां प्रकल्पयेत् ॥ १३ ॥ आग्नेयामादितो नन्दां स्थापयेत् क्रमशः शिलाम् । अकालमूलैर्व्यङ्गैः सपद्मोत्पलपल्लवैः ॥ १४ ॥ सर्वोषधिहिरण्याद्यैर्हैमराजतमृन्मयैः । कुम्भैस्ताम्रमयैश्चापि मन्त्रैस्तामभिषेचयेत् ॥ १५ ॥ तीर्थप्रस्रवणाम्भोभिः सरत्नाक्षतपङ्कजैः । सुगन्धिभिः सैपुण्याहमभिषेकं प्रयोजयेत् ॥ १६ ॥ जाह्नवीयमुनारेवासरस्वत्यादिसम्भवैः(वम्) । महानदीजलं शस्तं शुभतीर्थभवं तथा ॥ १७ ॥ तथाद्रिवनवेशन्तदेवायतनजानि च । अभिषेकार्थमम्भांसि यथालाभमुपाहरेत् ॥ १८ ॥ मन्त्रेणानेन चैतासामभिषेकं समाचरेत् । हिरण्यवर्णाः पावैन्यः शुचयो दुरितच्छिदः ॥ १९ ॥ पुनन्तु शान्ताःश्रीमत्य आपो युष्मान्मधुश्च्युतः । मन्त्रपूतेन पयसा स्नापयित्वा ततः शिलाम् ॥ २० ॥ स्थपतिर्गन्धकल्केन मङ्गल्येनानुलेपयेत् । हिमचन्दनपूर्णेन व्यवकीर्य सुगन्धिना ॥ २१ ॥
१ क. ॰क्षपनि॑॰; ग. ॰पक्षनि॑॰ । २ द. ख. ॰हाः । ३ ग. सु॑॰ । ४ क. ॰वमान्यः॑॰ । ५ ख. ग. ॰चन्द्रेण पू॑॰ । वा. २७