समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 275, कुल 726 में से
संदर्भ में पढ़ेंतरसा छादयेदेनां सलजैः पुष्पदामभिः । धूपमाल्योपहारैश्च दधिमांसाक्षतादिभिः ॥ २२ ॥ पूजयेदिष्टकां देवीं वस्त्रयुग्मैश्च पुष्कलैः । निवेशनान्ते नैर्ऋत्यां तदा विप्रानवस्थितान् ॥ २३ ॥ समसङ्ख्याञ् शुचीन् प्राज्ञानर्चयेद् दक्षिणाफलैः । ओङ्कारस्वस्तिपुण्याहगीतवादित्रनिस्वनैः ॥ २४ ॥ कर्ता जनितरोमाञ्चस्तेभ्यः कुर्यान्नमस्क्रियाम् । निवेद्य वास्तोष्पतये भूतेभ्यश्च ततो बलिम् ॥ २५ ॥ तासां चतसृणामन्याः कुर्यादुपशिलाः पृथक् । प्राकारैः¹ स्वस्तिकाङ्के द्वे तथा² श्रीवत्सलक्षणा³ ॥ २६ ॥ नन्द्यावर्तस्तु पूर्णायां भवेदेको (दङ्को) यथाक्रमम् । कर्णे प्राग्दक्षिणे नन्दां वास्तुनः स्थापयेदधः⁴ ॥ २७ ॥ अन्याः क्रमेण भद्राद्याः कोणेष्वन्येषु च त्रिषु । प्रतिष्ठापनमन्त्राश्च तासां चतसृणामपि ॥ २८ ॥ चत्वार ऋषिभिर्गीतः शाश्वतारम्भदर्शनाः । वीर्येणादिवराहस्य वेदायैस्त्वभिमन्त्रिताः (ताम्) ॥ २९ ॥ वसिष्ठनन्दिनीं नन्दां प्राक् प्रतिष्ठापयाम्यहम् । सुमुहूर्ते सुदिवसे सा त्वं नन्दे ! निवेशिता ॥ ३० ॥ आयुः कारयितुर्दीर्घं श्रियं चाव्यामिहावह । भद्रासि सर्वतोभद्रा भद्रे ! भद्रं विधीयताम्⁵ ॥ ३१ ॥ कश्यपस्य⁶ प्रियस्रुते⁷ ! श्रीरस्तु गृहमेधिनः । जये ! विजयतां स्वामी गृहस्यास्य महात्मनः ॥ ३२ ॥ आचन्द्रार्कं यशश्चास्य भूम्यामिह विरोहतु । त्वयि सम्पूर्णचन्द्राभे ! न्यस्तायां⁸ वास्तुनस्तले ॥ ३३ ॥
१ क. 'रं'। २ ग. 'रं च स्वं' । ३ ग. ज्ञेया श्री° । ४ ग. 'थ । ५ द. ख. °ते । ६ द. ख. कां । ७ द. ख. °ते । ८ क. °स्यां ।