समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 257, कुल 726 में से
संदर्भ में पढ़ें१९२ समराङ्गणसूत्रधारे। अत उपरि यथाशोभं हि भूमिका पुष्पकाकृतिः कार्या । मध्यस्तम्भाधारा कृतकलशविभूषणा शिरसि ॥ १८५ ॥ स्तम्भेऽव(ध)स्ताद् भ्रमिं१ भृशं भ्रमत्यर्थभूमिका तत्र । रथिकाभ्रमरकयुक्ता परस्परं चक्रयन्त्रेण ॥ १८६ ॥ वसन्तरथिकाभ्रमे समधिरूढवाराङ्गना- परिश्रमणसम्भृताभ्यधिकविभ्रमं भूपतिः । करोति नयनोत्सवस्त्रि(वं त्रि)दशधात्रि यत्कीर्तनं वसन्तसमये भवत्यमलकीर्त्तिधामैव सः ॥ १८७ ॥ आरोप्य स्थिरमेकं स्तम्भं भूमिगृहादिरहितमँथ । हस्तचतुष्कोच्छ्राया कार्योपरि भूमिका चास्य ॥ १८८ ॥ मध्ये भ्रमरकयुक्तं शेषं पूर्ववदिहाचरेदखिलम् । पुष्पकमपि च स्तम्भे शिथिलं कलशोच्छ्रितं कुर्यात् ॥ १८९ ॥ तस्योपरि च ग्रीवा चतुरासनसंयुता विधातव्या । घण्टास्तम्भौ कार्यौ स्तम्भेन महाबलौ तत्र ॥ १९० ॥ एवं पुष्पकभूमिकान्तरलस्थायी निगूढो जनो यावद् भ्रामकयन्त्रचक्रनिकरं सम्यक् क्रमाचालयेत् । तावत् ता रथिकासँना मृगदृशस्तत्र स्थिताः पुष्पके कामावासकुतूहलार्पितदृशो भ्राम्यन्ति सर्वा अपि ॥ १९१ ॥ अथ कोणगतान् स्तम्भांश्चतुरो विनिवेशयेद् ऋजून् सुदृढान् । सुश्लिँष्टपीठसंस्थान् समान्तरान् मेदिनीवशतः ॥ १९२ ॥ तेषामुपरि लता(तला)न्तरसंयुक्ता भूमिका विधातव्या । रथिकास्तत्र चतस्रो जायन्ते पूर्ववँदू दिक्स्थाः ॥ १९३ ॥ तदुपरि तथार्धभूमिः कार्या सुश्लिष्टदारुसन्धाना । मध्यभ्रमरकयुक्ता सरूपका मत्तवारणयुता च ॥ १९४ ॥ १ द. ॰वस्ताप्रमिं ; ख. ॰वस्ताप्रभिं । २ ग. ॰मयं च । ३ द. ख. ॰कासमा . . राडिशस्तत्र । ४ द. ख. ॰म्लक्ष्ण॰; क. ॰श्लक्ष्ण॰ । ५ द. ख. ॰न्तरो॰ । ६ द. ख. ॰ता । ७ द. ख. ग, वद्दिक्संस्था ।; क. पूर्वयुक्ताभिः ।