समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 258, कुल 726 में से
संदर्भ में पढ़ेंयन्त्रविधानं नामैकोनत्रिंशोऽध्यायः । १९३ †नानाविधकर्मवती वसन्ततो बाह्यरेखा स्यात् । अन्योन्ययन्त्रपरिघट्टनदोल्यमान- निःशेषचक्ररथिकाभ्रमणाभिरामम् । दृष्ट्वा वसन्ततिलकं सुरमन्दिराणां भूषायमाणमुपयाति न विस्मयत्वं(यं कः)॥ १९५ ॥ प्रविधाय रङ्गभूमिं प्रथमां शास्त्रान्तराध्रस्यार्थे(?) । चतुरश्रा रूपवती सचतुर्भद्रा विधेया भूः ॥ १९६ ॥ प्रतिकोणमागत(ता)स्या भद्रेषु भवन्ति संयता भ्रमराः । अत उपरिष्टाद् भूम्या भ्रमराश्चाष्टासनाः कार्याः ॥ १९७ ॥ रेखाः शुद्धाः कार्या बहिरन्तश्चित्रिताश्चान्याः । पीठेषु मध्यग(सं)स्थास्ततोऽपरा भूमिकाः कार्याः ॥ १९८ ॥ पीठस्य मध्यसंस्थैरन्योन्यारालियोजितैश्चक्रैः । सर्वे वेगाद् भ्राम्यन्ति सान्तनाँ(रा) विभ्रमे भ्रमराः ॥ १९९ ॥ दोलासनो विहितैवारवधूंकृ(भू)ताति- चित्रेण यन्त्रिदशधामसु विभ्रमेण । पृथ्वीपतिमुदमुपैति समुल्लसन्ती कीर्त्तिर्न माति भुवनत्रितयेऽपि तस्य ॥ २०० ॥ चतुरश्रमथ क्षेत्रं कृत्वांशैर्भाजितं ततोऽष्टाभिः । कौणैः शेषैस्तस्मिंश्चतुरश्रं कल्पयेद् भद्रम् ॥ २०१ ॥ तद्द्विगुणमूर्ध्वमेतस्य भूमिकाभागसङ्ख्यया कार्यम् । तत्राद्यंशचतुष्केण भूमिका स्यात् समुच्छ्रयतः ॥ २०२ ॥ तत्राष्टषट्चतुर्भागवर्जिता भूमिका उपर्युपरि । क्रमशॊ भवन्त्यथैवं ताः स्युस्तिस्रोऽर्धसंयुक्ताः ॥ २०३ ॥
† इह किञ्चिदधं मातृकासु गलितमिव भाति । १ द. ख. ॰खा वा स्यां । २ क. रिम्य भूँ । ३ द. ख. सातनावितमे भ्रं । ४ ग. ॰नाविवमे भ्रं । ५ द. ख. ॰हूँ । ६ क. धू+तानि चि । ७ द. ख. क्षोँ । वा. २५