समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 259, कुल 726 में से
संदर्भ में पढ़ें१९४ समराङ्गणसूत्रधारे शेषांशोच्छ्रययुक्ता घण्टा चतुरश्रकायता कार्या । त्रिचतुर्भूग्यौ कार्ये षट्चतुर्भागविस्तारे ॥ २०४ ॥ रङ्गः स्यादाद्यभुवि द्वितीयभुवि कोणगास्तथा रथिकाः । स्युर्भद्राकृतियुक्ता दोला अपि तत्र रमणीयाः ॥ २०५ ॥ रथिकास्तृतीयभूमौ कार्या भद्रेषु चातिरमणीयाः । कोणेष्वथासनान्यर्थवास्तुकेऽपि भ्रमः कार्यः ॥ २०६ ॥ दोलारथिके चतुरासने भ्रमोऽष्टासनो भवेत् तत्र । आसनमिह तत् कथितं युवतेः स्थानं यदेकं स्यात् ॥ २०७ ॥ निखिलान्यपि भ्रमणसंमुखं तानि बिभ्रति भ्रमणम् ( ? ) । यत्रासनानि स इह भ्रम इत्युक्तोऽपराथिका (?) ॥ २०८ ॥ यष्टेरूर्ध्वमधस्ताद् भ्रमस्य चक्रं (नि) योजयेदेकम् । लघुचक्राणि च तद्वन्नियोज१दासनेष्वत्र ॥ २०९ ॥ लघुचक्राकारवृत्ते संलग्नाः कीलका दृढाः कार्याः । तुल्यान्तराः समस्ताः प्रलघु(क)चक्राकारवृन्तर्गताः ॥ २१० ॥ रथिकाशिखाग्रचक्रं भ्रमचक्राकार(वि?) नियोजितं कार्यम् । यष्टिचतुष्टयमस्मिंस्तिर्यक् चक्रद्वयोपेतम् ॥ २११ ॥ ऊर्ध्वं द्वितीयभूमेस्तृतीयभूमेरथान्तरे कुर्यात् । नियतं रथिकायष्टिभ्रैम३संलग्नानि यन्त्राणि ॥ २१२ ॥ आसनाधारयष्टीनां रथिकाचक्रयोजितान् । अधः समान्तरान् कुर्याच्चतुरः परिवर्तकान् ॥ २१३ ॥ त(दू)दू द्वितीयभूमीदोलागर्भे समान्तरे यष्टी । लग्ने तथैकचक्रे याम्योत्तरचक्रयोर्न्यस्येत् ॥ २१४ ॥ तद्बदधो भूकोणगरथिकाचू४डाग्रचक्रसंसक्ताः । यष्टीस्ततश्चतस्रो द्विचक्रकां५ इतरच६क्रयोर्न्यस्येत्७ ॥ २१५ ॥ १ ग. °यु° । २ द. ख. चक्रभ्रमरचक्राकार विनि° । ३ ग. °क्रम° । ४ द. ख. ग. °म° । ५ ग. °ला°; द. ख. °लायचक्रं । ६ द. ख. °कः । ७ द. ख. °श्च° ।