समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 263, कुल 726 में से
संदर्भ में पढ़ें१९८ समराङ्गणसूत्रधारे स्थानं विह्वारवल्मीकविहितं स्यादनर्थकम् । तन्नित्यसन्तापकरं क्षयकृच्च तपस्विनाम् ॥ १२ ॥ देवोपघातजननं स्त्रीणां च क्षयकारकम् । विहितं पादपैश्चैत्यैर्गृहं स्याद् भूतभीतिदम् ॥ १३ ॥ भवेद् रोगकरं भर्तुर्विहितं कण्टकिद्रुमैः । दीर्णायामुन्नतायां³ च कृतं भूमौ क्षयावहम् ॥ १४ ॥ नतायां क्षुद्भयकरं कृतं भवति मँन्दिरम् । तस्मात् कार्यं प्रशस्तायां भूमौ तद् वाजिवृद्धये ॥ १५ ॥ मङ्गल्यरमणीये च चतुरश्रे मनोज्ञगे । शुभे च विहितं सद्म भवेत् कल्याणकारकम् ॥ १६ ॥ निर्गच्छतो यथा वामे पार्श्वे भर्तुस्तुरङ्गमाः । भवन्ति कुर्यात् स्थपनिस्तथा वाजिनिवेशनम् ॥ १७ ॥ अन्तःपुरप्रदेशस्य कार्यं दक्षिणतश्च तत् । प्रवेशे दक्षिणं तेषां हेषितं जायते यथा ॥ १८ ॥ तथा भर्तुर्हितार्थाय कर्तव्यं सद्म वाजिनाम् । प्रागुदग् वा मुखं तस्य विधातव्यं सतोरणम् ॥ १९ ॥ प्राग्ग्रीवकेण संयुक्तं चतुःशालमसङ्कटम् । दशारत्निसमुच्छ्रायमंष्टारत्निप्रविस्तृतम् ॥ २० ॥ नागदन्तकसंशोभि पुरः कुड्यार्धसंयुतम् । पृष्ठे समग्रकुड्यं वा तत्र स्थानानि कल्पयेत् ॥ २१ ॥ तानि तु प्राङ्मुखानि स्युस्तथैवोदङ्मुखानि चै । आयामे किष्कुमात्राणि त्रिकिष्कूणि च विस्तरात् ॥ २२ ॥ प्रांशुन्नतोर्ध्वभागानि चतुरश्राणि कारयेत् । अग्रोच्चां सुखसञ्चारां तेषु भूमिं प्रकल्पयेत् ॥ २३ ॥ १ द. ख. शत्रुविं । २ द. ख. क. ष्ट्रकं । ३ द. ख. ॰तानां । ४ द. ख. ॰ति विमं । ५ द. ख. ॰इमं । ६ द. ख. अतः । ७ क. ॰वै । ८ द. ख. ॰दे । ९ क. सुं । १० द. ख. ॰मष्टौदश च विं । ११ द. ख. प्राङ्मुखानि च ।