भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 264, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 264

अश्वशाला नाम त्रयस्त्रिंशोऽध्यायः । १९९ स्थानं मूत्रस्य मध्ये तु हस्तमात्रं समन्ततः । आस्तीर्णं च समश्लक्ष्णनीरन्ध्रैः १ फलकैर्दृढैः ॥ २४ ॥ धातक्यर्जुनपुन्नागककुभादिविनिर्मितैः । अष्टाङ्गुलसमुच्छ्रायैरध्यर्धारत्निविस्तृतैः २ ॥ २५ ॥ अच्छिद्रैः ३ संहनैर्बद्धैरयसा पार्श्वयोर्द्वयोः । अजन्तुसङ्कुलैः काष्ठै रुचकाभि(?)र्भिषङ्मनैः ॥ २६ ॥ यवसस्य ४ भवेत् ५ स्थानं निर्यूहैः ६ स्वास्तृतं शुभैः ७ । किष्कुत्रयोच्छ्रितं तत् स्यादेकान्ते सुसमाहितम् ॥ २७ ॥ हस्तद्वयप्रमाणं च कुर्यात् खादनकोष्ठकम् । सूपलिप्तमदुर्गन्धि विस्तारोच्छ्राययोः समम् ॥ २८ ॥ स्थाने स्थाने त्रयः ८ कीलाः सुदृढाः कपिशीर्षकाः । पश्चाङ्गिनिग्रहार्थं तौ पुरतः ९ कल्पयेदुभौ ॥ २९ ॥ पश्चाद् बन्धार्थमेकं च सुगुप्तं परिकल्पयेत् । चतुर्हस्तायतं त्यक्त्वा शालाकोणचतुष्टयम् ॥ ३० ॥ स्थानेष्वेतेषु तुरगान् सर्वेष्वपि निवेशयेत् । तत्र कुर्याद् बलिं होमं स्वस्तिवाचनकं जपम् ॥ ३१ ॥ ग्रीष्मे कार्यं सुसंमृष्टं सिक्तं तत्र महीतलम् । वर्षास्वनम्बुपङ्कं च शिशिरे संवृतं शुभम् ॥ ३२ ॥ तिष्ठेयुस्तत्र तुरगा नानिसङ्कीर्णशङ्किनः । अस्पृशन्तो मिथः कार्याः सर्वबाधाविवर्जिताः ॥ ३३ ॥ स्थानं दक्षिणपूर्वस्यां दिशि वह्नेः प्रकल्पयेत् । निदध्यादुदकुम्भं च किंचिदैन्द्रीसमाश्रितम् ॥ ३४ ॥ १ द. ख. ॰रन्ध्रैः । २ द. ख. ॰विस्तरैः । ३ द. ख. सहितै॰ । ४ क. ॰जं॰ । ५ द. ख. ॰र्नि॰ । ६ द. ख. यवस्य । ७ द. ख. भर्तु । ८ द. ख. ॰हे । ९ द. ख. ॰चिः । १० द. ख. ॰र्यात् वा॰; क. ॰र्याच्छा॰ । ११ द. ख. थ्रं॰ । १२ द. ख. युवतः ।