समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 261, कुल 726 में से
संदर्भ में पढ़ें१९६ समराङ्गणसूत्रधारे मध्ये द्विभागविस्तारं स्थानं कुर्वीत हस्तिनः । कल्प्याः प्रासादवद् भागा ज्येष्ठमध्याधमाः क्रमात् ॥ २ ॥ तद्बहिर्भागिकोऽलिन्दो बहिस्तस्यापि चापरः । भागेनैकेन भित्तिः स्याद् द्वितीयालिन्दकाद् बहिः ॥ ३ ॥ तस्या द्वारप्रदेशे तु¹ कर्तव्यौ कूर्परावुभौ । कर्णप्रासादिका कार्या द्वितीयालिन्दसंश्रिता ॥ ४ ॥ द्वे द्वे वातायने कुर्याद् भित्तौ दिक्षु तिसृष्वपि । †प्राग्ग्रीवोऽग्रे भवेच्छाला सुभद्रेयमुदाहृता ॥ ५ ॥ अस्या एव यदा पक्षे प्राग्ग्रीवौ भवतो² मुखे । नन्दिनी नामतः शाला तदा स्याद् गजवृद्धये ॥ ६ ॥ अस्या एव यदा स्यातां प्राग्ग्रीवौ पार्श्वयोर्द्वयोः तदा सुभोगदा नाम तृतीया परिकीर्तिता ॥ ७ ॥ अस्या एव यदा पृष्ठे प्राग्ग्रीवः क्रियतेऽपरः । भद्रिका नाम शाला स्यात् तदा द्विरदपुष्टिदा ॥ ८ ॥ पञ्चमी चतुरश्रा स्याद् वर्षणी नाम पूजिता । प्राग्ग्रीवालिन्दनिर्यूहहीना षष्ठी तथापरा ॥ ९ ॥ शाला प्रमारिका धान्यधनजीवितहारिणी । तदेतां वर्जयेत् कुर्यादन्याः सर्वार्थसिद्धये ॥ १० ॥ प्रमारिकेति प्रथिते³ह शाला सा प्राणसस्यद्रविणच्छिदे स्यात् । कुर्यादतस्तां न यथोदितास्तु कार्याः परा जीवितवित्तवृद्ध्यै ॥ ११ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे गजशाला नाम द्वात्रिंशोऽध्यायः । † इह सर्वत्र ‘प्रग्रीव’ इति पाठ्यं भाति । १ क. पु । २ क. क्षः । ३ द. ख. ॰ते ।