समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 268, कुल 726 में से
संदर्भ में पढ़ेंअश्वशाला नाम त्रयस्त्रिंशोऽध्यायः । २०१ बध्यन्ते ते ग्रहैर्दिव्यैर्व्याधिभिश्च विचिन्तनाः । कव्यहव्यक्रियास्तत्र भर्तुर्न विजयावहाः ॥ ७१ ॥ द्विजानामुपतापाया जायन्ते तत्र वाजिनः । अनुवंशं च शालायां स्थानमश्वस्य नेष्यते ॥ ७२ ॥ स्वामिनस्तदजीर्णाय स्यान्नाशाय च वाजिनाम् । स्थाने प्रशस्ते तुरगान् सर्वथा वासयेदतः ॥ ७३ ॥ न च धार्याः क्षणमपि रोगिणः कल्यैस्सन्निधौ । कल्यानामपि रोगाः स्युर्यतो रोगिसमाश्रयात् ॥ ७४ ॥ ह्यागारस्य पूर्वेण कार्यं भेषजंमन्दिरम् । तस्यैव वामतः सर्वसंभारान् परिकल्पयेत् ॥ ७५ ॥ वाजिनां भेषजार्थाय भाण्डानि च विनिक्षिपेत् । अगदानोषधीः स्नेहान् वर्तीश्च लवणानि च ॥ ७६ ॥ भेषजागारसविधे कुर्याच्चारिष्टमन्दिरम् । भवनं व्याधितानां च कार्यं वासाय वाजिनाम् ॥ ७७ ॥ सुगुप्तं तच्च कर्तव्यं पूर्वनिर्दिष्टवेश्मवत् । संबद्धं च विधातव्यमेतद् वेश्मचतुष्टयम् ॥ ७८ ॥ सुधाबन्धदृढैः कुड्यैः सप्रांग्रीवोक्ततोरणम् । चत्वार्यपि विशालानि सुगमानि च कारयेत् वेश्मस्वेवंविधेष्वश्वान् स्थापितान् परिपालयेत् ॥ ७९ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे अश्वशाला नाम त्रयस्त्रिंशोऽध्यायः ॥ १ क. ॰नां । २ द. ख. ॰ल्यं । ३ द. ख. ॰ल्यां । ४ द. ख. ग. ॰गे॰ । ५ द. ख. तेयज । ६ द. ख. ॰ग्यान । ७ द. ख. ग. ॰नि । ८ द. ख. ॰ह्रौँ । ९ द. ख. ॰त्तां ।