समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 293, कुल 726 में से
संदर्भ में पढ़ें२२८ समराङ्गणसूत्रधारे नाध्मातं न कृशं मध्ये गतं नान्तरकुक्षिषु । न विद्रुतं न संक्षिप्तं यत् तत् स्याद् द्वारमृद्धिदम् ॥ ३७ ॥ पदस्य द्वादशे भागे पदमध्यात् प्रदक्षिणम् । स्थापितं वृद्धिमायाति द्वारं पुष्टिं करोति च ॥ ३८ ॥ रथ्याचत्वरशृङ्गाटवापीकूपाह(?)कुम्भकैः । कुड्यकोणतरुस्तम्भैर्भावनंस्यन्दनादिभिः ॥ ३९ ॥ यद् विद्धं भवनद्वारं तच्छुभाय न जायते । द्वारं द्वारे प्रविष्टं च कर्तव्यं वितनेतन(?) ॥ ४० ॥ पेच्यां प्रवेशयेन्नैकामन्यद्वारे कदाचन । द्वारं प्रवेशयेत् पेच्यां नारोहणगवाक्षयोः ॥ ४१ ॥ पक्षद्वारस्य वा नैकां कथञ्चिदपि बुद्धिमान् । न बाह्यगान्तरे द्वारे प्रविष्टं कारयेत् क्वचित् ॥ ४२ ॥ विहितं हि तथा तत् स्याद् बहुदोषकरं सदा । तोरणं गोपुरद्वारंमट्टो येषां गृहे भवेत् ॥ ४३ ॥ गृहाणां मौलिकद्वारं श्रोत्रे चैतान् प्रवेशयेत् । द्वारं द्वारस्य कर्तव्यमुपर्य्युपरि भूमिषु ॥ ४४ ॥ प्रदक्षिणेन वा कार्यं कार्यं नापरथा पुनः ॥ ४५ ॥ उपर्युपरि भूमीनां मुखं कुर्यात् प्रदक्षिणम् । नापसव्येन कुर्वीत द्वारमारोहणानि च ॥ ४६ ॥ यस्यां भित्तौ कृतं पूर्वं तस्यामुपरि कारयेत् । तथान्यभित्तौ तद्द्वारं विधातव्यं प्रदक्षिणम् ॥ ४७ ॥ न मध्ये सद्मनो द्वारं कुर्यादेव पदस्य च । न स्थूले(?) न पदे नापि सिरापाते तदिष्यते ॥ ४८ ॥ निरंशावस्थितैर्द्रव्यैस्तिर्यक् का( क्रा)न्तैश्च मन्दिरे । मर्मवेधो न दोषाय द्वारवेधोऽथवा क्वचित् ॥ ४९ ॥ १ ख. ग. द. नो । २ ग. ऐन्द्यां प्र° । ३ ख. ग. नै । ४ ख. ग. रं पट्टो; ^८द. ^०द्वारं पट्टो । ५ ग. य; ६ द. स्त ।