भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 294, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 294

द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः । २२९ यवनाट्टालकच्छाया पुरंदैवकुलस्य च । न प्रवेश्या गृहद्वारे रश्मयः सोमसूर्ययोः ॥ ५० ॥ न प्राकारेण कुड्येन न विटङ्केन वा पुनः । अन्तर्हितानि दुष्यन्ति द्वारमर्माणि कुत्रचित् ॥ ५१ ॥ अत्युच्चे स्याद् भयं राज्ञो निम्ने तस्करतो भयम् । कुलपीडा भवेत् कुब्जे बहिर्याते पराभवः ॥ ५२ ॥ आध्मातेऽत्यन्तदारिद्र्यं³ कृशमध्ये क्षयो नृणाम् । रथ्याविद्धे भवेद् रोगो मरणं चत्वरेण च ॥ ५३ ॥ शृङ्गाटकेन वैधव्यं दुहितॄणां प्रजायते । वाप्या कूपेन वा विद्धे स्यादतीसारतो भयम् ॥ ५४ ॥ कोणान्मृत्युभयं दद्याद् वृक्षे रोगभयं भवेत् । स्तम्भेन म्रियते स्वामी भ्रमेणार्थो न तिष्ठति ॥ ५५ ॥ प्रणालेन महद् दुःखं महाभीतिर्महाकलिः । तस्मात् सर्वप्रयत्नेन द्वारवेधं विवर्जयेत् ॥ ५६ ॥ यस्याग्रतः पृष्ठतश्च द्वारे भित्त्योर्द्वयोरपि । अन्योन्यं भिद्यते यस्मिन्नैकगत्याश्रिते उभे ॥ ५७ ॥ वास्तु तद् भिन्नदेहाख्यं भिन्नस्वामिविधायकम् । न तत्र जायते वृद्धिः स्थापितस्य न कस्यचित् ॥ ५८ ॥ गृहकुक्षौ कृतं द्वारं सर्वरोगभयङ्करम् । पूर्वद्वारं तु माहेन्द्रं प्रशस्तं सर्वकामदम् ॥ ५९ ॥ गृहक्षतं तु विहितं दक्षिणेन शुभावहम् । गन्धर्वमथवा तत्र कर्तव्यं श्रेयसे त(स)दा ॥ ६० ॥ पश्चिमेन प्रशस्तं स्यात् पुष्पदन्तं जयावहम् । भल्लाटमुत्तरे द्वारं प्रशस्तं स्याद् गृहेशितुः ॥ ६१ ॥ १ ख. द. रा दे। २ द. भये राज्ञे°। ३ द. द्रं। ४ द. द्वेगो। ५ द. °त्रीणां । ६ द. °न्या। ७ ख. ग. स्मिन्नेक। ८ द. रोगकरं भयं। ९ द. भव्याट°।