समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 295, कुल 726 में से
संदर्भ में पढ़ें२३० समराङ्गणसूत्रधारे एकाशीतिपदे तस्मिंश्चतुरश्रपदेऽपि वा । द्वारोऽप्य(प)दगास्तासां ब्रूमो वह्नयादितः फलम् ॥ ६२ ॥ हुताशभीतिः स्त्रीजन्म भूत्यर्थः प्रियता नृपे । क्रोधे चानृतता(?) पुंसः क्रौर्यं स्यात् पूर्ववत् क्रमात् ॥ ६३ ॥ सुतापि(प्ति)प्रैष्यनीचत्वे भक्ष्यौँनसूतर्द्धिकृत् । रौद्रं कृतघ्नमवसं याम्यतः सुतवीर्यहृत्(?) ॥ ६४ ॥ सुनोप्पीडा रिपुवृद्धिर्ऋथैसुतानवाप्तिँस्तनयार्थसम्पत् । स्वाप्तिर्नृशंसाद् भयमर्थनाश उक्तः क्रमादित्यपरोन्मुखेषु ॥ ६५ ॥ बन्धव्यसत्वे(?) रिपुवृद्धिर्ऋर्थसुताप्तिरग्र्या गुणसम्पदश्च । सुतार्थलब्धिर्द्विर्षयात्मजेन दोषास्त्रिया नैर्ऋतं दिङ्मुखेषु ॥ ६६ ॥ गुणाश्च दोषाश्च यथावदेते निरूपिता द्वारसमाश्रिता ये । तान् शिल्पविच्छास्त्रविदां वरिष्ठो विज्ञाय पूज्यत्वमुपैति लोके ॥६७॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे "द्वारगुणदोषो नाम एकोनचत्वारिंशोऽध्यायः ॥ अथ पीठमानं नाम चत्वारिंशोऽध्यायः । देवानां मनुजानां च पीठर्मोनमथोच्यते । पीठं कैनीयो भागं च सार्धभागं तु मध्यमम् ॥ १ ॥ द्विभागमुत्तमं तत् स्यादेषा पीठसमुच्छ्रितिः । महेश्वरस्य विष्णोश्च ब्रह्मणश्चोत्तमं भवेत् ॥ २ ॥ इतरेषां च देवानां कर्तव्यं तन्न धीमता । ईश्वरस्य यथाकामं पीठं कार्यं विचक्षणैः ॥ ३ ॥ १ द. °र्हितः । २ ख. ग. वा; द. प्रिय वा । ३ ख. वा । ४ द. ग. पा । ५ ख. ग. र्थं । ६ ख. ग. द. र्थि । ७ द. ब्धे° । ८ द. दोषास्त्रियानैर्धातश्चङ्मुखेषु । ९ ख. ग. तश्चङ् । १० द. त्नि । ११ द. द्वारगुणदोषाध्यायो नामैकोन चत्वारिंशः । १२ द. नयति मानमथोंच्यते । १३ द. कर्नयो भागेन ।