समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 296, कुल 726 में से
संदर्भ में पढ़ेंपीठमानं नाम चत्वारिंशोऽध्यायः । २३१ यस्मिन् स्थाने विधातव्यो ब्रह्मा विष्णुस्तथैव च । ईश्वरः सर्वतः कार्यों न दोषस्तत्र विद्यते ॥ ४ ॥ इतरेषां तु देवानां पीठं भागं समुच्छ्रितम्¹ । यस्य येन विभागेन वास्तुमानं विधीयते ॥ ५ ॥ तस्य तेनैव भागेन पीठोच्छ्रायो विधीयते । मनुजानां च पीठानि वेश्मनां² देवपीठकैः³ । ६ ॥ तुल्यानि कुर्यादुपरी कृता वृद्धिकराः सुराः । पुरमध्ये तु कर्तव्यं ब्रह्मणो गृहमुत्तमम् ॥ ७ ॥ चतुर्मुखं च तत् कार्यं⁴ यथा पश्यति तत् पुरम् । अधिकं सर्ववेश्मभ्यस्तथा राजगृहादपि ॥ ८ ॥ राजवेश्माधिकंमपि शस्यतेऽन्यै⁵सुरालयात् । पञ्चमो लोकपालानां⁶ राजा श्रेष्ठतमो⁷ यतः ॥ ९ ॥ एवमेतानि देवानां पीठान्युक्तान्यशेषतः । चातुवर्ण्यस्य⁹ पीठानि ब्रूमो¹⁰ विप्राद्यनुक्रमात् ॥ १० ॥ षट्त्रिंशदङ्गुलोत्सेधं पीठं विप्रस्य शस्यते । इतरेषां तु वर्णानां¹¹ ह्रस्वं स्याच्चतुरङ्गुलम् ॥ ११ ॥ चातुर्वर्ण्यस्य पीठानि भुङ्क्ते विप्रो गृहाणि च । त्रयाणां¹² क्षत्रियो वैश्यो द्वयोः शूद्रः क्रमात् स्वकम् ॥ १२ ॥ एवं विभागं¹³ पीठानां स्थपतिः परिकल्पयेत् । हितं कारयितुर्वाञ्छन् नृपतेश्च समृद्धये ॥ १३ ॥ प्रमाणे स्थापिता देवाः पूजार्हाश्च¹⁴ भवन्ति हि । प्रमाणं पीठानामिदमभिहितं ब्रह्ममुरजि-¹⁵ त्पुरारीणामत्रापरदिविषदां यच्च नियतम् । १ द. समुद्धृतं । २ द. वेश्मानां । ३ ख. ग. ठके; द. के । ४ द. कर्माय । ५ द. ना. ६ द. पालानां । ७ द. स्तस्तुतमो । ८ द. पंच । ९ द. चतुर्वर्णस्य । १० द. ब्रह्मो । ११ द. वर्णा सु; ख. ग. र्णामु पी । १२ द. ख. ग. णामन्यजातीनां गृहं शूद्रकमाश्रकम् । १३ द. ग । १४ द. पूजायाश्च......हि । १५ द. सु ।