समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 299, कुल 726 में से
संदर्भ में पढ़ें२३४ समराङ्गणसूत्रधारे । तस्मात् सर्वप्रयत्नेन चयकर्म प्रयोजयेत् । उदकेन समं नीत्वा सम्यङ्निश्चयकारणम् ॥ २१ ॥ तत्रा(स्मा)हते न चान्यत् स्यान्निश्चयार्थं चेयस्य च । तस्माज्जलेन वलयं गृह्णीयात् पूर्वमाहतः ॥ २२ ॥ ततः सुताडिते सूत्रे चयं कुर्याद् विचक्षणः । द्विगुणां क्षेत्रमानस्य रज्जुं कृत्वा तदन्तयोः ॥ २३ ॥ याँऽसौ(?) कार्यौ ततस्तस्यां पादोनक्षेत्रमानतः । दद्यान्निरुच्छ्रनं कीलौ क्षेत्रगर्भान्तगामिनौ ॥ २४ ॥ निघायौर्याः(य)सकौ तस्याः प्रान्तस्थौ योजयेत् तयोः । निरुच्छनाभिकृष्टायां पादोनक्षेत्रसंमितम् ॥ २५ ॥ भुजर्गेत्या भवेद् रज्जुस्तस्यामिष्टानुमानतः । चिह्नं दद्यात् स कर्णः स्यादेवं दोषान् प्रसाधयेत् ॥ २६ ॥ भूरि नौच्छादनं दद्यान्न भिन्द्यात् तत्र चेष्टकाः । विषमस्थाः कुठारेण छिंत्त्वा ताः कल्पयेत् समाः ॥ २७ ॥ यथा न च स्पृशेत् सूत्रं विचिन्वीत तथा बुधः । कुड्ये च सादिमध्यान्ते द्विष्टमेकां निर्पातयेत् ॥ २८ ॥ यदा सर्वपरिक्रान्तं तलं चोद्घाटितं भवेत् । तदा नैकत्र कुर्वीत पर्यायेण विचक्षणः ॥ २९ ॥ उद्घाटनं स्तैराणां(?) तु यदीच्छेत् सिद्धिमात्मनः । तत्र तत्र चयं कुर्याद् यदि संविद्धकं हितैम् ॥ ३० ॥ दुर्वहं हि भवेत् तेन तस्मात् तत् परिवर्जयेत् । उपरिष्टात् समं पार्श्वे भुंजं कुर्याद् विचक्षणः ॥ ३१ ॥ १ द. ताभ्यान्स°। २ द. यायार्यवस्य च। ३ द. णं। ४ द. यासौ कार्यो; ख. ग. या। ५ द. स्या। ६ क. र; द. °च्छनं । ७ द. तैः । ८ क. यामकौ । ९ द. स्था। १० क. ष्णा । ११ ख. ग. ‘त:’; द. °म्मितः । १२ ख. ग. ङ्ग; द. भुर्जं° । १३ ख. ग. द. न। १४ ख. द. °मा। १५ द. चिन्वान कल्पयेद्धिमाः ॥ १६ द. विचिन्वति । १७ द. द्वि ष्टमेकानियोजयेत् ; ख. ग. 'द्विष्ठये' । १८ ख. ग. योजये । १९ द. °कांततलावा घटितं भवेत् ॥ २० ख. द. न° । २१ द. दि । २२ द. हि तत् ॥ २३ द. दुर्बलं; ख. ग. दुर्बलं हि । २४ ख. ग. द. भयं कु° ।