समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 301, कुल 726 में से
संदर्भ में पढ़ें२३६ समराङ्गणसूत्रधारे वल्लीनिपीडितं दारु प्रवेशे चेन्निखन्यते । आशीविषभयं घोरं तस्मिन्नुत्पातलक्षणम् ॥ ८ ॥ उत्थाने कर्णिका रक्ष्या सर्वसत्त्वाभिधर्षणात् । नवे कर्मण्यशकुना मृगव्यालयसरीसृपाः ॥ ९ ॥ कर्णिकामधिरोहन्ति दोषांस्तत्र वदेदमून् । कृतापीडां परिहृतां यद्यारोहन्ति वायसाः ॥ १० ॥ गृहिणस्तत् प्रवासः स्यादन्नं³ पानं च हीयते । मयूरे तद्गृहं राजा हरेत् पश्चाब्दतः परम् ॥ ११ ॥ वराङ्गे⁴ जायते व्याधिः कोकिलैर्द्व्यब्दतः परम् । काकोलैस्त्रीणि वर्षाणि जायते सुमहद् भयम् ॥ १२ ॥ शुके स्युः कलहार्थांनि न च निष्पद्यते गृहम् । कुक्कुटेऽग्निभयं विद्याद् राजतो वा महद् भयम् ॥ १३ ॥ सारिकायां तु दौःशील्यं स्त्रीणां गृहपतेस्तथा । सर्परूपेतं(तु) विघ्नेन गृहं निष्ठां न गच्छति ॥ १४ ॥ स्त्रीपुंसयोः कुलिङ्गे तु जायते पापकारिता । पारावते तु जायेते स्त्रीपुंसौ गुरुतल्पगौ ॥ १५ ॥ विडाले¹⁰ तुं कुलं दासैः सह रोगैर्निपीड्यते । ज्वलनो वा जलं¹² वापि हस्ती वा हन्ति तद्गृहम् ॥ १६ ॥ आरण्यैः शकुनैरेतत् स्याद्¹³ वर्षाद् धर्षणे फलम् । यूनां¹⁴ च जायते मृत्युर्मध्वासङ्गे¹⁵ धनक्षयः ॥ १७ ॥ दुःखप्रदर्शनं घूके¹⁶ बालानां मरणं तथा । त्रस्तभीते निलीने तु राजा शून्यं हरेद् गृहम् ॥ १८ ॥ १ द. लां । २ द. ॰हति वायसः । ३ द. ॰न्नपानं । ४ द. वरांगे यायितोव्याधि कोकिलैद्वन्त्रिितः परं । ५ ख. ग. र्द्धां । ६ ख. ज्यानि; द. सुकेसकलङ्गज्यानिः सं च निष्पद्यते गृहं । ७ क. सर्पं । ८ क. न । ९ द. ॰पते । १० द. ते । ११ द. ज्व । १२ द. णैः । १३ द. स्या । १४ ग. नृणां ज । १५ द. ॰गंथा॰ । १६ द. एके ।