समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 321, कुल 726 में से
संदर्भ में पढ़ें२६६ समराङ्गणसूत्रधारे अथ वेदिलक्षणं नाम सप्तचत्वारिंशोऽध्यायः । वेद्यश्चतस्रो विज्ञेया या पुरा ब्रह्मणोदिताः । वयं तां:¹ संप्रवक्ष्यामो नाम²संस्थानमानतः ॥ १ ॥ प्रथमा चतुरश्रा स्यात् सभद्रा च द्वितीयका³ । तृतीया श्रीधरी नाम चतुर्थी पद्मिनी स्मृता⁴ ॥ २ ॥ यज्ञकाले तथोद्वाहे देवतास्थापनेषु च । नीराजनेषु सर्वेषु वह्निहोमे च नित्यशः ॥ ३ ॥ नृपाभिषेचने चैव शक्रध्वजनिवेशने । नृपयोग्या भवन्त्येता वर्णानामनुपूर्वशः ॥ ४ ॥ चतुरश्रा तु या वेदि नवहस्ता समन्ततः । अष्टहस्ता प्रमाणेन सर्वभद्रा प्रकीर्तिता⁵ ॥ ५ ॥ श्रीधरी सप्त विज्ञेया हस्तान्⁶ मानेन वेदिका । षड्हस्ता चैव शास्त्रज्ञैर्नलिनीह विधीयते ॥ ६ ॥ चतुरश्रा तु कर्तव्या चतुरश्रा समन्ततः । भद्रैस्तु सर्वतोभद्रा भूषणीया चतुर्दिशम् ॥ ७ ॥ श्रीधरी चापि विज्ञेया कोणविंशतिसंयुता । नलिनीति च विज्ञेया पद्मसंस्थानधारिणी ॥ ८ ॥ कर्तव्याः⁷ स्वस्वविस्तारादुच्छ्रयेण त्रिभागिकाः । कुर्यान्मन्त्रवतीमिस्ता इष्टकाभिस्तु चाये(यि) ताः⁸ ॥ ९ ॥ चतुरश्रा ⁹यज्ञकाले विवाहे श्रीधरी स्मृता । देवतास्थापने वेदीं ¹⁰सर्वभद्रां निवेशयेत् ॥ १० ॥ नीराजने साग्निकार्ये तथा राजाभिषेचने । वेदी पद्मावती या¹¹ च तथा शक्रध्वजोच्छ्रये ॥ ११ ॥ १ क. तासां प्र । २ द. माम् । ३ द. काः । ४ द. ताः । ५ द. ताः । ६ क. स्तोन्मा । ७ क. द. व्या । ८ क. का । ९ द. वायकाः । १० ख. ग. कः । ११ द. यां । १२ द. वेदी सर्वभद्रं ।