समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 324, कुल 726 में से
संदर्भ में पढ़ेंगृहदोषनिरूपणं नामाष्टचत्वारिंशोऽध्यायः । २१९ सपादं सत्रिभागं वा सार्धं द्विगुणमेव चं¹ । यत् स्यान्मुखायतं वेश्म तदनिष्टफलप्रदम् ॥ १६ ॥ यद् द्विशालं त्रिशालं वा चतुःशालमथापि वा । मूषयां² रहितं वेश्म तदनिष्टफलप्रदम् ॥ १७ ॥ पुरतः पृष्ठतः पार्श्वे यदि वालिन्दवर्जिता³ । गृहे न शस्यते शाला देवागारे तु शस्यते ॥ १८ ॥ अन्यपृष्ठस्थितद्वारं वेश्म खादकमुच्यते । परॅस्परविरोधाय⁴ तद् वेश्म गृहिणोस्तयोः ॥ १९ ॥ सशल्यं पादहीनं च समसन्धि शिरोगुरुँ⁵ । वेश्मनामिदमुद्दिष्टं मर्मदोषचतुष्टयम् ॥ २० ॥ वास्तुक्षेत्रस्य यत्राङ्गे यस्य वर्त्म प्रवर्तते । तँदङ्गं⁶ वास्तुनस्तस्य च्छिन्नां⁷ तेनेति निर्दिशेत् ॥ २१ ॥ छिन्नाङ्गं विकलं तत् स्याद् भीतिदं सर्वदोषकृत् । तद्भर्तुर्भज्यतेऽङ्गं तद् वेधस्तस्याफलोऽन्यथा ॥ २२ ॥ स्वगृहद्वयमध्येन निर्गाहो यदि वर्त्मनः । द्वारवेधोदितान् दोषांस्तदा प्राप्नोति निश्चितम् ॥ २३ ॥ मार्गश्चैको यदा गच्छेदुभयोर्गृहपार्श्वयोः । मार्गवेधस्तदा स स्याच्छोकसन्तापकारकः ॥ २४ ॥ उत्सङ्गः पूर्णबाहुश्च हीनबाहुस्तथापरः । प्रत्यक्षाग्र इति प्रोक्तं प्रवेशानां चतुष्टयम् ॥ २५ ॥ गृहस्य सम्मुखं यत्र द्वारं भवति वास्तुनः । उत्सङ्ग⁸ इति स प्रोक्तः पूर्णबाहुः ९प्रदक्षिणः† ॥ २६ ॥ वामतो हीनबाहुः स्यात् प्रत्य॑क्षो¹⁰ वा (क्षो य) स्तु पृष्ठतः । चतुर्थो¹²ऽयं समुद्दिष्टः प्रवेशो वास्तुनो बुधैः ॥ २७ ॥ १ द. वा । २ द. मूखो । ३ द. नि । ४ द. परविरोधायातद्गवे तद्° । ५ ख. ग. द. रुः । ६ क. य । ७ द. उच्छांग । ८ ख. सं । ९ द. ˚बाहुमुद˚ । १० ख. ‘मु’ । ११ द. प्रत्युक्तवात्तु˚; ख. त्युक्तो वा । १२ द. ˚ष्टो । † ‘पूर्णबाहुस्तु’ दक्षिणे इति तु पाठो युक्तः ।