समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 323, कुल 726 में से
संदर्भ में पढ़ें२९८ समराङ्गणसूत्रधारे कलहाय प्रवासाय रोगाय च मरुत्प्लवा । मध्यप्लवा तु भूमिर्या सर्वनाशाय सा भवेत् ॥ ४ ॥ तुषास्थिकेशकीटत्वं(क्)शङ्खभस्मोषरान्विताम् । कर्पराङ्गारिणीं दुष्टसत्त्वानार्यजनां त्यजेत् ॥ ५ ॥ चैत्रे शोककरं वेश्म ज्येष्ठे मृत्युप्रदायकम् । पशुनाशनमाषाढे शून्यं भाद्रपदे कृतम् ॥ ६ ॥ आश्विने कलहाय स्यात् कार्त्तिके भृत्यनाशनम् । माघे चाग्निभयाय स्यान्मासेष्वेषु न कारयेत् ॥ ७ ॥ पावकस्य पदे पृष्ठवंशस्यापिं च पश्चिमे । पुरप्रासादकर्णे च कीलादि प्राक् प्रयोजयेत् ॥ ८ ॥ पूर्वपश्चिमदिङ्मूढं वास्तु स्त्रीनाशकृद् भवेत् । उदङ्गूढं न निष्पत्तिं याति सर्वं च नाशयेत् ॥ ९ ॥ यत्तु दक्षिणदिङ्मूढं जायते मरणाय तत् । प्राग्वास्तुनि (र्तु) कुर्वीत प्रासादं मन्दिरं पुरे ॥ १० ॥ वलितं चलितं भ्रान्तं विसूत्रं च समुत्सृजेत् । यत् स्यान्मुखविनिष्क्रान्तं वलितं तत् प्रकीर्तितम् ॥ ११ ॥ चलितं पृष्ठनिष्क्रान्तं दिङ्मूढं भ्रान्तमुच्यते । विसूत्रं कर्णहीनं स्यात् फलमेषां प्रचक्ष्महे ॥ १२ ॥ वलिते चलति स्थानं चलिते विग्रहो भवेत् । भ्रान्तं योषिद्विनाशाय विसूत्रं भूरिशत्रुकृत् ॥ १३ ॥ मूषकोत्करवल्मीकप्रान्ता वक्रा भुजङ्गवत् । छिन्ना भिन्ना विकर्णा च न वास्तुनि शुभा क्षितिः ॥ १४ ॥ मूषकोत्करवत्यर्थं हन्ति वल्मीकिनी सुतम् । विकर्णा कुरुते कर्णरोगं छिन्ना विनाशिनी । भिन्ना भेदं करोत्युर्वी कुटिला मतिवक्रताम् ॥ १५ ॥ १ द. वे। २ द. भासा। ३ द. केसीकीटत्वप्लषभस्मोषरान्वितं; ख. ग. 'सी' । ४ ख. ग. त्वप्लषभ । ५ द. भ । ६ क. अश्विन्ये क; द. अं । ७ द. तः । ८ द. तः । ९ द. विरुद्धं । १० द. विचित्र । ११ क. शुभम्; द. शुतं । १२ क. ग. र्तु । १३ क. गान् ।