समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 335, कुल 726 में से
संदर्भ में पढ़ें२७० समराङ्गणसूत्रधारे आत्मनः शूलहस्तस्य धनाध्यक्षस्य पाशिनः । सुरेशिने च विश्वेशो विमा³नानि यथाक्रमम् ॥ ४ ॥ बहून्यन्यानि चैवं स सूर्यादीनाम⁴कल्पय⁵त् । विशेषाँय यथोक्तैस्तान्याकारैः प्रतिदैवतम् ॥ ५ ॥ प्रासादांश्च तदाकाराञ् शिलापक्केष्ट⁶कादिभिः । नगराणामलङ्कारहेतवे समकल्पय⁷त् ॥ ६ ॥ वैराजं चतुरश्रं स्याद् वृत्तं कैलाससंज्ञितम् । चतुरश्रोयताकारं ⁸विमानं पुष्पकं भवेत् ॥ ७ ॥ वृत्तायतं च मणिकमष्टाश्रिं स्यात् त्रिविष्टप⁹म् । तद्भेदाञ्¹⁰ श्रीमतोन्यांश्च विविधाँनै¹²सृजत् प्रभुः ॥ ८ ॥ ये यत्रे¹³ विहिता¹⁴ भेदाः पूर्वं कमलयोनिना । स¹⁵र्वांस्तानभिधास्यामो नामसंस्थानमानतः ॥ ९ ॥ रुचकश्चित्रकूटश्च तृतीयः सिंहपञ्जरः । भद्रः श्रीकूट उष्णीषः शालौक्षो § गजयूथपः ॥ १० ॥ नन्द्यावर्तोंऽवतंसाह्वः स्वस्तिकः क्षितिं¹⁶भूषणः । भूजयो विजयो † नन्दी श्री¹⁷नेरुः प्रमदाप्रियः ॥ ११ ॥ व्यामिश्रो हस्तिजातीयः कुबेरो वसुधाधरः । सर्वभद्रो विमानां¹⁸ख्यो मुक्तकोणश्च नामतः ॥ १२ ॥ चतुर्विंशतिरुद्दिष्टा चतुरश्राः समासतः । वृत्तांस्तथाभिधास्यामः प्रासादानपरानपि²⁰ ॥ १३ ॥ वलयो दुन्दुभिः प्रान्तः पद्म²¹: कान्तश्चतुर्मुखः । मौण्डूकारख्यो²²ऽथ कू²³र्मश्च तालीगृह उल्लूपिकः ॥ १४ ॥ १ द. मू.। २ द. मा.। ३ द. मानसानि। ४ द. ये। ५ क. षाकेर्यय, ख. ग. षायग्रथो। ६ ख. ग. घ दारुभिः, द. पक्वेषु दारुभिः। ७ द. येन्। ८ द. रा। ९ द. स्ति। १० द. न्यां तु। ११ द. ॰धासोम्। १२ द. त्वः। १३ द. त्वा। १४ द. र्व्वन्ता॰। १५ क. क्षोऽथ म। १६ द. वि। १७ क. ख. ग. या। १८ ग. मत्तः प्र। १९ क. ख. ग. नाङ्को; द. नांको। २० द. पति। २१ द. द्य। २२ क. मान्दूका; ख. ग. द. मन्दुका;। २३ द. क। § शालाक्ष्व इति सञ्जणे पाठः। † सञ्जणे तु नन्द इति पश्यते।