समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 336, कुल 726 में से
संदर्भ में पढ़ेंरुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः। २७१ इति वृत्ताः समासेन प्रासादा दश कीर्तिताः । चतुरश्रायता ये स्युः कथ्यन्ते तेऽपि¹ नामतः ॥ १५ ॥ भवो विशालः साम्मुख्यः प्रभवः शिबिरागृहः । मुखशालो द्विशालश्च गृहराजोऽमलो विभुः ॥ १६ ॥ एवमेते समुद्दिष्टाश्चतुरश्रायता दश । अथ वृत्तायतान् ब्रूमः प्रासादानभिधानतः ॥ १७ ॥ आमोदो रै²तिकस्तुङ्गश्चारुभूतिर्निषेवकः । सदा(?)निषेधः सिंहारख्यः सुप्रभो लोचनोत्सवः ॥ १८ ॥ एते वृत्तायताः प्रोक्ताः प्रासादा नामतो दश । अष्टाश्रीणां ३ च नामानि कथयामि समासतः ॥ १९ ॥ वज्रको नन्दनः शङ्खुर्मेखलो वामनो लयः । महापद्मश्च हंसश्च व्योमचन्द्रोदयाविति ॥ २० ॥ अष्टाश्रय इमे प्रोक्ताः प्रासादा दश संख्यया । भवन्त्येवं चतुष्षष्टिर्लक्ष्मैषामधुनोच्यते ॥ २१ ॥ संस्थानमानविन्यासैर्भद्रस्तम्भादिसङ्ख्ययौ⁵ । एषां विशेषा वक्ष्यन्ते पृथक् पृथगनुक्रमात् ॥ २२ ॥ ज्येष्ठो भागश्चतुर्हस्तः सार्धहस्तत्रयोऽपरः । कल्पनीयः कनीयांस्तु हस्तत्रितयसम्मितः ॥ २३ ॥ ज्येष्ठमध्यकनीयोभिरेवं भागैर्विभाजिताः । भवन्ति सर्वप्रासादा⁶ ज्येष्ठमध्याधमक्रमात् ॥ २४ ॥ चतुरश्रीकृते क्षेत्रे चतुर्भागविभाजिते । कुर्यात् स्वारोहकाश्वासं पीठमंशसमुद्धृतम् ॥ २५ ॥ तथा तस्योपरि स्थाप्या हंसपृष्ठी⁹ समन्ततः । हस्तमात्रोच्छ्रिता वृत्ता जलनिर्गमभूषिता ॥ २६ ॥ १ द. म्नि । २ ख. ग. री; द. रीतिकस्तुंगश्वावभूति° । ३ द. अष्टाश्रीणां तु ना° । ४ क. तु । ५ द. योः । ६ द. या । ७ द. द । ८ द. मा । ९ क. ष्ठा ।