भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 337, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 337

२७२ समराङ्गणसूत्रधारे । ततः पीठस्य तस्यान्तर्द्विभागाय(या)मविस्तृतिः । प्रासादो रुचकः कार्यो भागत्रितयमुच्छ्रितः ॥ २७ ॥ सार्धभागेन संछा स्यान् सार्धभागस्तु योऽपरैः(१) । छाद्य(द्य)त्रयं सकण्ठं स्यात् तेन सामलसारकम् ॥ २८ ॥ द्वारं भागोच्छ्रितं तस्य कार्य भागार्धविस्तृतम्। संप्राग्रीवः स कर्तव्यश्चतुर्दशघरावृतः ॥ २९ ॥ ससौधाविन्दकश्चारुरुर्ध्वच्छाद्योपकर्षवान् । क्रियतेऽत्र यदा स्तम्भो(म्भैः)द्वाविंशत्या समावृतः ॥ ३० ॥ संपाग्रीवपरिष्कारो भागिकालिन्दशोभितः । मध्यप्रदेशे रुचकः प्रासादः परिकीर्तितः ॥ ३१ ॥ रुचकः । : कैर्णप्राग्रीवकैश्चित्रैः संप्राग्रीवश्च यो वृतः । द्वाभ्यां द्वाभ्यां गवाक्षाभ्यां चतुर्दिशमलङ्कृतः ॥ ३२ ॥ कपोतालीपरिक्षिप्तः शोभितो द्वारसम्पदा । तदानीं चित्रकूटारूयः प्रासादः सोऽभिधीयते ॥ ३३ ॥ चित्रकूटः । अयमेव पुनः षड्भिः स्तम्भैरपि चितो यदा। प्राग्रीवकविहीनंश्च स भवेज्जालरूपकः ॥ ३४ ॥ सिंहपञ्जर इत्युक्तः प्रासादः स तदा शुभः । सिंहपञ्जरः । कर्णप्राग्रीवकौ द्वौद्वावस्यैव भवतो यदा ॥ ३५ ॥ अलिन्दकगतिस्थित्या तदा भद्रः प्रकीर्तितः । भद्रः । स्याच्चित्रकूट प्राग्रीवैश्चतुर्भिर्दिक्षुचतुष्टये ॥ ३६ ॥


१ द. तस्यां तद्विभागायविस्ततिः । २ ख. ग. स्त। ३ ख. वृत्तसमु । ४ ख. स्तम्भा स्यान्; द. घा । ५ क. षु । ६ द. छतयं । ७ द. सं। ८ ख. ग. र्ध्व । ९ ख. ग. द. द्या। १० ख. ग. न । ११ म्भं क. । १२ द. सा। १३ द. शुचकप्रासादो पूर्वकीर्तितः । १४ क. कै; द. कर्ता । १५ द. क । १६ द. सा। १७ द. दः । १८ ख. ग. प । १९ दः वहीनस्य । २० द. क्षु ।